摩诃婆罗多 · 章 12.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.46.1
शरतल्पे शयानस्तु भरतानां पितामहः ।
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥ १२.४६.१ ॥
躺在箭床上的婆罗多族祖父如何舍弃了身体,又保持了何种瑜伽?
12.46.2
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ १२.४६.२ ॥
国王啊,请你洁净身心、专注地听:这是库鲁族之虎、大人格的毗湿摩舍弃身体之事。
12.46.3
प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे ।
शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव ॥ १२.४६.३ ॥
国王啊,太阳刚刚开始北行之时,在摩伽罗月(Māgha)白半月的第八日。
12.46.4
प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे ।
समावेशयदात्मानमात्मत्येव समाहितः ॥ १२.४६.४ ॥
在生主(Prājāpatya)宿中,太阳到达正午之时,他收摄身心,将自我安住于自我之中。
12.46.5
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः ।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ १२.४६.५ ॥
毗湿摩被数百支箭覆盖,犹如光芒四射的太阳,身边环绕着最优秀的婆罗门,光辉无比。
12.46.6
व्यासेन देवश्रवसा नारदेन सुरर्षिणा ।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥ १२.४६.६ ॥
与毗耶娑、提婆斯拉瓦斯、神仙那罗陀、提婆斯坦那、瓦特斯亚,以及阿什摩迦和苏曼杜一起。
12.46.7
तथा जैमिनिना चैव पैलेन च महात्मना ।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥ १२.४६.७ ॥
同样,贾弥尼、伟大的毗罗、山底利耶、提婆罗和智慧的弥勒(也如此说)。
12.46.8
असितेन वसिष्ठेन कौशिकेन महात्मना ।
हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता ॥ १२.४६.८ ॥
阿悉多、婆私吒、伟大的憍尸迦、哈利多、罗摩舍,以及智慧的阿特拉(也如此说)。
12.46.9
बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः ।
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः ॥ १२.४६.९ ॥
brhaspati与śukra、大仙者遮婆那、萨那特昆摩罗、迦毗罗、蚁垤、顿布卢与俱卢。
12.46.10
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः ।
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः ॥ १२.४६.१० ॥
毛德伽利耶、婆利古之子罗摩、大仙草露、毕钵罗陀、风神、萨瓦尔塔、补罗诃与迦查。
12.46.11
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः ।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥ १२.४६.११ ॥
迦叶波与补罗斯底耶、迦度、达刹、波罗奢罗、摩利奇、安吉罗、迦奢耶、乔答摩,以及仙人伽罗婆。
12.46.12
धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः ।
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः।
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः ॥ १२.४६.१२ ॥
达乌摩、毗婆那、曼达婆耶、达乌摩罗、黑天与阿奴乌提迦、最上婆罗门优卢迦、大仙摩根德耶、婆斯迦利、补罗那、黑天,以及极具法德的苏陀。
12.46.13
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ।
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः ॥ १२.४६.१३ ॥
他被这些及其他众多仙人环绕,他们皆大福大德、心胸广大,具足信、制与寂,犹如月亮被众星环绕。
12.46.14
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ।
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥ १२.४६.१४ ॥
而人中之虎毘湿摩,卧于箭床之上,身、心、语皆清净,合掌专注地思念克里希那。
12.46.15
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् ।
योगेश्वरं पझनाभं विष्णुं जिष्णुं जगत्पतिम्।
अनादिनिधनं विष्णुमात्मयोनिं सनातनम् ॥ १२.४६.१५ ॥
他以欢喜而有力的声音赞颂摩图苏陀那——瑜伽之主、脐生莲花者、毗湿奴、胜者、世界之主、无始无终者、毗湿奴、自生者、永恒者。
12.46.16
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः ।
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ १२.४६.१६ ॥
毗湿摩合掌致敬,他是善于言辞者中的第一人,是主人,本性至极正直,于是开始赞颂婆苏提婆。
12.46.17
आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् ।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ १२.४६.१७ ॥
我想使克里希那欢喜,愿至上人以我将要说的言辞而欢喜——正是毗耶娑所简要宣说的那种言辞。
12.46.18
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ।
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ १२.४६.१८ ॥
纯净者,其居所纯净,天鹅,那至上的至尊者——以全部自我与之相合,我皈依那位生主。
12.46.19
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥ १२.४६.१९ ॥
无始无终的至上梵,诸神与仙人皆不知晓。唯有这一位——世尊、创造者、那罗延、哈里——知晓它。
12.46.20
नारायणादृषिगणास्तथा सिद्धमहोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ १२.४६.२० ॥
由那罗延生出诸仙人众、成就者与大蛇。诸神与天仙也知晓那作为苦难良药的他。
12.46.21
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥ १२.४६.२१ ॥
诸天、阿修罗、乾闼婆、夜叉、罗刹与龙蛇都不认识他。此人是谁?从何而来?这位世尊又是谁?
