Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.81.1

एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले ।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥ १२.८१.१ ॥

このように捉えがたい親族の輪の中で、友にも敵にも、その心根はどのように見分けられるのでしょうか。

12.81.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य महर्षेर्नारदस्य च ॥ १२.८१.२ ॥

この件については、人々はこの古い物語を語り伝えています。ヴァースデーヴァと大仙ナーラダの対話です。

12.81.3

नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम् ।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान् ॥ १२.८१.३ ॥

友でない者は最高の秘密の助言を知るに値しません、ナーラダよ。無知な者もそうです。また、学識があっても自制のない友も同じです。

12.81.4

स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद ।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम ॥ १२.८१.४ ॥

ですから、あなたへの友情をもって何かを申し上げましょう、ナーラダよ。あなたの知性のすべてを見て、お尋ねします、三天界を行く者よ。

12.81.5

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।
अर्धंभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥ १२.८१.५ ॥

私は親族に仕えます、支配者を名乗ってではありません。私は彼らの享楽の半分を分かち、きつい言葉にも耐えます。

12.81.6

अरणीमग्निकामो वा मथ्नाति दहृयं मम ।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा ॥ १२.८१.६ ॥

火を欲する者が火きり棒をもむように、神聖な仙人よ、口から出た荒い言葉は、いつも私を焼き焦がすのです。

12.81.7

बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे ।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥ १२.८१.७ ॥

サンカルシャナには常に力があり、ガダには柔らかさがある。容姿においてプラデュムナは私に勝る。ナーラダよ、私はこのように味方がいない。

12.81.8

अन्ये हि सुमहाभागा बलवन्तो दुरासदाः ।
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः ॥ १२.८१.८ ॥

他の者たちは大いに幸運で、強く、近づき難い。ナーラダよ、アンダカとヴリシュニは絶えざる努力によって恵まれている。

12.81.9

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत् ।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च ॥ १२.८१.९ ॥

それを持たぬ者にはそれらはなく、持つ者にはそれがすべてである。行き来する二者のうち、私はこの一方を専一なものとして選ばない。

12.81.10

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः ॥ १२.८१.१० ॥

アフカとアクルーラがいる者にとって、それより大きな苦しみがあろうか。そして彼らが二人ともいない者にとって、それより大きな苦しみがあろうか。

12.81.11

सोऽहं कित्नवमातेव द्वयोरपि महामुने ।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम् ॥ १२.८१.११ ॥

大聖者よ、私はまさに賭博者の母のように、両者のために憂えている。一方の勝利も、他方の敗北も私は望まない。

12.81.12

ममैवं क्लिश्यमानस्य नारदोभयदर्शनात् ।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥ १२.८१.१२ ॥

ナーラダよ、二人を見てこのように苦しむ私に、親族と私自身にとって善いことを語ってほしい。

12.81.13

आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह ।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः ॥ १२.८१.१३ ॥

クリシュナよ、災いには二種類ある、外的なものと内的なものだ。ヴリシュニの末裔よ、それは自らの行為から生じるか、他者から生じる。

12.81.14

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः ॥ १२.८१.१४ ॥

あなたにとってこの内なる、苦しい、自らの行為から生じた災いは、アクルーラとボージャから起こったものだ。彼らはみなその系統に属する。

12.81.15

अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा ।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥ १२.८१.१५ ॥

富のため、欲望のため、あるいは勇敢さと恐怖によって自ら得た支配権は、他へ与えられてしまった。

12.81.16

कृतमूलमिदानीं तद्राजशब्दसहायवत् ।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम् ॥ १२.८१.१६ ॥

今やそれは王の称号に助けられて根を深く張っており、自ら吐いた食べ物を再び取り戻せないように、取り戻すことはできない。

12.81.17

बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथंचन ।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥ १२.८१.१७ ॥

クリシュナよ、バブルとウグラセーナから王国を得ることは、どうしてもできない。特にあなたには、一族が割れることへの恐れがあるからだ。

12.81.18

तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत् ॥ १२.८१.१८ ॥

努力によって成し遂げられたとしても、このように極めて困難な行為の後には、大いなる破滅か損失があるか、あるいは再び破滅が訪れるかもしれない。

12.81.19

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा ।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च ॥ १२.८१.१९ ॥

鉄でなく、柔らかくして心を貫く武器で、すべての人の舌を引き抜き、何度もこすって清めよ。

12.81.20

अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥ १२.८१.२० ॥

賢者よ、鉄ではないあの柔らかな武器を、どうして私が知れるでしょうか。それで彼らの舌を引き抜き、何度もこすって清めるために。

12.81.21

शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम् ।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥ १२.८१.२१ ॥

力に応じて絶えず食を施し、忍耐、誠実、柔和を保ち、ふさわしく敬意を返すこと——これが鉄でない武器である。

12.81.22

ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च ।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च ॥ १२.८१.२२ ॥

粗暴で些細な言葉を言いたがる親族たちの心と言葉と思いを、あなたの言葉で鎮めなさい。

12.81.23

नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।
महतीं धुरमादाय समुद्यम्योरसा वहेत् ॥ १२.८१.२३ ॥

自己が分裂しておらず、助け手を持つ偉大な人物こそ、大きな軛を取り上げ、胸で持ち上げて担うことができる。

12.81.24

सर्व एव गुरुं भारमनङ्वान्वहते समे ।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम् ॥ १२.८१.२४ ॥

平らな地ではどの牛も重い荷を負うが、険しい地では名高く調教された良い牡牛こそが耐え難い重荷を負う。

12.81.25

भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव ।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ॥ १२.८१.२५ ॥

分裂は集団の破滅を招く。ケーシャヴァよ、あなたは集団の長である。この集団があなたを得て滅びないように行動せよ。

12.81.26

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते ॥ १२.८१.२६ ॥

知恵と忍耐によるのでなければ、感官の制御によるのでなければ、財の施しによるのでなければ、徳は賢者に留まらない。

12.81.27

धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा ।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥ १२.८१.२७ ॥

これは富、名声、長寿をもたらし、常に自派を強める。クリシュナよ、親族が滅びないように行動せよ。

12.81.28

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥ १२.८१.२८ ॥

主よ、未来においても現在においても、あなたに知られていないことはない。六策の配置によっても、行軍の方法における進軍によっても。

12.81.29

यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये ॥ १२.८१.२९ ॥

ヤーダヴァ、ククラ、ボージャ、そして全てのアンダカ・ヴリシュニは、大腕の者よ、あなたに依存している。世界とその主宰者たちもまた然りである。

12.81.30

उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव ।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम् ॥ १२.८१.३० ॥

聖仙たちさえもあなたの知性を崇める。マーダヴァよ、あなたは一切の存在の師であり、最高の帰趣を知っている。

12.81.31

त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम् ॥ १२.८१.३१ ॥

ヤドゥの最良の者よ、あなたに身を寄せて、ヴァーダヴァたちは幸せに栄えている。