摩诃婆罗多 · 章 12.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.53.1
धर्मात्मनि महावीर्ये सत्यसन्धे जितात्मनि ।
देवव्रते महाभागे शरतल्पगतेऽच्युते ॥ १२.५३.१ ॥
关于那心怀正法、大勇猛、守信誓、自制的提婆婆罗多(毗湿摩),那位大福之人,躺在箭床上的不朽者。
12.53.2
शयाने वीरशयने भीष्मे शन्तनुनन्दने ।
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपासिते ॥ १२.५३.२ ॥
当山塔努之子、恒河之子、人中猛虎毗湿摩躺在英雄床上,般度诸子侍奉在旁时。
12.53.3
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे ।
हतेषु सर्वसैन्येषु तन्मे शंस महामुने ॥ १२.५३.३ ॥
当所有军队都已被杀戮,在那群英雄的聚会上,发生了哪些谈话?大仙啊,请告诉我。
12.53.4
शरतल्पगते भीष्मे कौरवाणां पितामहे ।
आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप ॥ १२.५३.४ ॥
国王啊,以那罗陀为首的仙人与成就者前来拜见躺在箭床上的俱卢族祖父毗湿摩。
12.53.5
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः ।
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा ॥ १२.५३.५ ॥
剩余的诸王以坚战为首,还有持国王、黑天,以及怖军、阿周那和双生子,也都来到了那里。
12.53.6
तेऽभिगम्य महात्मानो भरतानां पितामहम् ।
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ॥ १२.५३.६ ॥
那些大德之人走近婆罗多族的祖父,为恒河之子悲悼,如同为坠落的太阳而哀悼。
12.53.7
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः ।
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ॥ १२.५३.७ ॥
纳罗陀,诸神的见者,沉思片刻后,对所有般度子以及在杀戮中幸存的国王说道。
12.53.8
प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम् ।
अस्तमेति हि गाङ्गेयो भानुमानिव भारत ॥ १२.५३.८ ॥
“时候到了;这位是毗湿摩,你们去问他。婆罗多啊,恒河之子将要陨落,如同太阳落山。”
12.53.9
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत ।
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ॥ १२.५३.९ ॥
他即将舍弃生命;你们都去问他吧。他通晓四种姓的全部多样的法。
12.53.10
एष वृद्धः पराँल्लोकान्संप्राप्नोति तनुं त्यजन् ।
तं शीघ्रमनुयुञ्जीध्वं संशयान्मनसि स्थितान् ॥ १२.५३.१० ॥
这位老者舍弃身体,即将到达更高的世界;请你们迅速向他询问心中存留的疑惑。
12.53.11
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपाः ।
प्रष्टुं चाशक्रुवन्तस्ते वीक्षांचक्रुः परस्परम् ॥ १२.५३.११ ॥
纳罗陀如此说后,国王们走向毗湿摩,却无法开口询问,于是彼此相视。
12.53.12
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः ।
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ॥ १२.५३.१२ ॥
于是般度之子坚战对希利史凯舍说:“德瓦吉之子啊,除你之外,无人能够向祖父发问。”
12.53.13
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन ।
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ॥ १२.५३.१३ ॥
耶度族最优秀者、摩豆苏陀那啊,请你先说。亲爱的,你是我们所有人中最精通一切法的人。
12.53.14
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा ।
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः ॥ १२.५३.१४ ॥
般度之子如此说后,世尊克舍婆,不退转者,走近那不可侵犯者,开始说话。
12.53.15
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम ।
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव ॥ १२.५३.१५ ॥
诸王中最优秀者,你的夜晚是否平安度过?你清晰明确的智慧是否已在你身边?
12.53.16
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ ।
न ग्लायते च हृदयं न च ते व्याकुलं मनः ॥ १२.५३.१६ ॥
无瑕者啊,你的一切知识是否都在你心中显现?你的心不疲倦,你的意不混乱吗?