12.46.22
यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः ।
यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा ॥ १२.४६.२२ ॥
人们称他为世界的宝库,万物安置于他之中,这些世界在他之中闪耀,如网中之鸟。
12.46.23
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ १२.४६.२३ ॥
一切众生存在于他之中,又进入他之中,在众生之主中成为属性,如线上的串串宝珠。
12.46.24
यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ।
वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः ॥ १२.४६.२४ ॥
冥思自性者称他为宇宙的创造者、动与不动世界的主宰、世界的监督者。
12.46.25
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ १२.४६.२५ ॥
在那永恒者之中,如花环系于伸展而坚固的线上,由有与无编织而成的宇宙得以安立;他以宇宙为身,乃宇宙的创造者。
12.46.26
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ।
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम् ॥ १२.४६.२६ ॥
哈里,千头、千足、千目、千臂,戴着宝冠,以千张面孔而光辉。
12.46.27
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १२.४६.२७ ॥
人们称他为天神那罗衍那,宇宙的至上依归:小于至小,大于至大,重于至重,即使在善之中也是最善。
12.46.28
चं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १२.४६.२८ ॥
在诗句、章节、集会与奥义书中,人们赞颂这位行真实之业者:真实中的真实,在娑摩颂歌之中。
12.46.29
चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम् ।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ १२.४६.२९ ॥
萨特瓦特之主,具四重自我,安住于善性之中;人们以神圣、秘密与至上之名崇拜这位天神。
12.46.30
यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति ।
सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥ १२.४६.३० ॥
苦行常在他之中修持,并在他的肢体之中行持:他是一切之我,一切之知者,一切,全知者,一切存在的生起之源。
12.46.31
यं देवं देवकी देवी वसुदेवादजीजनत् ।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥ १२.४६.३१ ॥
女神提婆基从婆苏提婆所生的那位神,如钻木取出燃烧的火,为了守护大地与梵。
12.46.32
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥ १२.४६.३२ ॥
无二心者、无欲无垢者,供奉无限的戈文达,便在自身之中见到自我。
12.46.33
अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम् ।
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ १२.४६.३३ ॥
我皈依那位生主:不可思议、不可认知的哈里、那罗延、遍在者,其业超过风神与因陀罗,其光超过日与火,其自我超过智与诸根。
12.46.34
पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु ।
क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥ १२.४६.३४ ॥
往古史书中宣说此原人,在诸时代之始由梵天宣说;劫末时则名为三昧尔沙那。我们敬拜这值得敬拜的他。
12.46.35
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् ।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ १२.४६.३५ ॥
彼虽为一,却显现为多种形相,即无上的阿德奥克沙者,满足一切愿望的施予者;行祭仪者不奉他神,而唯独敬拜他。
12.46.36
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ १२.४६.३६ ॥
真实不二的一音节梵,超越有与无,无始无中无终;此诸天神与仙人亦不知晓。
12.46.37
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः ।
प्रयता नित्यमर्चन्ति परमं सुखभेषजम् ॥ १२.४६.३७ ॥
诸天、阿修罗、乾闼婆、悉陀、仙人与大蛇以自制之心恒常礼敬的那位,乃是至上的安乐良药。
12.46.38
अनादिनिधनं देवमात्मयोनिं सनातनम् ।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥ १२.४६.३८ ॥
无始无终之神、自生、永恒、不可见、不可知的主宰哈里·那罗延。
12.46.39
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् ।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ १२.४६.३९ ॥
向那金色胎藏、摧毁达蒂亚者、虽一而从阿底提以十二种形态诞生的日之自我致敬。
12.46.40
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः ।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ १२.४६.४० ॥
