Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.47.1

ततः स च हृषीकेशः स च राजा युधिष्ठिरः ।
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते ॥ १२.४७.१ ॥

于是他、Hṛṣīkeśa、国王Yudhiṣṭhira、Kṛpa等人,以及那四位般度之子——

12.47.2

रथैस्तैर्नगरप्रख्यैः पताकाध्वजशोभितैः ।
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥ १२.४७.२ ॥

他们乘坐那些如同城市、饰有旗幡的战车,以疾驰的骏马,迅速前往俱卢之野。

12.47.3

तेऽवतीर्य कुरुक्षेत्रे केशमढज्जास्थिसंकुले ।
देहन्यासः कृंतो यत्र क्षत्रियैस्तैर्महारथैः ॥ १२.४७.३ ॥

他们在俱卢之野下车,那里布满毛发、骨髓与骸骨,是那些大车战士铺下尸体的地方。

12.47.4

गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम् ।
नरशीर्षकपालैश्च हंसैरिव च सर्वशः ॥ १२.४७.४ ॥

堆满象马尸身与骸骨,如同群山;人头与颅骨处处散布,犹如天鹅。

12.47.5

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् ।
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥ १२.४७.५ ॥

布满千堆火葬柴堆,充满铠甲与兵器,那时仿佛时间之神的饮宴之地,享用过后被抛弃。

12.47.6

भूतसङ्घानुचरितं रक्षोगणनिषेवितम् ।
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥ १२.४७.६ ॥

他们望着这片为鬼众所游荡、罗刹群所聚居的俱卢之野,那些大车战士迅速前行。

12.47.7

गच्छन्नेव महाबाहुः सर्वं यादवनन्दनः ।
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥ १२.४७.७ ॥

一面行走,大臂的耶达瓦之喜(黑天)便向坚战讲述了阇摩陀耆尼(持斧罗摩)的全部威勇。

12.47.8

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः ।
येषु संतर्पयामास पितॄन्क्षत्रियशोणितैः ॥ १२.४७.८ ॥

阿周那啊,远远望见这五个罗摩湖,他曾在其中以刹帝利的血供养祖先。

12.47.9

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः ।
इहेदानीं ततो रामः कर्मणो विरराम ह ॥ १२.४७.९ ॥

主罗摩使大地二十一次没有刹帝利,之后便在此处停止了那一事业。

12.47.10

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ।
रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥ १२.४७.१० ॥

您在此所说的,即往昔罗摩使大地二十一次没有刹帝利,令我心中生起极大的疑惑。

12.47.11

क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव ।
कथं भूयः समुत्यत्तिः क्षत्रस्यामितविक्रम ॥ १२.४७.११ ॥

众叶的最上者啊,若刹帝利之种子为罗摩所焚,那么无量威勇者啊,刹帝利又如何重新出现?

12.47.12

महात्मना भगवता रामेण यदुपुङ्गव ।
कथमुत्सादित्तं क्षत्रं कथमृद्धिगतं पुनः ॥ १२.४७.१२ ॥

众叶的最上者啊,刹帝利种姓如何被伟大而尊贵的主罗摩连根拔除,又如何再度兴盛?

12.47.13

महता रथयुद्धेन कोटिशः क्षत्रिया हताः ।
तथाऽभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥ १२.४७.१३ ॥

在大战车战中,数以千万计的刹帝利被杀,大地因此布满刹帝利的尸体,言辞中最优秀的人啊。

12.47.14

किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा ।
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना ॥ १२.४७.१४ ॥

哦,雅度族中的猛虎,大心的婆利古后裔罗摩,昔日为何在俱卢之野灭绝了刹帝利种姓?

12.47.15

एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन ।
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥ १२.४७.१५ ॥

请断除我的这一疑惑,雅达瓦之后、以迦楼罗为旗者啊;帝释天之弟,对我们而言,再没有比你更高的权威。

12.47.16

ततो व्रजन्नेव गदाग्रजः प्रभुः ।
शशंस तस्मै निखिलेन तत्त्वतः।
युधिष्ठिरायाप्रतिमौजसे तदा ।
यथाऽभवत्क्षत्रियसंकुला मही ॥ १२.४७.१६ ॥

那时,迦陀的长兄主宰一边离去,一边将一切如实详细地告诉了无与伦比的坚战:大地是如何充满了刹帝利的。