12.53.17
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा ।
तव प्रसादाद्वार्ष्णेय सद्यो व्यपगतानि मे ॥ १२.५३.१७ ॥
毗黎尼之后啊,因你的恩惠,我的燥热、迷惑、疲劳、衰弱、倦怠和痛苦顿时消散了。
12.53.18
यच्च भूतं भविष्यच्च भवच्च परमद्युते ।
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ॥ १२.५३.१८ ॥
至光明者啊,凡过去、未来和现在者,我都清楚地看见,如同果实置于掌中。
12.53.19
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये ।
तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत ॥ १२.५३.१९ ॥
哦,阿输陀,凭你所赐的恩惠,我清楚地看见吠陀所宣示、吠檀多所知晓的一切法。
12.53.20
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते ।
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ॥ १२.५३.२० ॥
贤者所说的法也存于我心中,我也知晓各地、各种姓与各家族的法,哦,阇那陀那。
12.53.21
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः ।
राजधर्मांश्च सकलानवगच्छामि केशव ॥ १२.५३.२१ ॥
四行期法中的要义也安住于我心,我也明了一切王法,哦,羯舍婆。
12.53.22
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन ।
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ॥ १२.५३.२२ ॥
该说的话、该在何处说的,我都将说出,哦,阇那陀那;正是凭你的恩典,善慧进入了我心。
12.53.23
युवेवास्मि समावृत्तस्त्वदनुध्यानबृंहितः ।
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ॥ १२.५३.२३ ॥
因静思于你而得充实,我仿佛重获青春;哦,阇那陀那,唯凭你的恩典,我才能说出善言。
12.53.24
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् ।
किं ते विवक्षितं चात्र तदाशु वद माधव ॥ १२.५३.२४ ॥
你自己为何不向般度之子说出善言?你在此想说什么,快说吧,哦,摩陀婆。
12.53.25
यशसः श्रेयसश्चैव मूल मां विद्धि कौरव ।
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ॥ १२.५३.२५ ॥
俱卢子孙啊,你应知我是名声与福祉之根。一切具有有与无之性的万有皆由我而生。
12.53.26
शीतांशुश्चन्द्र इत्युक्ते लोके को विस्मयिष्यति ।
तथैव यशसा पूर्णे मयि को विस्मयिष्यति ॥ १२.५३.२६ ॥
世人称月亮为"寒光者"、"月"时,谁会惊讶?同样,充满荣耀的我,又有谁会惊讶?
12.53.27
आधेयं तु मया भूयो यशस्तव महाद्युते ।
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ॥ १२.५३.२७ ॥
光辉赫赫的你啊,我还要为你确立荣耀。因此,婆罗多的啊,我的广大智慧专注于你。
12.53.28
यावद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा ।
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति ॥ १२.५३.२८ ॥
大地的守护者啊,只要这大地稳固长存,你不朽的名声便将遍行于诸世界。
12.53.29
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते ।
वेदप्रवाद इव ते स्थास्यते वसुधातले ॥ १२.५३.२९ ॥
婆罗多的啊,你对般度之子询问时所说的一切,将如同吠陀之言,以你的名字永存于大地之上。
12.53.30
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना ।
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ॥ १२.५३.३० ॥
若有人依此准则以自我合于自我,他死后将享受一切功德之果报。
12.53.31
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते ।
दत्ता यशो विप्रथयेत्कथं भूयस्तवेति ह ॥ १२.५३.३१ ॥
因此,婆湿摩啊,我赐予你这神圣的智慧。你的名声将如何再次传扬?
12.53.32
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि ।
तावत्तस्याक्षया कीर्तिर्भवतीति विनिश्चिता ॥ १२.५३.३२ ॥
世间人的美名在大地上传扬多久,他不朽的声誉便确立多久,这是可以肯定的。
12.53.33
राजानो हतशिष्टास्त्वां राजन्नभित आसते ।
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ॥ १२.५३.३३ ॥
君王啊,那些在杀戮中幸存的国王围坐在你周围,渴望学习各种职责。婆罗多啊,请为他们讲解。
12.53.34
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः ।
कुशलो राजधर्माणां सर्वेषामपराश्च ये ॥ १२.५३.३४ ॥
你年事已高,具备学识与良好的德行,精通王者之法,并且胜过其他所有人。
12.53.35
जन्मप्रभृति ते किंचिद्वॄजिनं न ददर्श ह ।
ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः ॥ १२.५३.३५ ॥
自出生以来,人们从未在你身上看到任何过失;所有的国王都知道你是通晓一切职责的人。
12.53.36
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् ।
ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः ॥ १२.५३.३६ ॥
君王啊,请像父亲对儿子那样对他们讲,阐明至上的治国之道;因为你一向侍奉贤哲与诸神。
12.53.37
तस्माद्वक्तव्यमेवेदं त्वयाऽवश्यमशेषतः ।
धर्मं शुश्रूषमाणेभ्यः पृष्टेन न सता पुनः ॥ १२.५३.३७ ॥
因此你必须将这一切完整地讲说;善人不应再次拒绝那些渴望听闻法义而发问的人。
12.53.38
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः ।
अप्रतिब्रुवतः कष्टो दोषो हि भविता प्रभो ॥ १२.५३.३८ ॥
智者说,有学识者应当讲说,关于法义,智人如是说;因为不回答的人,啊主上,必定会有沉重的过失。
12.53.39
तस्मात्पुत्रैश्च पौत्रेश्च धर्मान्पृष्टान्सनातनान् ।
विद्वञ्जिज्ञासमानेभ्यः प्रब्रूहि भरतर्षभ ॥ १२.५३.३९ ॥
因此,啊智者,请为那些渴望知晓的人讲说子孙所问的永恒法义,啊婆罗多族中的雄牛。