Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.107.1

उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति ।
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥ १३.१०७.१ ॥

主啊,您已讲述了向仙人那吉刻多布施牛的事,也简要说明了牛的威德。

13.107.2

नृगेण च महद्दुःखमनुभूतं महात्मना ।
एकापराधादज्ञानात्पितामह महामते ॥ १३.१०७.२ ॥

祖父啊,大智者啊,大德的那伽因一次无知所犯的过错而遭受了巨大痛苦。

13.107.3

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः ।
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥ १३.१०७.३ ॥

我也已确知,他进入德瓦拉卡时如何被救起,以及黑天如何成为他解脱的因缘。

13.107.4

किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो ।
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत ॥ १३.१०७.४ ॥

然而,主啊,关于牛之界,我心中有一疑问:我想如实听闻施牛者居住于何处。

13.107.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥ १३.१०७.५ ॥

此处也流传着这段古老的故事:正如百祭之主因陀罗曾向莲花所生者(梵天)问过同样的问题。

13.107.6

स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयाऽर्चिषा ।
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे ॥ १३.१०७.६ ॥

我看见牛界的居民以自身光辉胜过天界居民的光彩;在此诸位言说者之中,我心中有疑。

13.107.7

कीदृशा भगवँल्लोका गवां तद्बूहि मेऽनघ ।
यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥ १३.१०७.७ ॥

尊贵的啊,无罪的啊,请告诉我,那些施予者居住的牛之世界是怎样的?我想知道。

13.107.8

कीदृशाः किंफलाः किंस्वित्परमस्तत्र को गुणः ।
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥ १३.१०७.८ ॥

它们是什么样的,其果报是什么,那里的最高德性是什么,人们又如何无忧地前往那里?

13.107.9

कियत्कालं प्रदानस्य दाता च फलमश्नुते ।
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥ १३.१०७.९ ॥

施予者享受布施之果多久?多种多样的布施是怎样的,即使是少量的布施又是怎样的?

13.107.10

बह्वीनां कीदृशं दानमल्पानां वाऽपि दीदृशम् ।
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥ १३.१०७.१० ॥

众人的布施是怎样的,或少数人的布施又如何?不付出却行牛施的人是谁,或凭借什么?请告诉我。

13.107.11

कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो ।
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर ॥ १३.१०७.११ ॥

主啊,大施者怎能与小施者相等?小施者怎能成为大施果的给予者,主啊?

13.107.12

कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते ।
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥ १३.१०७.१२ ॥

在施牛时,何种祭礼酬金最为殊胜?尊贵的啊,您应当如实地告诉我。