Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.55.1

प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् ।
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥ १२.५५.१ ॥

向如声主(Hṛṣīkeśa)致敬,向祖父行礼,征得所有长者的同意后,坚战发问。

12.55.2

राज्ञां वै परमो धर्म इति धर्मविदो विदुः ।
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ॥ १२.५५.२ ॥

知法者说:“王者的最高法是此。”我认为这重担极大;请你告诉我,哦,大地之主。

12.55.3

राजधर्मान्विशेषेण कथयस्य पितामह ।
सर्वस्य जीवलोकस्य राजधर्मः परायणम् ॥ १२.५५.३ ॥

哦,祖父,请特别讲述王者之法;因为王法是一切生灵的归依。

12.55.4

त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव ।
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥ १२.५५.४ ॥

哦,俱卢子孙,三目的(法、利、欲)紧密地关联于王者之法中,解脱之法也被明确阐述;这里汇集了全部。

12.55.5

यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा ।
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥ १२.५५.५ ॥

如同马之有缰绳,象之有铁钩,王者之法被称作引导世界的缰勒。

12.55.6

अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते ।
लोकस्य संस्था न भवेत्सर्वं च व्याकुलीभवेत् ॥ १२.५५.६ ॥

若在这为王仙所奉行的法中陷入深深的迷惑,世界的秩序就无法维持,一切都将陷入混乱。

12.55.7

उदयन्हि यथा सूर्यो नाशयत्यशुभं तमः ।
राजधर्मस्तथा लोक्यामाक्षिपत्यशुभां गतिम् ॥ १२.५५.७ ॥

如同升起的太阳驱散不祥的黑暗,王法也在世间驱除不吉的道路。

12.55.8

तदग्रे राजधर्मान्हि मदर्थे त्वं पितामह ।
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभूतां वरः ॥ १२.५५.८ ॥

因此,请先为我讲述王者的法则,祖父啊。婆罗多族中最优秀的人啊,您确实是具足法德者中的至上者。

12.55.9

आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप ।
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥ १२.५५.९ ॥

征服敌人者啊,我们所有人的至上教诲都来自您。连婆苏提婆也在智慧上将您视为至尊。

12.55.10

नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ १२.५५.१० ॥

向伟大的法致敬,向造物主黑天致敬。向婆罗门顶礼之后,我将讲说永恒的法。

12.55.11

शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर ।
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि ॥ १२.५५.११ ॥

犹地什特拉啊,请完整地听我讲述王者的法则。对于正在讲说的内容,要专心恭敬地聆听,你所想知道的其他事情也一样。

12.55.12

आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता ।
देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥ १२.५५.१२ ॥

库鲁族中最优秀的人啊,想要让臣民喜悦的国王,首先应当依照规定对待诸神与再生者。

12.55.13

दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह ।
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते ॥ १२.५५.१३ ॥

庫盧之首啊,敬拜諸神與婆羅門者,便脫離對法的債務,並為世人所尊敬。

12.55.14

उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर ।
न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत् ॥ १२.५५.१४ ॥

兒子優修提羅啊,當常以努力奮勉;若無努力,單靠天命不能成就君王之事。

12.55.15

साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च ।
पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते ॥ १२.५५.१५ ॥

天命與努力這兩者是人人共有的;然而我認為人的努力最為殊勝,因為執著於天命者必定迷惑。

12.55.16

विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः ।
घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः ॥ १२.५५.१६ ॥

若事業失敗,不要悲傷;如此常使自己努力奮進。這便是君王最上的策略。

12.55.17

न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारकम् ।
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥ १२.५५.१७ ॥

離開真實,沒有任何能為君王帶來成就之物;專注於真實的君王,今生來世都得歡喜。

12.55.18

ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् ।
तथा राज्ञां परं सत्यान्नान्यद्विश्वासकारणम् ॥ १२.५५.१८ ॥

王中之王啊,即便對賢者而言,真實也是最上的財富;同樣,對君王而言,除了真實,再無其他取信之因。

12.55.19

गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः ।
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥ १२.५५.१९ ॥

德行兼备、品行端正、自制、刑罚宽和、克制诸根、易于接近且志向远大的国王,永不失去吉祥。

12.55.20

आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन ।
पुनर्नयविचारेण त्रयीसंवरणेन च।
आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि ॥ १२.५५.२० ॥

库鲁之欢喜者啊,凡事都应依靠正直;又应以审慎的政治判断和三吠陀的约束。具备正直的仙人在天界欢乐。

12.55.21

मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः ।
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत् ॥ १२.५५.२१ ॥

温和的国王总会在各方面被人冒犯,而严厉的国王使民众不安;因此应兼行两者。

12.55.22

अदण्ड्याश्चैव ते पुत्र विप्राः स्युर्ददतां वर ।
भूतमेतत्परं लोके ब्राह्मणा नाम पाण्डव ॥ १२.५५.२२ ॥

