Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैवततो जयमुदीरयेत्
शरतल्पे महात्मानं शयानमपराजितम् ।
युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत् ॥ १३.१.१ ॥

向那拿罗延、人中最上的那罗以及女神萨罗室伐底致敬之后,应当宣说胜利。Yudhiṣṭhira走近躺在箭床上的大德不败者,俯身行礼后说了这些话。

13.1.2

शमो बहुविधाकारः सूक्ष्म उक्तः पितामह ।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥ १३.१.२ ॥

祖父啊,您讲述了寂静的多种形式及其微妙之处,然而听闻这些之后,我的心中仍无平静。

13.1.3

अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह ।
स्वकृतात्का नु शान्ति स्याच्छमाद्बहुविधादपि ॥ १३.१.३ ॥

祖父啊,关于此事,您讲述了多种寂静。然而,由自己所作之业,即便借助种种寂静,又能得到怎样的平静呢?

13.1.4

शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते ।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ १३.१.४ ॥

英雄啊,看见您身上插满箭矢、伤口深重,而我只顾思念自己的恶行,我找不到平静。

13.1.5

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ १३.१.५ ॥

人中之虎啊,看见您浑身浸透鲜血,如山般涌流,我便像雨季里的莲花一样凋萎。

13.1.6

अतः कष्टतरं किन्नु मत्कृते यत्पितामहः ।
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥ १३.१.६ ॥

还有什么比这更痛苦呢?祖父啊,因为我的缘故,您在战场上被敌人逼到了这般境地。

13.1.7

तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः ।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः ॥ १३.१.७ ॥

同样,其他国王与他们的儿子和亲族都因我而死。还有什么比这更痛苦的呢?

13.1.8

वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः ।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ १३.१.८ ॥

我们和持国之子,受欲望与愤怒支配,犯下这可耻的罪行,啊国王,我们将得到怎样的归宿?

13.1.9

इदं तु धार्तराष्ट्रास्य श्रेयो मन्ये जनाधिप ।
इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति ॥ १३.१.९ ॥

人主啊,我认为持国之子处于这种境地而不见你,对他来说倒是件好事。

13.1.10

सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा ।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ १३.१.१० ॥

国王啊,我是痛苦的根源,也是杀害亲友的根源。看到你悲伤地躺在地上,我无法得到安宁。

13.1.11

दुर्योधनो हि समरे सहसैन्यः सहानुजः ।
निहतः क्षत्रधर्मेऽस्मिन्दुसत्मा कुलपांसनः ॥ १३.१.११ ॥

难敌在战场上与他的军队和弟弟们一同被杀。在这刹帝利之法中,他心地邪恶,是玷污家族的人。

13.1.12

न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ ।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः ॥ १३.१.१२ ॥

那个心地邪恶的人今天看不到你倒在地上;因此我认为,对他而言死去比活在这里更好。

13.1.13

अहं हि समरे वीर गमितः शत्रुभिः क्षयम् ।
अभविष्यं यदि पुरा सह भ्रातृभिरच्युत।
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम् ॥ १३.१.१३ ॥

英雄啊,若我在战斗中被敌人所杀,先前便与兄弟们同在,阿Acyuta啊,我便不会看到你如此痛苦、被箭所伤。

13.1.14

नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप ॥ १३.१.१४ ॥

国王啊,我们确实是作恶之人,被造物主如此创造。

13.1.15

अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात् ।
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम् ॥ १३.१.१५ ॥

国王啊,为使我们即使在来世也能脱离罪孽,若你愿我得益,请如此教导我。

13.1.16

परतन्त्रं कथं हेतुमात्मानमनु पश्यसि ।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ १३.१.१६ ॥

你为何视自己为受制于他且为原因?大福之人啊,业的这一微妙之理超越感官。

13.1.17

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ १३.१.१७ ॥

关于此事,人们也讲述这段古老的传说:死神与高唐弥之间的对话,以及时间、猎人和蛇。

13.1.18

गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता ।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥ १३.१.१८ ॥