于白分以甘露养育诸天、于黑分养育祖先,并为再生者之王的那位,向月之自我致敬。
12.46.41
हुताशनमुखैर्देवैर्धार्यते सकलं जगत् ।
हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः ॥ १२.४६.४१ ॥
以火为口的诸神支撑着整个世界;那第一个享用祭品的、作为祭司之自我的他,致敬。
12.46.42
महतस्तमसः पारे पुरुषं ह्यतितेजसम् ।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ १२.४६.४२ ॥
超越大我与暗黑的、极其光明的补鲁沙,知之即可越过死亡;向那可知之自我致敬。
12.46.43
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे ।
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ १२.४६.४३ ॥
在大赞歌中被称为广大者,在火中,在大祭中,群智者所歌咏的那位,其自性即吠陀,向他致敬。
12.46.44
पादाङ्गं संधिपर्वाणं स्वरव्यञ्जनभूषितम् ।
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः ॥ १२.४६.४४ ॥
以足为肢,以连接为节,以元音辅音为饰,智者称之为不灭音节,向其自性即言语者致敬。
12.46.45
यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह ।
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥ १२.४६.४५ ॥
以祭祀为肢者,化为野猪,确实举起大地,为三界之利益,向其自性即力量者致敬。
12.46.46
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् ।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ १२.४६.४६ ॥
以《梨俱》《夜柔》《娑摩》为居所,以半十之献为形,人们以七缕之线展开的那位,其自性即祭祀,向他致敬。
12.46.47
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥ १२.४६.४७ ॥
以四与四、二与五,又以二献祭于其中,向其自性即献祭者致敬。
12.46.48
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः ।
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥ १२.४६.४८ ॥
他是名为夜柔的金翅鸟,以诗律为身,以三重为首,以罗陀antara与布里哈特为翼,向其自性即赞颂者致敬。
12.46.49
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः ।
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः ॥ १२.४६.४९ ॥
敬礼于彼:他在千祭之会中,于创造世界者之中诞生为仙人,乃金翼之鸟,其自性即为塔尔克希亚。
12.46.50
यश्चिनोति सतां सेतुमृतेनामृतयोनिना ।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ १२.४६.५० ॥
敬礼于彼:他以真理与不死之源,借法、利与行为之支分,为善人架设桥梁;敬礼其自性,即是真实。
12.46.51
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः ।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ १२.४६.५१ ॥
敬礼于彼:奉行不同法行、求取不同法果者,以不同的法而礼拜他;敬礼其自性,即是法。
12.46.52
यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः ।
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥ १२.४६.५२ ॥
一切有身众生由其而生——从无身者(爱神)之我而生的有支分之身;一切众生中的狂热亦由其而来:敬礼于彼,其自性即为欲。
12.46.53
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः ।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ १२.४६.५३ ॥
敬礼于彼:大仙人寻求他为居于显现中的未显者,坐于田中为知田者;敬礼其自性,即是田。
12.46.54
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः ।
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ १२.४६.५४ ॥
敬礼于彼:数论者称其为居于自我中、被十六德所包围的见者之我,并以之为第十七;敬礼其自性,即是数论。
12.46.55
यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः ॥ १२.४६.५५ ॥
无眠、制服气息、知足且约束诸根的瑜伽修行者,在修习瑜伽时视其为光明——向以瑜伽为自性者致敬。
12.46.56
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ १२.४६.५६ ॥
当功德与罪业止息时,无惧再生的寂静苦行者得以抵达他——向以解脱为自性者致敬。
12.46.57
यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥ १२.४६.५७ ॥
火为其口,天为其首,虚空为其脐,大地为其足,太阳为其目,方位为其耳——向以世界为自性者致敬。
12.46.58
युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः ।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ १२.४६.५८ ॥
