摩诃婆罗多 · 章 12.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.45.1
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम ।
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥ १२.४५.१ ॥
威力无量者啊,您所沉思的这至高奇迹是什么?这三界可得安宁吗?世界的依归啊?
12.45.2
इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते ।
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषर्षभ।
अपक्रान्तो यतो जीवस्तेन मे विस्मितं मनः ॥ १२.४५.२ ॥
您已将诸根与意念安住于觉智之中。人中雄牛啊,您已依止第四禅定之道,因生命之我已离您而去,我心因此惊异。
12.45.3
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः ।
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ॥ १२.४५.३ ॥
您体内司掌五种功能的风息确已被制止,您的一切诸根也都安置于意念之中。
12.45.4
वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते ।
सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः ॥ १२.४५.४ ॥
哥文达啊,您的言语与善性已安住于觉智之中,您的一切德性与诸天也都安置于知场者——自我之中。
12.45.5
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः ।
काष्ठकुड्यशिलाभूतो निरीहश्चासि माधव ॥ १२.४५.५ ॥
您的体毛不动,觉智与意念也都安定。摩陀婆啊,您已如木、如墙、如石,寂然不动,无所欲求。
12.45.6
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत ।
तथाऽसि भगवन्देन निश्चलो योगनिश्चयात् ॥ १२.४५.६ ॥
犹如置于无风之处的灯火,燃烧而不摇曳,阿终陀啊,世尊啊,您也因瑜伽的坚定决心而如是安住不动。
12.45.7
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि ।
छिन्धि मे संशयं देव प्रपन्नायाभियाचते ॥ १२.४५.७ ॥
若我于此有资格听闻,且此事并非你的秘密,那么,神啊,请断除我的疑惑,我已归依于你,恳求于你。
12.45.8
त्वं हि कर्ता विकर्ता च त्वं क्षरश्चाक्षरश्च ह ।
अनादिनिधनो ह्याद्यस्त्वमेकः पुरुषोत्तम ॥ १२.४५.८ ॥
你是创造者,也是毁灭者;你既是可灭者,也是不灭者。无始无终,你是原初者,唯你独一,人中最上者啊。
12.45.9
त्वं प्रपन्नाय भक्ताय शिरसा प्रणताय च ।
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ॥ १२.४५.९ ॥
对于归依于你、虔诚且低头礼拜的我,请讲述此禅定的真实义理,持法者中最上者啊。
12.45.10
ततः स्वगोचरे न्यस्य मनोबुद्धीन्द्रियाणि च ।
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥ १२.४५.१० ॥
于是,他将心、智与诸根安置于各自的境界,先微微一笑,然后说了这番话,此即因陀罗之弟、世尊。
12.45.11
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः ।
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥ १२.४५.११ ॥
毗湿摩卧于箭床之上,平静如将熄之火,那人中之虎正在观想我;因此我的心已向他而去。
12.45.12
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
न सहेद्देवराजोऽपि तमस्मि मनसा गतः ॥ १२.४५.१२ ॥
其弓弦之声如霹雳之吼,即使天神之王因陀罗亦不能承受,我已以心意而往至于他那里。
12.45.13
येनाभिजित्य तरसा समस्तं राजमण्डलम् ।
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ॥ १२.४५.१३ ॥
他曾迅速征服所有诸王,并夺走了三位少女;我已在心中归向了他。
12.45.14
त्रयोविंशतिरात्रं यो योधयामास भार्गवम् ।
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥ १२.४५.१४ ॥
他与婆迦婆(持斧罗摩)激战二十三夜,且未被罗摩击败;我已在心中归向了他。
12.45.15
यं गङ्गा गर्भविधिना धारयामास भारतम् ।
वसिष्ठशिष्यं तं तात गतोऽस्मि मनसा नृप ॥ १२.४५.१५ ॥
我已在心中归向那位由恒河以胎养之法孕育、为婆悉吒弟子的婆罗多(英雄)——啊,爱子,啊,国王。
12.45.16
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् ।
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥ १२.४५.१६ ॥
那位大光明而智慧的人,他执持神兵与四吠陀及其支分——我已在心中归向了他。
12.45.17
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव ।
आधारं सर्व्रविद्यानां तमस्मि मनसा गतः ॥ १२.४५.१७ ॥
啊,般度之子,他是(永生)罗摩——即雅摩陀祢之子——的爱徒,是一切明智之学的根基;我已在心中归向了他。
12.45.18
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया ।
शरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥ १२.४५.१८ ॥
