摩诃婆罗多 · 章 12.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.98.1
के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥ १२.९८.१ ॥
那些作战不退的英雄,遭遇死亡后会到达哪些世界?祖父,请告诉我。
12.98.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अम्बरीपस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ १२.९८.२ ॥
在这里人们也引用这个古老的故事——安巴利沙与因陀罗的对话。坚战啊!
12.98.3
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।
ददर्श सुर…कस्थं शक्रेण सचिवैः सह ॥ १२.९८.३ ॥
那伽之子安巴利沙到达极难抵达的天界,看见……与因陀罗及大臣们站在一起。
12.98.4
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।
उ…गच्छन्तं स्थानं सेनापतिं शुभम् ॥ १२.९८.४ ॥
乘坐由全部光辉构成的神圣殊胜天车,前往……吉祥之处的,是那位统帅。
12.98.5
स दष्ट्वापरि गच्छन्तं सेनापतिमुदारधीः ।
शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः।
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥ १२.९८.५ ॥
高尚心智的安巴利沙看见走在前面的统帅——已达到勇士之处、名为苏提婆的那人,惊叹于苏提婆的荣耀,便对婆薮(因陀罗)说道。
12.98.6
सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि ।
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥ १२.९८.६ ॥
依法统治直至大海的整个大地,按照经典治理四种姓,我出于对法的渴望而勤勉行事。
12.98.7
ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया ।
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥ १२.९८.७ ॥
以严格的梵行、敬师的行为和侍奉,依法学习吠陀,也专门学习了王术。
12.98.8
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥ १२.९८.८ ॥
以饮食款待宾客,以斯瓦陀供奉祖先,同样以诵习和入教誓愿敬奉仙人,以最上的祭祀敬奉诸神。
12.98.9
क्षत्रध…स्थितो भूत्वा यथाशास्त्रं यथाविधि ।
उदीक्षमाणः पृतनां जयामि युधि वासव ॥ १२.९८.९ ॥
坚定地立于…刹帝利之位,依照经典和规则,凝视军队,我在战场上获胜,婆薮啊。
12.98.10
दे…ज सुदेवोऽयं मम सेनापतिः पुरा ।
आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्।
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि ॥ १२.९८.१० ॥
德…遮。这位苏提婆以前是我的将军;他攻击勇士,心境平和,为何远远超过我,乘坐如太阳般的天车在天上欢喜?
12.98.11
अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः ।
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम् ॥ १२.९८.११ ॥
他未以主要的祭祀行祭,也未依规则使再生者满足。帝释啊,他为何超过了我?
12.98.12
ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् ।
यदनेन कृतं कर्म प्रत्यक्षं ते महीपते।
पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप ॥ १२.९८.१२ ॥
这样的权威,即使诸神也极难获得,他却获得了。他所作之业就在您眼前,地上之主啊。昔日他依法良好地统治大地的时候,啊王。
12.98.13
शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः ।
संयमो वियमश्चैव सुयमश्च नहाबलः ॥ १२.९८.१३ ॥
所有对你图谋不轨的敌人都已被征服:Saṃyama、Viyama、Suyama,还有强大的Nahuṣa。
12.98.14
राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः ।
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः ॥ १२.९८.१४ ॥
那三个在世间无敌、沉醉于战斗的罗刹,是罗刹王百角(Śataśṛṅga)的儿子。
12.98.15
तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः ।
अश्वमेधं महायागं देवानां हितकाम्यया ॥ १२.९८.१५ ॥
在那吉祥的时候,你为了诸神的福祉而举行大祭——马祭(Aśvamedha)。
12.98.16
तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः ।
कोटीशतपरीवारां राक्षसानां महाचमूम्।
परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव ॥ १२.९८.१६ ॥
为了阻挠你的那场祭祀,三个罗刹前来,被亿万罗刹的大军簇拥;他们包围了你,把你所有的臣民都俘虏了。
12.98.17
विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः ।
निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः ॥ १२.९८.१७ ॥
你所有的臣民和士兵都惊慌失措;而统帅军队的苏提瓦也被撤去了职务。
12.98.18
तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु ।
श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः ॥ १२.९८.१८ ॥
那时,你听了大臣们的话,被免去了一切职务;之后又听了他们的话,这位大地之主便以诡计……
12.98.19
सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया ।
साक्षसानां वधार्थाय दुर्जयानां नराधिप ॥ १२.९८.१९ ॥
人主啊,你所派遣的苏提婆率全军,前去诛杀那些难以战胜的罗刹。
12.98.20
नाजित्वा राक्षसीं सेनां पुनरागमनं तव ।
बन्दीमोक्षमकृत्वा च न चागमनमिष्यते ॥ १२.९८.२० ॥
若不能击败罗刹之军,又不释放俘虏,你的归来便不被期望。
12.98.21
सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप ।
संप्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः ॥ १२.९८.२१ ॥
国王啊,苏提婆听了这话便动身,抵达了那个百姓被俘虏的地方。
12.98.22
पश्यति स्म महाघोरां राक्षसानां महाचमूम् ।
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः ॥ १२.९८.२२ ॥
他看见罗刹那极为可怖的大军;看见之后,统帅苏提婆深思熟虑。
12.98.23
नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः ।
नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः।
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः ॥ १२.९८.२३ ॥
此军即使天神与阿修罗连同因陀罗也无法战胜;安巴利沙也不能消灭其中哪怕一分。我虽精通神圣兵器之力,像我这样的人又能做什么呢?