他在诸劫中以其分支化作月、季、至、年而运转,是创造与毁灭之主——向以时间为自性者致敬。
12.46.59
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः ।
संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥ १२.४६.५९ ॥
那位在千劫之末、火焰炽燃的毗婆娑火,吞噬一切众生——向以可怖为自性者致敬。
12.46.60
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ १२.४६.६० ॥
吞尽一切众生,使世界化为一片汪洋,然后如孩童般独自安睡者——向以幻化为自性者致敬。
12.46.61
सहस्रशिरसे तस्मै पुरुषायामितात्मने ।
चतुःसमुद्रपयसि योगनिद्रात्मने नमः ॥ १२.४६.६१ ॥
向那千头、无量自性的补鲁沙致敬,他在四海之水上安住于瑜伽睡眠之中。向他致敬。
12.46.62
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् ।
पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः ॥ १२.४६.६२ ॥
在无生者的肚脐中有一朵莲花,宇宙安立其上。向莲花眼、以莲花为自性者致敬。向他致敬。
12.46.63
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ १२.४६.६३ ॥
其发中有云,其诸肢节中有河流,其腹中有四海:向以水为自性者致敬。
12.46.64
यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥ १२.४६.६४ ॥
从其中产生创造与毁灭的变化,又在其中消融:向以因为自性者致敬。
12.46.65
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः ।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥ १२.४६.६५ ॥
夜里安坐、白日站立,见证可欲与不可欲之事者:向以见者为自性者致敬。
12.46.66
अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः ।
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥ १२.४६.६६ ॥
虽在一切事业中无所作为,却专注于法业:这正是毗湿奴的形相。向以行为自性者致敬。
12.46.67
ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।
पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः ॥ १२.४६.६७ ॥
婆罗门是他的口,刹帝利是他的双臂,吠舍是他的大腿与腹部,首陀罗依靠他的双足:向以种姓为自性者致敬。
12.46.68
अन्नपानेन्धनमयो रसप्राणविवर्धनः ।
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ १२.४६.६८ ॥
由食物、饮水与燃料所成,增长精液与气息,承载众生:向以生气为自性者致敬。
12.46.69
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् ।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ १२.४६.६९ ॥
为维系诸气,他食用四种食物,作为内在之火将其消化:向以消化为自性者致敬。
12.46.70
विषये वर्तमानानां यं तं वैषयिकैर्गुणैः ।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ १२.४६.७० ॥
在于诸感官对象之中者,以对象的属性被称为对象的守护者:向以守护为自性者致敬。
12.46.71
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे ।
अपारपरिमाणाय तस्मै दिव्यात्मने नमः ॥ १२.४६.७१ ॥
身体不可量度,以智慧为眼遍照一切,度量无边:向以神圣为自性者致敬。
12.46.72
परः कालात्परो यज्ञात्परः सदसतश्च यः ।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ १२.४६.७२ ॥
超越时间,超越祭祀,超越有与无;无始而为宇宙之始:向以宇宙为自性者致敬。
12.46.73
वैद्युतो जाठरश्चैव पावकः शुचिरेव च ।
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः ॥ १२.४६.७३ ॥
在闪电、腹中之火、净化之火与纯净之中的那位,焚烧一切可食之物者——向以火为自性的他致敬。
12.46.74
रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः ।
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः ॥ १२.४६.७४ ॥
居于地底世界的那位光荣无尽的薄伽梵主宰,承载此世界者——向以舍沙为自性的他致敬。
12.46.75
ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् ।
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः ॥ १२.४६.७५ ॥
照亮诸光明之光辉者——火、日、月与星辰以神圣形相显现的光芒——向以光辉为自性的他致敬。
12.46.76
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् ।
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ १२.४६.७६ ॥
此乃自我之知,住于五大之中的知识;知之者以智慧证得他——向以智为自性的他致敬。