曾有一位名叫高唐弥的老妇,性情平和。她看见自己的儿子被蛇咬伤,已经没有了气息。

13.1.19

अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः ।
लुब्धकोऽर्जुनको नाम नाम गौतम्याः समुपानयत् ॥ १३.१.१९ ॥

于是名叫阿周那迦的猎人愤怒地用筋绳把蛇捆起来,带到了乔达米面前。

13.1.20

तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।
ब्रहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ १३.१.२० ॥

他对她说:『尊贵的女士,杀害你儿子的这条蛇中的恶徒,应因何缘故被处死?请快说。』

13.1.21

अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा ।
न ह्यं बालहा पापश्चिरं जीवितुमर्हति ॥ १३.१.२१ ॥

把他投入火中,或者将他剁成碎块。这个杀害幼子的罪人不配长久活着。

13.1.22

विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया ।
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ १३.१.२२ ॥

阿周那迦啊,你这无智之人,放了他吧;他不该被杀。谁在果报将至时反复思量,会以自己为师呢?

13.1.23

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ १३.१.२३ ॥

在世间,功德轻的人如同漂浮于水上的物体一样漂浮;罪业重的人如同落入水中的兵器一样沉没。

13.1.24

नास्यामृतत्वं भवितैवं हतेऽस्मि-
ञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो-
र्मृत्युं लोके को न गच्छेदनन्ते ॥ १३.१.२४ ॥

他被杀死也不会因此获得不死;他若活着,你会有什么损失?放掉这个有生命的生灵,世间谁不会走向无尽的死亡呢?

13.1.25

जानाम्यहं नेह गुणागुणज्ञाः ।
सदायुक्ता गुरवो वै भवन्ति।
स्वर्गस्य ते सूपदेशा भवन्ति ।
तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ १३.१.२५ ॥

我知道这里有知晓善恶、常自克制的导师;你关于天界的良好教导也出自他们。因此我要杀死这条小蛇。

13.1.26

शममीप्सन्तः कालयोगं त्यजन्ति ।
सद्यः शुचं त्वर्थविदस्त्यजन्ति।
श्रियः क्षयः शोचतां नित्यशो हि ।
तस्माच्छुचं मुञ्च हते भुजङ्गे ॥ १३.१.२६ ॥

求安宁者接受时间的进程;知晓真义者立即舍弃悲伤。常怀悲伤者,财富日日衰减。因此,既然蛇已被杀,你就舍弃悲伤吧。

13.1.27

न चैवार्तिर्विद्यतेऽस्मद्विधानां ।
धर्मात्मानः सर्वदा सञ्जना हि।
नित्यायस्तो बालजनो न चाहं ।
धर्मोपैति प्रभवाम्यस्य नाहम् ॥ १३.१.२७ ॥

像我们这样心怀正法的善人从不会有忧苦;只有孩童般的人才常常烦恼,而我不是。我趋向正法;这件事的起因不在我。

13.1.28

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥ १३.१.२८ ॥

婆罗门没有怒气;由怒气又从何而来痛苦呢?善人啊,以柔和之心宽恕吧;请释放这条蛇。

13.1.29

हत्वा लाभः श्रेय एवाव्ययः स्या-
त्सद्योलाभःस्याद्बलिभ्यः प्रशस्तः।
कालाल्लाभो यस्तु सद्यो भवेत ।
श्रेयोलाभः कुत्सिते त्वीदृशि स्यात् ॥ १३.१.२९ ॥

杀生所得之利或许更好且不可败坏;从强者处立即得到之利值得称赞。然而,随时势而立即到来的利益,在如此可鄙之事中,怎能成为善功之利呢?

13.1.30

काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य ।
का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे ।
मोक्षार्थं वा कस्य हेतोर्न कुर्याम् ॥ १३.१.३० ॥

擒获并杀死仇敌能得到什么财富?得到仇敌却不释放,能满足什么愿望?温柔的人啊,我为何不能宽恕这条蛇?或者为了解脱,我又为何不该这样做?

