摩诃婆罗多 · 章 13.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.105.1
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने ।
नृगेण सुमहत्कृच्छ्रुं यदवाप्तं कुरूद्वह ॥ १३.१०५.१ ॥
此处善人们正是讲述关于触碰婆罗门财物之事,那里那罗迦遭遇了极大的苦难,库鲁之首啊。
13.105.2
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः ।
अदृश्यत महाकूपस्तृणवीरुत्समावृतः। ॥ १३.१०५.२ ॥
据闻往昔,在建立德瓦拉瓦蒂时,阿周那啊,人们看见一口大井,被草木覆盖。
13.105.3
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः ।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ १३.१०५.३ ॥
那里求水的人们竭力尝试,在那口水被严密遮盖的井边,耗费了巨大的辛劳。
13.105.4
ददृशुस्ते महाकायं कृकलासमवस्थितम् ।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥ १३.१०५.४ ॥
他们在那里看见一只身躯巨大的蜥蜴;数以千计的人努力想把它抬起来。
13.105.5
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् ।
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥ १३.१०५.५ ॥
他们用绳索和皮带将这如山般的东西捆绑起来,仍无法将其抬起;于是他们前往生主(Janārdana)那里。
13.105.6
खमावृत्योदपानस्य कृकलासः स्थितो महान् ।
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन् ॥ १३.१०५.६ ॥
一只大蜥蜴遮蔽天空,立于那口井上;他们向克里希那禀告:“没有人能将它抬起。”
13.105.7
स वासुदेवेन समुद्धृतश्च ।
पृष्टश्च कामान्निजगाद राजा।
नृगस्तदाऽऽत्मानमथो न्यवेदय-
त्पुरातनं यज्ञसहस्रयाजिनम् ॥ १३.१०५.७ ॥
筏素天将他救起;被问及时,国王便依其意而答。于是那罗伽显露了自己昔日的身份,即曾行千次祭祀之人。
13.105.8
तथा ब्रुवाणं तु तमाह माधवः ।
शुभं त्वया कर्म कृतं न पापकम्।
कथं भवान्दुर्गतिमीदृशीं गतो ।
नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥ १३.१०५.८ ॥
他如此说话时,摩陀婆对他说:你所做的是善行,而非恶行。你怎会落入如此悲惨的境地?人主啊,请说明,这究竟为何如此?
13.105.9
शतं सहस्राणि गवां शतं पुनः ।
पुनः शतान्यष्टशतायुतानि।
नृप द्विजेभ्यः क्व नु तद्गतं तव ॥ १३.१०५.९ ॥
千头牛,又百头,又数百,八十万头——国王啊,那些施予婆罗门的牛,从你这里去了哪里?
13.105.10
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः ।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ १३.१०५.१० ॥
于是那罗伽对黑天说:一位行火祭的婆罗门外出,他的一头牛从我的牛群中走失了。
13.105.11
गवां सहस्रे संख्याता तदा सा पशुपैर्मम ।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥ १३.१०५.११ ॥
她被计算在千头牛之中;那时我的牧人见到了她。我渴望来世之福,便将她布施给了一位婆罗门。
13.105.12
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः ।
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत् ॥ १३.१०५.१२ ॥
这位婆罗门四处寻找,在别人家中看见了那头牛;那牛原本属于的婆罗门说:这是我的。
13.105.13
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ ।
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम् ॥ १३.१०५.१३ ॥
二人争执不休,怒火中烧地来到我面前,说:“你是施予者”,“你是夺取者”。
13.105.14
शतेन शतसङ्ख्येन गवां विनिमयेन वै ।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥ १३.१०५.१४ ॥
我以一百头牛、数目为一百的交换之法,向那位受施者请求;他却对我说了这番话。
13.105.15
देशकालोपसम्पन्ना दोग्ध्री शान्ताऽतिवत्सला ।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥ १३.१०५.१५ ॥
一头合宜于处所与时节、温顺、极爱幼犊、产甜奶、有福的母牛,一直住在我的家中。
13.105.16
कृशं च भरते सा गौर्मम पुत्रमपस्तनम् ।
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह ॥ १३.१०५.१६ ॥
他说:“我的小牛瘦弱,它的母牛乳房有缺陷,我不能把她给你。”说罢便离去了。
13.105.17
ततस्तमपरं विप्रं याचे विनिमयेन वै ।
गवां शतसहस्रं हि तत्कृते गृह्यतामिति ॥ १३.१०५.१७ ॥
于是我又向另一位婆罗门请求,以交换之法,为她接受十万头牛。
13.105.18
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ १३.१०५.१८ ॥
“我不接受国王的施舍;我有能力寻找属于我的东西。哦,摩图苏陀那,请把那头牛赶快给我。”
13.105.19
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा ।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ १३.१०५.१९ ॥
尽管有人赠予黄金、马匹和银车,那位最优秀的婆罗门一无所取,便离开了。
13.105.20
एतस्मिन्नेव काले तु चोदितः कालधर्मणा ।
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ १३.१०५.२० ॥
就在那时,被时间之主召唤,我到达了祖先的世界,来到法王面前。
13.105.21
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् ।
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ १३.१०५.२१ ॥
阎摩尊敬了我之后,便说道:大王啊,你的功德之业无法计算其尽头。
13.105.22
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया ।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥ १३.१०५.२२ ॥
然而你也因无知犯下了一桩罪过。你可以随意,或先或后地去赎罪。
13.105.23
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव ।
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः ॥ १३.१०५.२३ ॥
你曾说:“我会保护你。”但你的誓言是虚假的。而夺取婆罗门的财产,是你的双重违犯。
13.105.24
पूर्वं कृच्छं चरिष्येऽहं पश्चाच्छुभमिति प्रभो ।
धर्मराजं ब्रुवन्नेवं पतितोस्मि महीतले ॥ १३.१०५.२४ ॥
“主啊,我先行克里查赎罪,之后再行善事。”我对法王这样说着,便倒在了地上。
13.105.25
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः ।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ १३.१०५.२५ ॥
我倒在地上,听见阎摩大声说:婆苏提婆·遮那陀那将会救拔你。
13.105.26
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते ।
प्राप्लस्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥ १३.१०५.२६ ॥
当千年圆满、恶业耗尽之时,你将以自己的业力获得所征服的永恒世界。
13.105.27
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह ।
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः ॥ १३.१०५.२७ ॥
我看见自己头朝下掉进井里,已堕入畜生之身,然而记忆仍未离我而去。
13.105.28
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् ।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥ १३.१०५.२८ ॥
今日你已救拔了我;若非苦行之力,还能是什么呢?克里希纳啊,请允许我,今日我便升往天界。
13.105.29
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् ।
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः ॥ १३.१०५.२९ ॥
得到克里希纳的允许后,那位降伏敌人者向遮那陀那礼拜,登上天上的神车,升往天界。
13.105.30
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम ।
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन ॥ १३.१०५.३० ॥
婆罗多中最优秀的人啊,那时那伽已升天,婆苏提婆,俱卢之喜悦者,说出了这些偈颂。
13.105.31
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता ।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ १३.१०५.३१ ॥
知法之人不可夺取婆罗门的财产。被夺取的婆罗门财产会毁灭那伽,正如婆罗门的牛一样。
13.105.32
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते ।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ १३.१०५.३२ ॥
普利塔之子啊,善人与善人的相会并非徒劳。看吧,那伽因与善人相处而脱离了地狱。
13.105.33
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽफलः ।
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ १३.१०५.३३ ॥
在那里,布施是有果报的,而伤害同样是无果的。因此,坚战啊,应当避免夺取牛只。