12.46.77
साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः ।
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः ॥ १२.४६.७७ ॥
数论与瑜伽者经审定,诸萨陀耶与大仙所知其真理者——向以秘密为自性的他致敬。
12.46.78
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ १२.४६.७८ ॥
结发者、持杖者,常具垂腹之身,持水瓶与箭囊者——向以梵为自性的他致敬。
12.46.79
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने ।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः ॥ १२.४६.७९ ॥
敬礼持三叉戟者、诸天之主、三眼大我;敬礼以灰涂抹上竖之相的楼陀罗自性。
12.46.80
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने ।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥ १२.४६.८० ॥
敬礼猛烈之自性:其首戴半月,以蛇为圣线,双手持毗那迦弓与三叉戟。
12.46.81
यो जातो वसुदेवेन देवक्यां यदुनन्दनः ।
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः ॥ १२.४६.८१ ॥
敬礼婆苏提婆之自性:他由婆苏提婆与提婆吉所生,乃耶度族之喜悦,手持法螺、轮与棒。
12.46.82
शिरःकपालमालाय व्याघ्रचर्मनिवासिने ।
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः ॥ १२.४६.८२ ॥
敬礼楼陀罗自性:戴骷髅之鬘,居于虎皮之上,身涂灰烬。
12.46.83
यो मोहयति भूतानि सर्वपाशानुबन्धनैः ।
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ १२.४६.८३ ॥
敬礼迷惑之自性:以一切绳索的系缚迷惑众生,却为守护一切而存在。
12.46.84
चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् ।
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः ॥ १२.४६.८४ ॥
敬礼微妙之自性:觉性遍在一切处,恒住于一切众生心中,超越一切而极为微妙。
12.46.85
पञ्चभूतात्मभूताय भूतादिनिधनाय च ।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ १२.४६.८५ ॥
敬礼那成为五大元素之自我、为万物之始终、离于忿怒、敌意与迷惑的寂静自我。
12.46.86
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥ १२.४६.८६ ॥
一切在其中、一切由其出、即是一切、遍在一切方、由一切所成之神,敬礼彼一切自我。
12.46.87
यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते ।
फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥ १२.४६.८७ ॥
敬礼卧于乳海之榻、以神蛇庄严、以千头所成之床的睡眠自我。
12.46.88
विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि ।
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः ॥ १२.४६.८८ ॥
诸大天、摩录多、楼陀罗、阿迪提耶、双阿输昆、婆苏、悉陀与萨陀耶,皆其形相;敬礼彼诸神之自我。
12.46.89
अव्यक्तं बुद्ध्यहंकारो मनोबुद्धीन्द्रियाणि च ।
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः ॥ १२.४६.८९ ॥
未显、觉与我慢、意觉与诸根、微细元素与粗别,亦皆其所有;敬礼彼诸谛之自我。
12.46.90
भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः ।
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः ॥ १२.४६.९० ॥
过去、现在与未来;为万物初始之不灭本源;为一切众生之长子;敬礼彼众生之自我。
12.46.91
यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः ।
सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः ॥ १२.४६.९१ ॥
知微者寻求的至上微妙者,比微妙更微妙的梵,向那以微妙为自性者致敬。
12.46.92
मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः ।
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः ॥ १२.४६.९२ ॥
化为鱼,为毗梨止(梵天)取回吠陀,迅速没入下界者,向以鱼为自性者致敬。
12.46.93
मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने ।
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः ॥ १२.४६.९३ ॥
在搅动甘露之时,以身托起曼陀罗山者;身体极为坚硬者,向以龟为自性者致敬。
12.46.94
वाराहं रूपमास्थाय महीं सवनपर्वताम् ।
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः ॥ १२.४६.९४ ॥
化为野猪之形,以一獠牙托起连同森林与山岳的大地者,向以野猪为自性者致敬。