13.1.31

अस्मादेकाद्बहवो रक्षितव्या ।
नैको बहुभ्यो गौतमि रक्षितव्यः।
कृतागसं धर्महेतोस्त्यजन्ति ।
सरीसृपं पापमिमं त्यज त्वम् ॥ १३.१.३१ ॥

为了一个人,应当保护众人;瞿昙弥啊,不应为了众人而保护一个人。有过错的人,为了法而被人舍弃。你应当舍弃这条有罪的爬行之物。

13.1.32

नास्मिन्हते पन्नगे पुत्रको मे ।
सम्प्राप्स्यते लुब्धक जीवितं वै।
गुणं चान्यं नास्य वधे प्रपश्ये ।
तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥ १३.१.३२ ॥

这条蛇若被杀,我的儿子也不会重获生命,猎人啊。而我在杀它之中看不到任何其他功德。所以,猎人啊,让这条蛇活着放了吧。

13.1.33

वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै ।
यज्ञं हत्वा भागमवाप चैव।
शूली देवो देववृत्तं चर त्वं ।
क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का ॥ १३.१.३३ ॥

天王杀死了弗栗多,获得了最上的份额;毁坏了祭祀,他也获得了一份。请效法诸神的行为,如持三叉戟之神。快快杀死这条蛇,不要心存疑虑。

13.1.34

असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति ।
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम् ॥ १३.१.३४ ॥

猎人虽然多次向她说起那条蛇,那位大福大德的瞿昙弥仍未改变对那个罪人的念头。

13.1.35

ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ १३.१.३५ ॥

气息微弱,费力地镇定下来,被绳索折磨的蛇发出了微弱的人类之语。

13.1.36

को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश ।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥ १३.१.३६ ॥

阿周那迦啊,愚人,我在此有何过错?我并不自由,无能为力,是死亡驱使了我。

13.1.37

तस्यायं वचनाद्दष्टो न कोपेन न काम्यया ।
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन। ॥ १३.१.३७ ॥

他是奉其命令而咬人,既非出于愤怒,也非出于贪欲。贪婪者啊,若其中有过错,那过错也在他身上。

13.1.38

यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥ १३.१.३८ ॥

即便你是受他人支配而做出这恶行,你在此也是原因之一;因此你也有罪。

13.1.39

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥ १३.१.३९ ॥

正如制作陶罐时,木棒、陶轮等被视为原因,同样,蛇啊,你也是原因。

13.1.40

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥ १३.१.४० ॥

蛇啊,你有罪,也应当被我杀死;在此你自己宣称自己是原因,蛇啊。

13.1.41

सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव ॥ १३.१.४१ ॥

这些都不能自主,如杖与轮;我亦如此。因此依你之见,此过错不在我。

13.1.42

अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः ।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥ १३.१.४२ ॥

或者若这是你的看法,那么它们也是相互驱使的;由于相互驱使,便生出因果的疑惑。

13.1.43

एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी ।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ १३.१.४३ ॥

如此,我便无过;我不当被杀,也不是有罪之人。若你以为有罪,那罪也只在众者的结合之中。

13.1.44

कारणं यदि स्याद्वै न कर्ता स्यास्त्वमप्युत ।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥ १३.१.४४ ॥

若你是原因,你岂不也是作者?而毁灭之中,你正是原因。因此依我之见,你当被杀。

13.1.45

असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ १३.१.४५ ॥

蛇啊,即便行为未成,此处也无人被沾染。因此此处也不能成为原因。你当被杀,何必多言?