12.98.24
ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव ।
यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप ॥ १२.९८.२४ ॥
于是他又派出全部军队,国王啊,前往你与所有谋臣、大臣和密探所在之处。
12.98.25
ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् ।
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् ॥ १२.९८.२५ ॥
于是他归依世界之主、大天神楼陀罗,赞颂那居住于火葬场、以公牛为旗帜的神。
12.98.26
स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः ॥ १२.९८.२६ ॥
他赞颂之后,拿起武器,准备砍下自己的头。
12.98.27
कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः ।
स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह ॥ १२.९८.२७ ॥
神中之神出于悲悯,抓住了他握着兵器的右手;见此情景,他便说了这些话。
12.98.28
किमिदं साहसं पुत्र कुर्तकामो वदस्व मे ।
स उवाच महादेवं शिरसा त्ववनीं गतः ॥ १२.९८.२८ ॥
“孩子,这是什么莽撞之举?你想做什么?告诉我。”他把头低垂到地上,对大天神说道。
12.98.29
भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर ।
अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम्।
गतिर्भव महादेव ममार्तस्य जगत्पते ॥ १२.९८.२९ ॥
“尊贵的主,诸神之王!这是罗刹的大军。我无力在战场上将其击败,因此我将舍弃性命。伟大的神,世界之主,请做我的依靠,因我正受苦难。”
12.98.30
नागन्तव्यमजित्वा च मामाह जगतीपतिः ।
अम्बरीषो महादेव क्षारितः सचिवैः सह ॥ १२.९८.३० ॥
“不胜利不要回来。”大地之主安跋利沙对我这样说过。伟大的神,他与他的大臣们一同正受苦难。
12.98.31
तमुवाच महादेवः सुदेवं पतितं क्षितौ ।
अधोमुखं महात्मानं सत्वानां हितकाम्यया ॥ १२.९८.३१ ॥
倒在地上、面朝下的大德苏提婆,大天神出于利益众生之心对他说道。
12.98.32
धनुर्वेदं समाहूय सगणं सहविग्रहम् ।
रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् ॥ १२.९८.३२ ॥
召集弓术之学及其随从与形体,那满载战车、象与马、装饰着神圣武器的战车。
12.98.33
रथं च सुमहाभागं येन तन्त्रिपुरं हतम् ।
धनुः पिनाकं खङ्गं च रौद्रमस्त्रं च शंकरः।
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः ॥ १२.९८.३३ ॥
那辆曾毁灭三城的大福之战车、弓毗那迦、剑与可怖之器——湿婆以之杀尽诸阿修罗,三目之神以之护卫诸天之妻。
12.98.34
उवाच च महादेवः सुदेवं वाहिनीपतिम् ।
रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः ॥ १२.९८.३४ ॥
大天神对大军统帅苏提婆说道:“苏提婆,从此车上下来吧,它为诸天与阿修罗所不能战胜。”
12.98.35
मायया मोहितो भूमौ न पदं कर्तुमर्हसि ।
रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान् ॥ १२.९८.३५ ॥
你被幻术迷惑,不应踏足于地;站在战车上,你将战胜诸天与大阿修罗。
12.98.36
राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् ।
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह ॥ १२.९८.३६ ॥
罗刹与毗舍遮连看都无法看这辆如千日般光耀的战车,更何况与你交战!