12.46.95
नारसिंहवपुः कृत्वा सर्वलोकभयंकरम् ।
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥ १२.४६.९५ ॥
化作人狮之身,令一切世界恐惧,杀死希兰耶迦希布的那位,向以狮子为自性者致敬。
12.46.96
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम् ।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥ १२.४६.९६ ॥
其形有黄褐色的眼睛与鬃毛,并具獠牙与利爪,终结檀那婆之主者,向以猛烈为自性者致敬。
12.46.97
यं न देवा न गन्धर्वा न दैत्या न च दानवाः ।
तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः
वामनं रूपमास्थाय बलिं संयम्य मायया ।
त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः ॥ १२.४६.९७ ॥
诸天、乾闼婆、达伊提亚与檀那婆皆不能真知之者,向那微妙之我致敬。化作侏儒之形,以幻力制伏婆利,跨越三界之人,向那跨步之我致敬。
12.46.98
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः ।
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः ॥ १२.४६.९८ ॥
Rāma成为Jamadagni之子,乃持兵者中最上之人,使大地无刹帝利。向那即是Rāma之我致敬。
12.46.99
त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात् ।
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः ॥ १२.४६.९९ ॥
因违背法的重负,独自于战中二十一次杀戮刹帝利者,向那即是愤怒之我致敬。
12.46.100
विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः ।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥ १२.४६.१०० ॥
将自身分为五种,化为风住于身中,使众生运作者,向那即是风之我致敬。
12.46.101
रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम् ।
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः ॥ १२.४६.१०१ ॥
化为十车王之子Rāma,于战中杀死Pulastya族之喜悦Rāvaṇa者,向那即是战士之我致敬。
12.46.102
यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः ।
रामाय रौहिणेयाय तस्मै भोगात्मने नमः ॥ १२.४६.१०२ ॥
敬礼那持犁与杵、身着蓝衣、光辉而立者——罗希尼之子罗摩,其自性即是享受。
12.46.103
शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे ।
वनमालाधरायैव तस्मै कृष्णात्मने नमः ॥ १२.४६.१०३ ॥
敬礼那常持法螺、轮盘与沙陀弓、身着黄衣、佩戴林间花鬘者——其自性即是黑天。
12.46.104
वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले ।
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः ॥ १२.४६.१०४ ॥
婆苏提婆之子,光辉者,于难陀的牧村戈库拉嬉戏,为了诛灭耆萨,敬礼那以游戏为自性者。
12.46.105
वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः ।
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः ॥ १२.४६.१०५ ॥
成就婆苏提婆之性,生于月种之族,除去大地之重负者——敬礼那以黑天为自性者。
12.46.106
सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ ।
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः ॥ १२.४६.१०६ ॥
于战阵中为阿周那驭车,赐予《薄伽梵歌》甘露,以利益三界者——敬礼那以梵为自性者。
12.46.107
दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः ।
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः ॥ १२.४६.१०७ ॥
降伏诸檀那婆之后,再度成就佛陀之性,为护持creation而现;敬礼那以佛陀为自性者。
12.46.108
हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः ।
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः ॥ १२.४६.१०८ ॥
当迦利时代来临时,乘马而行,诛灭蛮夷、确立法道者——向以卡尔基为自性者致敬。
12.46.109
तारान्वये कालनेमिं हत्वा दानवपुङ्गवम् ।
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः ॥ १२.४६.१०९ ॥
在多罗(Tārā)的世系中,诛杀檀那伐中的上首迦罗奈弥,将王国赐予摩亨陀罗者——向以数论为自性者致敬。
12.46.110
यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः ।
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः ॥ १२.४६.११० ॥
居于一切众生身中作为见证者,在可坏者中不坏者——向以见证为自性者致敬。
