摩诃婆罗多 · 章 13.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.102.1
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् ।
अन्नदानं विशेषेण प्रशस्तमिह भारत ॥ १३.१०२.१ ॥
亲爱的父亲,我已听闻您所宣说的布施之果。婆罗多的后裔啊,此处尤其赞颂的是施食。
13.102.2
पानीयदानमेवैतत्कथं चेह महाफलम् ।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥ १३.१०२.२ ॥
水的布施在此又如何能带来大果报呢?祖父啊,我想详细听闻此事。
13.102.3
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥ १३.१०२.३ ॥
好吧,婆罗多中的雄牛,我将如实为你讲述。我在此说话时,你要听着,你这真正的勇士。无罪之人啊,从施水讲起,我将把一切都告诉你。
13.102.4
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम् ।
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मनः ॥ १३.१०२.४ ॥
施予食物与施予水者都能得到果报;我心以为,没有比这两者更大的布施。
13.102.5
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः ।
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥ १३.१०२.५ ॥
亲爱的孩子,众生全都依靠食物而生存。因此在世间,食物被宣称为一切布施中最殊胜的。
13.102.6
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा ।
अन्नादानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥ १३.१०२.६ ॥
众生的力量与光辉因食物而常常增长。因此造物主宣说施食为最殊胜。
13.102.7
सावित्र्या ह्यपि कौन्तेय श्रूयते वचनं शुभम् ।
यच्चेदं नान्यथा चैतद्देव सत्रे महामखे ॥ १३.१०२.७ ॥
俱卢之子啊,萨维特丽也曾听闻这句吉祥之言;在天神祭会与大祭之中,它并无二致。
13.102.8
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।
प्राणदानाद्धि परमं न दानमिह विद्यते ॥ १३.१०२.८ ॥
人在此施予食物时,生命之气息也一并施予;此间没有比施予生命更高的布施。
13.102.9
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः ।
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥ १३.१०२.९ ॥
大臂者啊,你也听过洛摩舍的那些话:往昔尸毗为一只鸽子舍弃生命所获得的。
13.102.10
यां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते ।
ततो विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतं ॥ १३.१०२.१० ॥
人主啊,施食于再生者所得的归宿;此后,施予生命者往更为殊胜的归宿而去——我们如此听闻。
13.102.11
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम ।
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ॥ १३.१०२.११ ॥
俱卢中最上者啊,食物亦从水中生出;没有水生之物,任何事情都不会发生。
13.102.12
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः ।
अमृतं च सुधा चैव सुधा चैवामृतं तथा ॥ १३.१०२.१२ ॥
从水中生出的尊者月神,是诸星群的主宰;甘露与苏陀,苏陀与甘露,亦复如是。
13.102.13
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः ।
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ॥ १३.१०२.१३ ॥
大王啊,食物、草药和生于水中的藤蔓由此产生,人民之主啊,有生命者的生命气息正是由此而生。
13.102.14
देवानाममृतं ह्यन्नं नागानां च सुधा तथा ।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥ १३.१०२.१४ ॥
甘露是诸神的食物,甘露浆(苏陀)是龙蛇的食物;斯瓦陀被称为祖先的食物,而牲畜的食物也是藤蔓。
13.102.15
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः ।
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ॥ १३.१०२.१५ ॥
智者说,食物本身就是人的生命气息;人中之虎啊,这一切都从水中产生。
13.102.16
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् ।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥ १३.१०२.१६ ॥
因此,没有什么比施水更高尚的了;想为自己求得福祉的人,应当永远施舍它。
13.102.17
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते ।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥ १३.१०२.१७ ॥
此处说,施水是吉祥的,能带来名声与长寿。贡蒂之子啊,云彩总是高居于敌人之上。
13.102.18
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम् ।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥ १३.१०२.१८ ॥
他获得一切愿望,也确实获得永恒的名声;死后享受无穷,并从罪恶中解脱。
13.102.19
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते ।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ १३.१०२.१९ ॥
人中之虎啊,大光明者!施水之人升天后,获得不朽的世界——摩奴如是说。