12.98.37
स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम् ।
घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः।
वियमं प्राप्य भूपाल वियमश्च निपातितः ॥ १२.९८.३७ ॥
他征服了所有罗刹,释放了俘虏,并使他们全部被杀。哦,大地的保护者,你在徒手搏斗中被杀。到达毗耶摩时,毗耶摩也被击倒。
12.98.38
तस्य विक्रमतस्तात सुदेवस्य बभूव ह ।
संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥ १२.९८.३८ ॥
哦,亲爱的,从苏提婆的那份勇力中生出了一场巨大的战争祭祀;另一个正在战斗的人也在其中。
12.98.39
सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥ १२.९८.३९ ॥
每位披甲受戒的战士抵达军阵前列,便处于战争祭祀的职守之中——这是确定的。
12.98.40
कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा ।
ऋत्विजश्चात्र क्रे प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥ १२.९८.४० ॥
在这场祭祀中,祭品是什么,酥油是什么,布施(达克希那)是什么?这里被称为祭司的是谁?哦,百祭之主,请告诉我。
12.98.41
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते ॥ १२.९८.४१ ॥
那里,象是祭司,马是祭祀执行者;至上的肉是祭品,血被称为酥油。
12.98.42
शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः ।
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥ १२.९८.४२ ॥
豺狼、秃鹫、乌鸦和有爪的生物在那里是会众;它们饮用酥油的剩余,并在祭祀中食用祭品。
12.98.43
प्रासतोमरसंघाताः खङ्गशक्तिपरश्वथाः ।
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥ १२.९८.४३ ॥
矛、投枪、剑、枪与战斧的聚集;燃烧而锐利的这些被饮下;然后,那些施祭者便是他的祭勺(sruc)。
12.98.44
चापवेगायतस्तीक्ष्णः परकायावभेदनः ।
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो महान् ॥ १२.९८.४४ ॥
以弓之速拉开的箭,锐利、刺穿敌人身体、笔直且磨得很锐利,被饮下;那便是大祭勺(sruva)。
12.98.45
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।
हस्तिहस्तहरः खङ्गः स्फयो भवेत्तस्य संयुगे ॥ १२.९८.४५ ॥
以豹皮缠裹、象牙柄、斩断象鼻的剑,在战斗中当成为他的祭铲(sphaya)。
12.98.46
ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः ।
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥ १२.९८.४६ ॥
来自燃烧、锐利的矛、枪、投枪与战斧,以及钢制锐利兵器的打击,即是财富。
12.98.47
सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु ।
आवेधाद्यच्च रुधिरं संग्रामे स्रवते भुवि।
साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक् ॥ १२.९८.४७ ॥
以多寡与时机而广大、出自高贵血统、众多的、因穿刺而在战场上流淌于大地的血——那就是他的圆满供物(pūrṇāhuti),由祭司使之兴盛,能挤出一切愿望。
12.98.48
छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे ।
सामानि सामगास्तस्य गायन्ति यमसादने ॥ १२.९८.४८ ॥
军队前锋所听到的“斩!刺!”之声,在阎摩之居,歌唱萨曼(sāman)的人为他歌唱萨曼颂歌。
12.98.49
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ॥ १२.९८.४९ ॥
人们称其祭坛为敌军阵前。
12.98.50
कुञ्जराणां हयानां च वर्मिणां च समुच्चय ।
अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते ॥ १२.९८.५० ॥
象、马与披甲武士堆积而成的便是名为鹰形垛(śyenacit)的火,它被规定用于那场祭祀。
12.98.51
उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः ।
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥ १२.९८.५१ ॥
此处千人倒下后站起的无头躯干,被称为那位英雄的槐木八角祭柱。
12.98.52
इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः ।
ज्याघुष्टतलतालेन वषट्कारेण पार्थिव ॥ १२.९८.५२ ॥
被以伊达之呼唤召来的象,受象钩驱使而嘶鸣;伴着弓弦的铮响、掌击之声与“瓦沙特”之呼,啊,国王。
12.98.53
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिर्नृप ।
ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम्।
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ १२.९८.५३ ॥
在那场战斗中,啊,国王,三娑摩之鼓便是乌德伽特里;当婆罗门的财物被夺走时,若有人在战斗中舍弃所爱之身,把自己竖立为祭柱,这祭祀便有无尽的布施。
12.98.54
भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात् ।
न भयाद्विनिवर्तेत तस्य लोका यथा मम ॥ १२.९८.५४ ॥
为主人而从军阵前挺身而出、不因恐惧而退却的英雄,将获得如我的那样的世界。
12.98.55
द्वीपिचर्मावृतैः खङ्गैर्बाहुभिः परिघोपमैः ।
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥ १२.९८.५५ ॥
持豹皮所包之剑、臂如铁杵、祭坛铺满吉祥草者,其诸界如同我的诸界。
12.98.56