12.46.111
नमोस्तु ते महादेव नमस्ते भक्तवत्सल ।
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर ॥ १२.४६.१११ ॥
向你致敬,大天神!向你致敬,慈爱信徒者!向你致敬,苏布拉曼亚!愿你垂怜,至上主。
12.46.112
अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो ।
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् ॥ १२.४६.११२ ॥
遍在者啊,你以未显与显现之形遍满一切。你是那尊那罗延、千眼者、一切世界的大自在主。
12.46.113
हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥ १२.४६.११३ ॥
金脐者、祭祀之支分、不死者、面向一切方者啊!凡在一切事务中常念你的人,没有不吉祥。
12.46.114
येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः ।
मङ्गल भगवान्विष्णुर्मङ्गलं मधुसूदनः ॥ १२.४६.११४ ॥
在其心中安住的是诸神之主、吉祥之所哈利:吉祥的是世尊毗湿奴,吉祥的是摩图苏陀那。
12.46.115
मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः ।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ॥ १२.४६.११५ ॥
吉祥的是莲花眼者,吉祥的是以迦楼罗为旗者。世界创造者啊,愿向你致敬;宇宙之我啊,宇宙之源啊。
12.46.116
अपवर्गस्थभूतानां पञ्चानां परमास्थित ।
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु ॥ १२.४६.११६ ॥
安住于解脱之中的五大元素的至高依托啊,愿向你致敬。愿向你致敬,在三界之中;愿向你致敬,在三界之外。
12.46.117
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ।
नमस्ते भगवन्विष्णो त्येकानां प्रभवाव्यय ॥ १२.४६.११७ ॥
愿向你致敬于一切方向,因为唯有你是一切的至高归依。世尊毗湿奴啊,愿向你致敬;一与多的不灭之源啊。
12.46.118
त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः ।
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु ॥ १२.४६.११८ ॥
你确实是创造者,毗湿奴啊,也是毁灭者,无敌者啊。因此我在三条道路上看见你的神圣诸相。
12.46.119
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् ।
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ १२.४६.११९ ॥
我如实看见你那永恒的形相:天空被你的头充满,大地女神被你的双足充满;以你的步伐,三界尽归;你就是永恒的原人。
12.46.120
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः ।
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥ १२.४६.१२० ॥
四方是你的臂膀,太阳是你的眼睛,金星安住于你的威力之中;无量光明者啊,风的七条道路皆被你所阻。
12.46.121
व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो ।
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम् ॥ १२.४६.१२१ ॥
啊,主宰者!你以显与隐之相遍满一切。隐者是你作为梵的形相;显者便是这动与不动的世界。
12.46.122
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ १२.४६.१२२ ॥
凡向哥文达礼拜者——那如亚麻花般的、身披黄衣的不坏者——便无所畏惧。
12.46.123
एकोऽपि कृष्णस्य कृतः प्रणामो ।
दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म ।
कृष्णप्रणामी न पुनर्भवाय ॥ १२.४६.१२३ ॥
向黑天礼拜一次,等同于十次马祭结束时的沐浴。行十次马祭者会再次投生;而向黑天礼拜者不再为再生而回返。
12.46.124
कृष्णव्रताः कृष्णमनुस्मरन्तो ।
रात्रौ च कृष्णं पुनरुत्थिता ये।
ते कृष्णदेहाः प्रविशन्ति कृष्ण ।
माज्यं यथा मन्त्रहुतं हुताशे ॥ १२.४६.१२४ ॥
奉持黑天之誓、常念黑天、夜间醒来仍思念黑天者,以黑天之身进入黑天,如以咒语献入火中的酥油。
12.46.125
नमो नरकसंत्रासरक्षामण्डलकारिणे ।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥ १२.४६.१२५ ॥
敬礼毗湿奴,他作出护卫之圈以免地狱之怖,他如船立于尘世之河的漩涡之中。
12.46.126
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ १२.४६.१२६ ॥
敬礼善待婆罗门的神,敬礼利益牛与婆罗门者。敬礼利益世间的黑天,敬礼哥文达,一再敬礼。
12.46.127
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम् ।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ १२.४६.१२७ ॥
生命荒野旅途的资粮,斩断轮回的良药,脱离忧愁与悲苦的救度:「诃利」这两个音节。
12.46.128