孩子啊,最优秀的施主,婆罗门应免于刑罚。般度之子啊,这在世间是最高的确立之法:婆罗门正是如此。

12.55.23

मनुना चात्र राजेन्द्र गीतौ श्लोकौ महात्मना ।
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥ १२.५५.२३ ॥

王中之王啊,此处伟大的摩奴吟唱了两首颂诗;库鲁后裔啊,你应当将它们铭记于心,依于自身的法。

12.55.24

अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १२.५५.२४ ॥

火生于水,刹帝利生于梵,铁生于石;它们遍布一切的威力,在各自的根源中平息。

12.55.25

अयो हन्ति यदाऽश्मानमग्निरापो निहन्ति च ।
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥ १२.५५.२५ ॥

当铁击打石头,火与水摧毁它,而刹帝利憎恨婆罗门时,这三者便都会毁灭。

12.55.26

एवं कृत्वा महाराज नमस्या एव ते द्विजाः ।
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥ १२.५५.२६ ॥

大王,如此,那些再生者确实值得尊敬。具备寂静的再生者中的优秀者,承载着世间的梵。

12.55.27

एवं चैव नरव्याघ्र लोकयात्राविघातकाः ।
निग्राह्या एव बाहुभ्यां ब्राह्मणास्ते नरेश्वर ॥ १२.५५.२७ ॥

同样,人中之虎,阻碍世界运行的婆罗门,人主啊,必须仅凭双臂之力加以制止。

12.55.28

श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा ।
तौ निवोध महाराज त्वमेकाग्रमना नृप ॥ १२.५५.२८ ॥

亲爱的,古时大仙乌尚那曾吟唱两首颂诗。大王,请专心听取。

12.55.29

उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः ॥ १२.५५.२९ ॥

即使有人举起武器前来作战,哪怕他精通吠檀多,寻求法的人主也应以自己的本分加以制止。

12.55.30

विनश्यमानं धर्मं हि योऽभिरक्षेत्स धर्मवित् ।
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥ १२.५५.३० ॥

在法将要毁灭时加以守护的人,才是知法者。因此他不成为毁法者;愤怒所遇到的,正是那同样的愤怒。

12.55.31

एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः ।
सापराधानपि हि तान्विषयान्ते समुत्सृजेत् ॥ १२.५५.३१ ॥

如此,人中之最,二生者应当受到保护;即使犯有过错的人,也应流放到国境之外。

12.55.32

अभिशस्तमपि ह्येषां पीडयेन्न विशांपते ।
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥ १२.५५.३२ ॥

即使受到指控,民主之主啊,也不应加以伤害。杀害婆罗门者、玷污师长床榻者、杀胎者,亦同此理。

12.55.33

राजद्विष्टे च विप्रस्य विषयान्ते विवासनम् ।
विधीयते न शारीरं भयमेषां कदाचन ॥ १२.५५.३३ ॥

对于为国王所憎恶的婆罗门,规定流放到国境之外;绝不应施以肉刑。

12.55.34

दयिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये ।
न शोकः परमा तुष्टी राज्ञां भवति संचयात् ॥ १२.५५.३४ ॥

对二生者虔诚的人,会受到国王的喜爱。因积聚财富,国王不会忧愁,反而得到至高的满足。

12.55.35

दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः ।
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुर्गमम् ॥ १२.५५.३५ ॥

大王啊,在经典所定的六种城堡中,人之城堡被视为所有城堡中最难攻破的。

12.55.36

तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता ।
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥ १२.५५.३६ ॥

因此,智者应当始终对四种姓怀有慈悲。正直、诚实的国王才能令民众欢喜。

12.55.37

न च क्षान्तेन ते नित्यं भाव्यं पुरुषसत्तम ।
अधर्मो हि मृद् राजा क्षमावानिव कुञ्जरः ॥ १२.५५.३७ ॥

人中之最,你不应总是忍让;忍让的君王如同大象,陷入非法。

12.55.38

वार्हस्पत्ये च शास्त्रे च श्लोकोऽयं नियतः प्रभो ।
अस्मिन्नर्थे निगदितस्तन्मे निगदतः शृणु ॥ १२.५५.३८ ॥

主啊,关于此事,《勃呵沙波底论》中确定地有此颂;请听我诵读。

12.55.39

क्षममाणं नृपं नित्यं नीचः परिभवेञ्जनः ।
हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥ १२.५५.३९ ॥

卑贱之人总是轻慢忍让的君王,正如象奴想爬上大象的头顶。

12.55.40

तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः ।
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥ १२.५५.४० ॥

因此,君王不应总是温和,也不应总是严厉;他应当光辉如春日之太阳,既不寒冷,也不灼热。

12.55.41

प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि ।
परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः ॥ १२.५५.४१ ॥