若有人收摄诸根,以智慧调伏其心,来归依于我——那么我的心便归向于他。
12.45.19
स हि भूतं भविष्यच्च भवच्च भरतर्षभ ।
वेत्ति धर्मविदां श्रेष्ठस्तमस्मि मनसा गतः ॥ १२.४५.१९ ॥
婆罗多族的雄牛啊,他知过去、未来与现在。我心中已前往这位通晓法义者中最卓越的人那里。
12.45.20
तस्मिन्हि पुरुषव्याघ्रे शान्ते भीष्मे महात्मनि ।
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥ १२.४५.२० ॥
普利塔之子啊,当那位人中猛虎、大心的毗湿摩安息之时,大地将如失去月亮的夜晚。
12.45.21
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् ।
अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम् ॥ १२.४५.२१ ॥
因此,尤迪什提拉啊,去见恒河之子毗湿摩,他有可怖的威力。扶住他的脚,问出你心中所想。
12.45.22
चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च ।
राजधर्मांश्चि निखिलान्पृच्छैनं पृथिवीपते ॥ १२.४५.२२ ॥
四吠陀之知、四种祭司职务、四行期,以及一切王法,地上之主啊,请向他询问这一切。
12.45.23
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुंरधरे ।
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ॥ १२.४५.२३ ॥
当库鲁族的支柱毗湿摩陨落之后,知识将变得稀少。因此我催促你。
12.45.24
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् ।
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥ १२.४५.२४ ॥
听完婆苏提婆这真实而殊胜的话语,通晓法义的尤迪什提拉哽咽着对阇那陀那说道。
12.45.25
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव ।
तथा तन्नात्र संदेहो विद्यते मम माधव ॥ १२.४५.२५ ॥
摩陀婆啊,你所说的关于毗湿摩之威力的话,确是如此;对此我毫无疑问,摩陀婆啊。
12.45.26
महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते ।
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ॥ १२.४५.२६ ॥
光辉者啊,毗湿摩的大福运与威力,我是从谈论此事的大德婆罗门那里听来的。
12.45.27
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन ।
तथा तद्रनभिध्येयं वाक्यं यादवनन्दन ॥ १२.४५.२७ ॥
灭敌者啊,你是诸世界的创造者,你所说的正是如此;那句话,耶达婆的欢喜者啊,即使在战阵中也值得深思。
12.45.28
यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव ।
त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम् ॥ १२.४५.२८ ॥
摩陀婆啊,若你对我的心意充满恩惠,那么我们便请你走在前面,去往毗湿摩那里。
12.45.29
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति ।
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥ १२.४५.२९ ॥
待圣日回转之后,他必将前往诸世界;因此,大臂者啊,这位俱卢之子值得见到你。
12.45.30
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च ।
दर्शनं त्वस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥ १२.४५.३० ॥
你确是原初之神;可朽与不朽皆是你。见到你将是他的收获,因为你是由梵构成的宝藏。
12.45.31
श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः ।
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥ १२.४५.३१ ॥
摩陀苏陀那听了法王的这些话,对站在身旁的萨谛奇说:“套上我的车吧。”
12.45.32
सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः ।
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥ १२.४५.३२ ॥
萨谛奇迅速离开克舍婆身边,对达鲁迦说:“套上克里希那的车吧。”
12.45.33
स सात्यकेराशु वचो निशम्य ।
रथोत्तमं काञ्चनभूषिताङ्गम्।
मसारगल्वर्कमयैर्विभङ्गै ।
र्विभूषितं हेमनिबद्धचक्रम् ॥ १२.४५.३३ ॥
他听了萨谛奇的话,迅速备好了最好的战车:车身以黄金装饰,以马撒罗、伽尔瓦和日光石的部件点缀,车轮以黄金箍紧。
12.45.34
दिवाकरांशुप्रभमाशुगामिनं ।
विचित्रनानामणिभूषितान्तरम्।
नवोदितं सूर्यमिव प्रतापिनं ।
विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥ १२.४५.३४ ॥
战车如日光般明亮,疾速前行,内部镶饰着各色珍宝,光辉如初升的太阳,旗帜上绘有多彩的迦鲁达,并饰有旌旗。
12.45.35
सुग्रीवशैब्यप्रप्नुखैर्वराश्वै ।
र्मनोजवैः काञ्चनभूषिताङ्गैः।
संयुक्तमावेदयदच्युताय ।
कृताञ्जलिर्दारुको राजसिंह ॥ १२.४५.३५ ॥
装备着以苏格里瓦、舍比耶等为首的良马,马快如思,身披金饰。达鲁迦合掌向阿017丘多禀报:“王中之狮啊。”