नारायणपरं ब्रह्म नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं परम् ॥ १२.४६.१२८ ॥
那罗延即是至高的梵;那罗延即是至高的苦行;那罗延即是至高的真理;那罗延即是至上者。
12.46.129
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।
तथा विष्णुमयं सर्वं पाप्मा ने नश्यतां तथा ॥ १२.४६.१२९ ॥
如真理充满毗湿奴,如祭品充满毗湿奴,一切皆充满毗湿奴;愿我的罪业如是消灭。
12.46.130
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥ १२.४६.१३० ॥
向那无量光辉的毗湿奴、祭祀野猪化身者行礼的人,也一再敬礼。
12.46.131
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ १२.४६.१३१ ॥
请赐予归依你的信徒,以及求胜者所愿的归宿;请念想那吉祥之事,莲花眼者,诸神中最尊者。
12.46.132
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ १२.४६.१३२ ॥
愿以言语为祭所崇敬、以知识与苦行为源、无生的毗湿奴、被赞颂的神严尊,对我欢喜。
12.46.133
एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः ।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ १२.४६.१३३ ॥
说完这些,心意专注于他,毗湿摩于是向黑天行礼,只说了一句“南无”。
12.46.134
तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः ।
भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम् ॥ १२.४६.१३४ ॥
言语既已停止,那些以声音礼敬的梵言者哽咽流泪,以言辞礼赞大光明的毗湿摩。
12.46.135
तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम् ।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ १२.४६.१३५ ॥
那些最上等的婆罗门赞颂人中至上的克舍婆,也缓缓地一再称扬毗湿摩。
12.46.136
अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः ।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥ १२.४६.१३६ ॥
摩陀婆·哈里以瑜伽洞悉毗湿摩的虔信,赐予他观见三界的神圣智慧,然后离去。
12.46.137
विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः ।
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत ॥ १२.४६.१३७ ॥
至上之人知晓毗湿摩的虔信瑜伽,心中欢喜,忽然起身,便登上那辆车。
12.46.138
केशवः सात्यकिश्चैव रथेनकेन जग्मतुः ।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥ १२.४६.१३८ ॥
克舍婆与萨提亚基同乘一车;两位大德,坚战与财施,乘另一车而行。
12.46.139
भीमसेनो यमौ चोभौ रथमेकं समास्थिताः ।
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥ १२.४६.१३९ ॥
怖军与两位孪生者同登一车;憍利婆、优柔、御者与散惹耶登另一车。
12.46.140
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः ।
नेमिघोषेण महता कम्पयन्ते वसुंधराम् ॥ १२.४६.१४० ॥
那些人中雄牛乘着如城市般的战车出发,以车轮之巨响使大地震颤。
12.46.141
ततो गिरः पुरुषवरस्तवेरितां ।
द्विजेरिताः पथिषु मनाक् स शुश्रुवे।
कृताञ्जलिं प्रणतमथापरं जनं ।
स केशिहा मुदितमनास्थनन्दत ॥ १२.४६.१४१ ॥
于是那人中之最,隐约听到婆罗门在路上称颂你的赞词;见另一人合掌下拜,杀克舍因者心中欢喜,乐不可支。
12.46.142
इति स्मरन्पठति च शार्ङ्गधन्वनः ।
शृणोतु वा यदुकुलनन्दनस्तवम्।
स चक्रभृत्प्रतिहतसर्वाकिल्विषो ।
जनार्दनं प्रविशति देहसंक्षये ॥ १२.४६.१४२ ॥
如此忆念而诵赞持沙尔迦弓者,或闻赞美耶度族之欢喜者,其一切罪业为持轮者所灭,于身体消尽之时入于遮那尔达那。
12.46.143
यं योगिनः प्राणवियोगकाले ।
यत्नेन चित्ते विनिवेशयन्ति।
स तं पुरस्ताद्धरिमीक्षमाणः ।
प्राणाञ्जहौ प्राप्तफलो हि भीष्मः ॥ १२.४६.१४३ ॥
于其前凝视哈里——瑜伽士于气息断绝之时以力持于心者,毗湿摩舍弃了生气,已获其果。
12.46.144
स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः ।
गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥ १२.४६.१४४ ॥
这首赞颂奇妙功业之毗湿奴的颂歌之王已经完成;昔日恒河之子曾唱诵此歌,它能消除大罪。
12.46.145
इमं नरः स्तवराजं मुमुक्षुः ।
पठञ्शुचिः कलुषितकल्मषापहम्।
अतीत्य लोकान्मलिनः समामता ।
न्पदं स गच्छत्यमृतं महात्मनः ॥ १२.४६.१४५ ॥
渴望解脱的人若以清净之心诵读此颂歌之王,消除污染的罪垢,便超越诸世界,脱离污秽,到达大我的不死之所。