13.1.46

कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ १३.१.४६ ॥

没有结果,便不会有行为,无论原因是否存在。因此,在这同等的原因之中,应当对我特别说明其原因。

13.1.47

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।
अन्यः प्रयोक्तास्यादत्र किन्नु जन्तुविनाशने ॥ १३.१.४७ ॥

猎人啊,若我果真被视为原因,那么在这场杀害生灵之事中,必定另有唆使者。

13.1.48

वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ १३.१.४८ ॥

你这恶意的、杀害孩童的、行残酷之事的人,你应当被我所杀。你为何说这么多?卑劣的蛇啊,你本就该被杀。

13.1.49

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम् ॥ १३.१.४९ ॥

如同在祭祀中献上供品的祭司,猎人祭司,在此并不得到果报;在果报的关联中,我也是如此。

13.1.50

तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ १३.१.५० ॥

那蛇正这样说话时,被死神所驱使的死神来了,并对蛇说了这番话。

13.1.51

प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम् ।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥ १३.१.५१ ॥

蛇啊,我被时间所驱使,才催促你。你并非此孩童毁灭的原因,我也不是,这生灵也不是。

13.1.52

यथा वायुर्जलधरान्विकर्षति ततस्ततः ।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ १३.१.५२ ॥

如同风把雨云吹来吹去,蛇啊,我也是服从时间控制的随从。

13.1.53

सात्विका राजसाश्चैव तामसा ये च केचन ।
भावाः कालात्मकाः सर्वे प्रवर्तन्तेह जन्तुषु ॥ १३.१.५३ ॥

凡在此于众生中生起的善性、激性与暗性诸状态,皆以时为本性。

13.1.54

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ १३.१.५४ ॥

动与不动之物,无论在天或在地,皆以时为本性。蛇啊,此整个世界以时为本性。

13.1.55

प्रवृत्तयश्च लोके या तथैव च निवृत्तयः ।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ १३.१.५५ ॥

世间的进取与同样的止息,以及二者的变异,一切皆被认为以时为本性。

13.1.56

आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः ॥ १३.१.५६ ॥

日、月、毗湿奴、水、风、百祭(因陀罗)、火、虚空、地、密多罗、雨云帕尔贾尼亚、诸婆薮,以及阿底提。

13.1.57

सरितः सागराश्चैव भावाभावौ च पन्नग ।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः ॥ १३.१.५७ ॥

河流与海洋,以及有与无,蛇啊,皆由时一再被创造,又一再被夺去。

13.1.58

एवं ज्ञात्वा कथं मां सदोषं सर्प मन्यसे ।
अथ चैवं गते दोषे मयि त्वमपि दोषवान् ॥ १३.१.५८ ॥

既知此理,蛇啊,你为何仍以我为有过?若过失既如此在我身上,那么你也是有过的。

13.1.59

निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम् ।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु ॥ १३.१.५९ ॥

啊,死神,我不说你无过,也不说你有过。我只说:我是受你驱使才这样做的。

13.1.60

यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ १३.१.६० ॥

若时间有过失,或在那里也不认为有过失,那么不应审查我身上的过失;因为在此我们并非有权之人。

13.1.61

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम् ॥ १३.१.६१ ॥

但我必须从这过失中解脱,并且要这样做,使过失也不落在死神身上——这正是我在此的目的。

13.1.62

सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् ।
नानागसं मां पाशेन सन्तापयितुमर्हसि। ॥ १३.१.६२ ॥

于是蛇对阿周那迦说:“你已听到死神的话。我是无辜的;你用绳索折磨我是不应该的。”

13.1.63

मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम ।
नैव तावददोषत्वं भवति त्वयि पन्नग ॥ १३.१.६३ ॥

蛇啊,我已听过死神的话,也听过你的话;然而你的无辜尚未确立,啊,潘纳伽。

13.1.64

मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने ।
उभयं कारणं मन्ये न कारणमकारणम् ॥ १३.१.६४ ॥

你与死神都是这孩子毁灭的原因;我认为你们两者都是原因,而非无因。

13.1.65

धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।
त्वां चैवाहं वधिष्यामि परपापस्य कारणम् ॥ १३.१.६५ ॥

死亡啊,你这恶毒、残酷、令善人受苦的东西,真可耻!我必杀你,因为你是他人罪过的根源。

13.1.66

विवशौ कालवशगावावां निर्दिष्टकारिणौ ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ १३.१.६६ ॥