大王啊,无论亲近或疏远之人,都应常以现量、比量、譬喻和圣典的权威加以考察。

12.55.42

व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण ।
नचैतानि प्रयुञ्जीथाः सङ्गं तु परिवर्जय ॥ १२.५५.४२ ॥

大施主啊,应弃绝一切恶习;不要沉溺于其中,尤其要远离执着。

12.55.43

व्यसनी यस्तु लोकेऽस्मिन्परिभूतो भवत्युत ।
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः ॥ १२.५५.४३ ॥

在此世间,沉溺恶习的君王必然受人轻贱;而极其怀有憎恨的君王则使百姓惊惧不安。

12.55.44

भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा ।
कारणं च महाराज शृणु येनेदमुच्यते ॥ १२.५५.४४ ॥

君王应当始终如同怀孕的妇人那样与其职责相伴。大王,请听这样说的缘由。

12.55.45

यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् ।
गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम् ॥ १२.५५.४५ ॥

正如怀孕的妇人舍弃自己心中所喜爱的,而照顾胎儿的福祉,国王也必定如此,毫无疑问。

12.55.46

वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना ।
स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत् ॥ १२.५५.४६ ॥

俱卢中最优秀者啊,遵循法者应当始终舍弃自己的喜好,行其所应行,以利益世人。

12.55.47

न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव ।
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥ १२.५५.४७ ॥

般杜之子啊,你绝不可舍弃你的坚定。坚毅之人、赏罚分明者的命令,从来不会受到阻碍。

12.55.48

परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर ।
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥ १२.५५.४८ ॥

言辞最善者啊,王中猛虎,你不应过度地与仆役嬉笑。关于此中的过失,请听我说。

12.55.49

अवमन्यन्ति भर्तारं सहर्षमुपजीविनः ।
स्वे स्थाने न च तिष्ठन्ति लङ्घ्यन्ति च तद्वचः ॥ १२.५५.४९ ॥

仆从欣然轻慢其主;不守本位,违背他的话。

12.55.50

प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते ।
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च ॥ १२.५५.५० ॥

受命遣使时便推托;甚至探查机密之事;求取本不该求的东西,并让人送来饮食。

12.55.51

क्रुथ्यन्ति परिदीप्तन्ति भूमिपायाधितिष्ठते ।
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्य ते ॥ १२.५५.५१ ॥

他们恼怒、暴躁,对抗大地之主;以贿赂和欺骗毁坏他的事务。

12.55.52

जर्झरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः ।
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥ १२.५५.५२ ॥

以赝品使他的国土衰败;与后宫的守卫交结,服饰与他们相同。

12.55.53

वान्तं निष्ठीवनं चैव कुर्वते चास्य सन्निधौ ।
निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः ॥ १२.५५.५३ ॥

在他面前呕吐、吐痰;无耻地,王中猛虎啊,违背他的话语而言。

12.55.54

हयं वा दन्तिनं वाऽपि रथं वा नृपसंमतम् ।
अधिरोहन्त्यवज्ञाय सहर्षाः पार्थिवे मृदौ ॥ १२.५५.५४ ॥

甚至轻慢国王认可的马、象或车,欢喜地登上它们,只因君王温和。

12.55.55

इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् ।
इत्येवं सुहृदो नाम ब्रुवते परिपद्गताः ॥ १२.५५.५५ ॥

国王啊,这对你来说很难,这是你的恶行——议事会中自称朋友的人这样说。

12.55.56

क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः ।
सङ्घर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात् ॥ १२.५५.५६ ॥

他发怒时,他们反而嘲笑他;受到尊重也不欢喜,于是因彼此之故变得好争斗。

12.55.57

विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् ।
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ॥ १२.५५.५७ ॥

他们泄露他的谋略,揭露他的过错;轻慢地像游戏一般执行他的命令。

12.55.58

अलङ्काराणि भोज्यं च तथा स्नानानुलेपने ।
हेलयाना नरव्याघ्र स्वस्थास्तस्योपभुञ्जये ॥ १२.५५.५८ ॥

人中之虎啊,他们轻视饰物、饮食、沐浴和涂香,安然地享受着他的享乐。

12.55.59

निन्दन्ते स्वानधीकारान्सन्त्यजन्ते च भारत ।
न वृत्त्या परितृष्यन्ति राजदेयं हरन्ति च ॥ १२.५५.५९ ॥

婆罗多啊,他们诋毁并抛弃自己的职位;不满足于俸禄,还夺取了应归于国王的财物。

12.55.60

क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ।
अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत ॥ १२.५५.६० ॥

若想与他游戏,就像与被丝线系住的鸟儿玩耍;他们还对民众说:“国王是由我们引导的。”

12.55.61

एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत ।
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ १२.५५.६१ ॥

俱胝啊,具有温和之德而耽于欢喜的国王身上,确实会产生这些以及其他过失。