Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.66.1

चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च ।
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥ १२.६६.१ ॥

您已讲述了四种生活阶段和四种社会等级。祖父啊,请告诉我,国家最重要的职责是什么。

12.66.2

राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम् ।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥ १२.६६.२ ॥

国家最重要的职责正是为君王举行加冕。没有君主、软弱的国家会被盗贼所压倒。

12.66.3

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।
परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ १२.६६.३ ॥

在无王的国家,法不能确立;那里的人们相互吞噬。无王的状态应当受到彻底的谴责。

12.66.4

इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः ।
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥ १२.६६.४ ॥

吠陀经典说,人们把因陀罗当作国王来礼拜;正如因陀罗应受尊敬,希求繁荣者也应尊敬君王。

12.66.5

नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् ।
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ॥ १२.६६.५ ॥

吠陀的规定是不应居住在无王的国家;在无王的国家,圣火不承载祭品。

12.66.6

अथ चेदधिवेर्तेत राज्यार्थी बलवत्तरः ।
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः ॥ १२.६६.६ ॥

然而,若有一个更强大、渴望王国的人夺取权力,或在英雄已被杀害的无王国家中,再次……

12.66.7

प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् ।
न हि राज्यात्पापतरमस्ति किंचिदराजकात् ॥ १२.६६.७ ॥

应当出迎并尊敬他;这是此处深思熟虑的良策。的确,没有国王、即无政府状态,再没有比这更有罪的了。

12.66.8

स चेत्समनुपश्येत समग्रं कुशलं भवेत् ।
बलवान्हि प्रकुपितः कुर्यान्निः शेषतामपि ॥ १२.६६.८ ॥

若他能全面审视,便会平安;因为强者一旦震怒,甚至能使一切彻底毁灭。

12.66.9

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥ १२.६६.९ ॥

难挤奶的母牛遭受很大的折磨;但是,大王,容易挤奶的母牛,他们根本不会去折磨。

12.66.10

यदतप्तं प्रणमते न तत्संतापयन्त्युत ।
यत्स्वयं नमते दारु न तत्संनामयन्त्यपि ॥ १२.६६.१० ॥

不必烧烤便会弯曲的,人们不去烧烤;自行弯曲的木头,人们也不去弯曲它。

12.66.11

एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ १२.६६.११ ॥

以此为喻,智者应向强者低头;如同向因陀罗致敬,向强者低头的人便是如此。

12.66.12

तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता ।
न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥ १२.६६.१२ ॥

因此,希望繁荣的人应当始终设立国王;对于那些处于无政府状态的人而言,财富和妻子都毫无意义。

12.66.13

प्रीयते हि हरन्पापः परवित्तमराजके ।
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति ॥ १२.६६.१३ ॥

在无王之国,恶人以夺取他人财物为乐;但当别人夺走他的财物时,他便渴望有一位国王。

12.66.14

पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन ।
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥ १२.६६.१४ ॥

那时,即使恶人也永远得不到安宁:一人的财物被两人夺去,两人的财物又被许多人夺去。

12.66.15

अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः ।
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥ १२.६६.१५ ॥

自由人被沦为奴隶,妇女被强行掳走。因此诸神设立了庇护百姓的国王。

12.66.16

राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः ॥ १२.६६.१६ ॥

若世上没有执掌刑杖、治理大地的国王,强者就会吞食弱者,正如水中的大鱼吞食小鱼。

12.66.17

अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ १२.६६.१७ ॥

我们听说,从前无王的民众灭亡了,他们像水中的鱼一样相互吞食,吞食那些羸弱者。

12.66.18

समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम् ।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः ॥ १२.६६.१८ ॥

于是他们聚集起来订立约定,我们听闻:凡言语勇武、刑罚严厉、又与他人之妻私通者……

12.66.19

यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति ।
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः।
तास्तथा समयं कृत्वा समयेनावतस्थिरे ॥ १२.६६.१९ ॥

凡破坏我们约定者,应被如此弃绝。为了众人的信任,不分种姓,他们这样立下约定,并恪守此约。

12.66.20

सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् ।
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥ १२.६६.२० ॥

于是她们因痛苦而困扰,一同前往祖父处。尊贵者啊,我们无主将要灭亡,请为我们指定一位主君。

12.66.21

यं पूजयेम संभूय यश्च नः प्रतिपालयेत् ।
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥ १२.६६.२१ ॥