我们二者皆无能为力,受时间支配,只做命中注定之事。若你看得清楚,我们不该受责难。

13.1.67

युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ ।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम् ॥ १३.१.६७ ॥

若你们二者,死亡与毒蛇,皆受时间支配,我想知道你们心中的喜悦与愤怒是如何产生的。

13.1.68

या काचिदेव चेष्टा स्यान्सर्वा कालप्रचोदिता ।
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः ॥ १३.१.६८ ॥

无论何种行为,皆由时间所推动。猎人啊,这我先前已如实说过。

13.1.69

तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ ।
नावां दोपेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥ १३.१.६९ ॥

因此我们二者皆受时间支配,只做命中注定之事。猎人啊,你绝不该因此责怪我们。

13.1.70

अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा ॥ १३.१.७० ॥

于是时间在那关于法与利的疑惑中走近,对毒蛇、死亡,以及猎人与阿周那迦如此说道。

13.1.71

न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ १३.१.७१ ॥

不是我,也不是这死亡,也不是这蛇,猎人啊!在众生的死亡中无人有罪;我们实际上并非促成者。

13.1.72

अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ १३.१.७२ ॥

此人所做之业,阿周那迦啊,正是促使我们的原因。他毁灭的原因并非他人;他是因自己的业行而被击倒。

13.1.73

यदनेन कृतं कर्म तेनायं निधनं गतः ।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ १३.१.७३ ॥

因此人所做之业,他已走向死亡。他毁灭的原因就是他自己的业;我们所有人都受业支配。

13.1.74

कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः ।
कर्माणि चोदयन्तीह यथान्योन्यं तथावयम् ॥ १३.१.७४ ॥

世间是业的继承者,以与业的联系为特征。正如此间诸业相互驱策,我们也是如此。

13.1.75

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ १३.१.७५ ॥

如同陶工从泥团中随心所欲地制作,人也同样获得自己所作的业。

13.1.76

यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥ १३.१.७६ ॥

如同阴影与阳光始终紧密相连、不曾间断,业与作业者也由自己的业而相互联结。

13.1.77

एवं नाहं न वै मृत्युर्न सर्पो न तथा भव न् ।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ १३.१.७७ ॥

如此看来,既非我,也非死亡,非蛇,亦非那样的生命,也非这位老婆罗门妇;此处的原因正是那孩子。

13.1.78

तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप ।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत् ॥ १३.१.७८ ॥

国王啊,当他这样说的时候,婆罗门妇人瞿曇(Gautamī)认为诸世界皆依自身业而立,便对阿top那迦(Arjunaka)说道。

13.1.79

नैव कालो न भुजगो न मृत्युरिह कारणम् ।
स्वकर्मभिरयं बालः कालेन निधं गतः ॥ १३.१.७९ ॥

此处的原因既非时间,亦非蛇,也非死亡;这孩子因自己的业,经由时间而走向死亡。

13.1.80

मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥ १३.१.८० ॥

我所做的那件业,正是我的儿子死去的原因。愿时间与死亡离去;阿top那迦(Arjunaka),放了那条蛇吧。

13.1.81

ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥ १३.१.८१ ॥

于是死亡、时间与蛇如来时一样离去;阿top那迦摆脱了忧愁,瞿曇也摆脱了忧愁。

13.1.82

एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप ।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि समितिंजय ॥ १३.१.८२ ॥

听闻此言,便当得平静;国王啊,不要沉溺于忧愁。胜利于集会者啊,当知三界皆依自身之业而立。

13.1.83

नैव त्वया कृतं कर्म नापि दुर्योधनेन वै ।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥ १३.१.८३ ॥

此事既非你所为,也非难敌所为。当知此乃时间所为,诸王因之而被杀。

13.1.84

इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ १३.१.८४ ॥

闻此言已,大光明、知法的坚战摆脱了忧愁的热病,于是问道。