यस्तु नापेक्षते कंचित्सहायं विषमे स्थितः ।
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥ १२.९८.५६ ॥
立于险处、不求任何助力、投入军阵中央者,其诸界如同我的诸界。
12.98.57
यस्य शोणितसंघट्टा भेरीमण्डूककच्छपा ।
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥ १२.९८.५७ ॥
血流交汇,鼓为蛙与龟,勇士之骨为砂石,险阻难行,满是血肉的泥淖——
12.98.58
असिचर्मप्लवा घोरा केशशैवलशाद्वला ।
अश्वनागरथैश्चैव संछिन्नैः कृतसंक्रमा ॥ १२.९८.५८ ॥
剑与盾为筏,可怖,发为水藻与草,以断裂的马、象与车为桥——
12.98.59
पताकाध्वजवानीरा हतवाहनवारणा ।
शोणितोदकसंपूर्णा दुस्तरा पारगैर्नरैः ॥ १२.९८.५९ ॥
旗帜与军旗为芦苇,倒毙的坐骑与象遍布,满是血水,欲渡之人难以渡过——
12.98.60
रहतनागमहानक्रा परलोकवहाऽशिवा ।
ऋष्टिखङ्गमहामीना गृध्रकङ्कबलप्लवा ॥ १२.९८.६० ॥
倒伏之象为大鳄,通往彼世而不吉,矛与剑为巨鱼,秃鹫与鹭鸶为筏——
12.98.61
पुरुषादानुचरिता भीरूणां कश्मलावहा ।
नदी योधस्य संग्रामे तदस्यावभृथं नृप ॥ १२.९८.६१ ॥
在战场上,对于武士而言,那是一条河,充满了人和他们的随从,使怯懦者惊慌;哦国王,那便是他的阿婆佛陀沐浴。
12.98.62
वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते ।
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥ १२.९८.६२ ॥
其祭坛被敌人的头颅、马与象的肩膀所散布者,他的世界如同我的世界。
12.98.63
पत्नी शालाकृता यस्य परेषां वाहिनीमुखम् ।
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः ॥ १२.९८.६३ ॥
其妻被作为棚屋者,敌军的前锋便属于他;智者称之为自己军队的祭车。
12.98.64
सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम् ।
शत्रुसेना अलत्रस्य सर्वलोकानदूरतः ॥ १२.९८.६४ ॥
勇士是南方的萨达斯亚祭司,北方的阿格尼德拉;对于无畏者,敌军使一切世界都近在咫尺。
12.98.65
यस्य भयतो व्यूहे भवत्याकाशमग्रतः ।
सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः ॥ १२.९८.६५ ॥
其阵列中因恐惧而天空出现在前方者,那便是他的祭坛;于是在祭祀中,三阵列恒为三火。
12.98.66
यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः ।
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः ॥ १२.९८.६६ ॥
然而,那位转身逃跑、因惊恐而被敌人杀死的武士,无所依托地堕入地狱;此事毫无疑问。
12.98.67
यस्य शोणितवेगेण वेदिः स्यात्संपरिप्लुता ।
केशमांसास्थिसंपूर्णा स गच्छेत्परमां गतिम् ॥ १२.९८.६७ ॥
若其祭坛被血流浸透、充满毛发、血肉与骨骸,则此人可达至高之境。
12.98.68
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः ॥ १२.९८.६८ ॥
杀死统帅后登上其战车者,步履如毗湿奴般英勇,是与brihaspati等同的主宰。
12.98.69
नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः ।
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम ॥ १२.९८.६९ ॥
若在彼处生擒首领、王子,或在那里受尊敬的人,则可获得如我之界的世界。
12.98.70
आहवे तु हतं शूरं न शोचेत कथंचन ।
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥ १२.९८.७० ॥
对于战场上阵亡的英雄,绝不应以任何方式悲痛。阵亡的英雄不值得哀悼;他在天界受到尊崇。
12.98.71
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥ १२.९८.७१ ॥
对于阵亡者,人们既不愿供奉食物与水,也不愿为他沐浴,甚至不愿行不净之仪。请听我讲述他的诸界。
12.98.72
वराप्सरः सहस्राणि शूरमत्योधने हतम् ।
त्वरमाणानि धावन्ति मम भर्ता भवेदिति ॥ १२.९८.७२ ॥
在惨烈的战场上阵亡的英雄身旁,成千上万的优美天女急忙奔来,心想:“愿他成为我的夫君。”
12.98.73
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥ १२.९८.७३ ॥
此为苦行,此为功德,此为永恒的法;于战中不逃者,四种住位皆属于他。
12.98.74
वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः ।
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥ १२.९८.७४ ॥
不可杀老人与孩童,不可杀妇女,不可从背后攻击;口含草茎说“我是你的”者,亦不可杀。
12.98.75
अहं वृत्रं बलं पाकं महाकायं विरोचनम् ।
दुरावारं च नमुचिं शतमायं च शम्बरम् ॥ १२.९८.७५ ॥
我杀了弗栗多、钵罗、钵迦、大身的毗噜佉那、难以抵挡的那牟worthy、以及有百种幻术的商婆罗。
12.98.76
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।
प्रह्वादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥ १२.९८.७६ ॥
我在战中杀了达伊提耶毗婆质多、大努的一切诸子,以及钵罗诃罗陀,之后我便成为天神之主。
12.98.77
इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च ।
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ १२.९८.७७ ॥
闻听释迦(因陀罗)此言并加礼敬之后,安跋利沙获得了战士的自我成就。