“我们共同尊奉、并保护我们的那人”——为此,曼努受命;但曼努并未赞同她们。

12.66.22

बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम् ।
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा ॥ १२.६६.२२ ॥

我畏惧行为的罪过;王权确实极其艰难,尤其是对那些行为总是虚伪的人。

12.66.23

तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव ।
पशूनामथ पञ्चांशं धरण्यस्य तथैव च ॥ १२.६६.२३ ॥

臣民对他说:“不要害怕;我们会为你提供财富——牲畜的五分之一,地里的出产也照此。”

12.66.24

धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ।
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च ॥ १२.६६.२४ ॥

我们将以谷物的十分之一增加国库;并在婚礼时,为容貌美丽的少女出具聘礼。

12.66.25

मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः ।
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥ १२.६६.२५ ॥

那些主要由首要持械者组成的人,将追随你,如同诸神追随因陀罗。

12.66.26

स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् ।
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान् ॥ १२.६६.२६ ॥

你啊国王,获得力量,难以攻破且威严,你将使我们所有人安享幸福,如俱毗罗安置罗刹一般。

12.66.27

यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥ १२.६६.२७ ॥

臣民在国王良好的保护下所行的法,其四分之一将归于你。

12.66.28

तेन धर्मेण महता सुखं लब्धेन भावितः ।
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥ १२.६६.२८ ॥

你因这伟大的法而得到幸福,充满喜悦,啊国王,请从各方保护我们,如百祭的因陀罗保护诸神。

12.66.29

विजयाय हि निर्याहि प्रतपत्रश्मिवानिव ।
मानं विधम शत्रूणां धर्मं जनय नः सदा ॥ १२.६६.२९ ॥

为胜利而出发,如光芒四射的太阳般灼灼生辉。摧毁敌人的骄傲,并始终为我们确立法。

12.66.30

स निर्ययौ महातेजा बलेन महता वृतः ।
महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव ॥ १२.६६.३० ॥

他大放光彩,被庞大的军队环绕,出身高贵,光辉耀眼地出发了。

12.66.31

तस्य दृष्ट्वा महत्वं ते महेन्द्रस्येव देवताः ।
अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः।
वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः ॥ १२.६६.३१ ॥

众神见他的威严如同见到大因陀罗,皆惊畏,专心于各自的法;种姓与住期者,以及蛮夷与盗贼,皆然。

12.66.32

ततो महीं परिययौ पर्जन्य इव वृष्टिमान् ।
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥ १२.६६.३२ ॥

随后他如降雨之云巡行大地,四方平息罪人,使各人投身于自己的职分。

12.66.33

एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् ।
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥ १२.६६.३३ ॥

如此,世间凡欲求繁荣之人,应首先立一国王,以恩惠于民。

12.66.34

नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा ।
देवा इव च देवेन्द्रं नरा राजानमन्तिकात् ॥ १२.६६.३४ ॥

应当常以虔诚礼敬之,如弟子敬师、诸天敬因陀罗;人们应从近处向国王致敬。

12.66.35

सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते ।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥ १२.६६.३५ ॥

在此,受亲族尊敬者,外人亦甚敬之;而受亲族轻慢者,外人亦侮辱之。

12.66.36

राज्ञः परैः परिभवः सर्वेषामसुखावहः ।
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥ १२.६६.३६ ॥

国王被敌人侮辱,会给所有人带来不幸;因此国王应佩戴华盖、旌旗、衣饰与装饰。

12.66.37

भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च ।
आसनानि च शय्याश्च सर्वोपकरणानि च ॥ १२.६६.३७ ॥

应当供给国王饮食、饮料、住所、座席、床榻以及一切所需之物。

12.66.38

गोप्ता चास्य दुराधर्षः स्मितपूर्वाभिभाषिता ।
आभाषितश्च मधुरं प्रत्याभाषेत मानवान् ॥ १२.६६.३८ ॥

他的守护者应当难以被攻破;他应先面带微笑与人交谈。别人与他说话时,他应以温和的言辞回应众人。

12.66.39

कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः ।
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च चर्जु च ॥ १२.६६.३९ ॥

他应当知恩图报、忠诚坚定、公允分享、克制感官。被人注视时,他应温和、和悦、坦诚地回望。