Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.108

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.108.1

योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः ।
नान्यः प्रष्टास्ति लोकेस्मिंस्त्वत्तोन्यो हि शतक्रतो ॥ १३.१०८.१ ॥

你因布施牛等而提出的这个问题,在这个世界上除你之外再没有别的提问者了,百祭之主啊。

13.108.2

सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि ।
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥ १३.१०८.२ ॥

有各种各样的世界,你这帝释啊,你看不见;我看得见,还有那些只有一位丈夫的女子。

13.108.3

कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा ।
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभबुद्धयः ॥ १३.१०८.३ ॥

凭借极其吉祥的善业,还有持守誓愿的仙人;心智清净的婆罗门带着身体前往那些世界。

13.108.4

शरीरन्यासमोक्षेण मनसा निर्मलेन च ।
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥ १३.१०८.४ ॥

凭借舍弃身体与清净的心,持守誓愿者在此便能看见那些如梦的世界。

13.108.5

ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः ।
न तत्र क्रमते कालो न जरा न च पावकः ॥ १३.१०८.५ ॥

千眼者啊,请听那些世界具有何等德性:那里时间不前行,没有衰老,也没有火。

13.108.6

तथा नास्त्यशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ।
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ॥ १३.१०८.६ ॥

同样,那里没有任何不吉之事,没有疾病,也没有疲倦;婆薮啊,他们在那里心中所想的,都能得到。

13.108.7

तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ।
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ १३.१०८.७ ॥

因我亲眼所见,她们将一切带来;随意往来、随心游行的她们,依自己的欲望享受欲望。

13.108.8

वाप्यः सरांसि सरितो विविधानि वनानि च ।
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥ १३.१०८.८ ॥

台阶井、湖泊、河流、各种森林、住宅和山岳,以及所有存在的财物。

13.108.9

मनोज्ञं सर्वभूतेभ्यस्तद्वनं तत्र दृश्यते ।
ईदृशान्विद्दि ताँल्लोकान्नास्ति लोकस्तथाविधः ॥ १३.१०८.९ ॥

那里的那片森林对一切众生都显得悦意。应当知道,这样的世界,再没有别的同样的世界。

13.108.10

तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः ।
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ १३.१०८.१० ॥

那里的人中之尊者前往:忍受一切、宽容、慈爱、顺从师长、远离我慢的人,帝释啊。

13.108.11

यः सर्वमांसानि न भक्षयीत ।
पुमान्सदा भावितो धर्मयुक्तः।
मातापित्रोरर्चिता सत्ययुक्तः ।
शुश्रुषिता ब्राह्मणानामनिन्द्यः ॥ १३.१०८.११ ॥

不食任何肉类、心常修持、奉行法、尊敬父母、持守真实、侍奉婆罗门的人,是无可指责的。

13.108.12

अक्रोधनो गोषु तथा द्विजेषु ।
धर्मे रतो गुरुशुश्रूषकश्च।
यावज्जीवं सत्यवृत्ते रतश्च ।
दाने रतो यः क्षमी चापराधे ॥ १३.१०८.१२ ॥

对牛与再生者不生气,喜好法,侍奉师长,终身乐于行持真实,乐于布施,对冒犯能够忍让的人。

13.108.13

मृदुर्दान्तो देवपरायणश्च ।
सर्वातिथिश्चापि यथा दयावान्।
ईदृग्गुणो मानवस्तं प्रयाति ।
लोकं गवां शाश्वतं चाव्ययं च ॥ १३.१०८.१३ ॥

温和、克己、崇敬诸神、款待一切宾客、怀有慈悲,具备这些德性的人,将往生那永恒不灭的牛之世界。

13.108.14

न पारदारी पश्यति लोकमेतं ।
न वै गुरुघ्नो न मृषा सम्प्रलापी।
सदापवादी ब्राह्मणेष्वात्तवैरो ।
दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ १३.१०८.१४ ॥

奸淫他人妻子者不见此世界;弑师者、妄言者、常诽谤婆罗门者、怀有仇恨者,以及具有其他过失的恶心之人,也不见此世界。

13.108.15

न मित्रध्रुङ्नैकृतिकः कृतघ्नः ।
शठोऽनुजुर्धर्मविद्वेषकश्च।
न ब्रह्महा मनसाऽपि प्रपश्ये-
द्गवां लोकं पुण्यकृतां निवासम् ॥ १३.१०८.१५ ॥

背叛朋友者、欺诈者、忘恩负义者、狡猾者、心术不正者、憎恶正法者以及杀害婆罗门者,即使在心中也不应见到那牛之世界,即有德者的居所。

13.108.16

एतत्ते सर्वमाख्यातं नैपुण्येन सुरेश्वर ।
गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ १३.१०८.१६ ॥

诸神之主啊,我已将这一切娓娓道来。百祭者啊,现在请听那些乐于施舍牛者所得的果报。

13.108.17

दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति ।
धर्मार्जितान्धैः क्रीतान्स लोकानाप्नुतेऽक्षयान् ॥ १३.१०८.१७ ॥

用继承所得之财买牛而施舍者,以及施舍用依法所得之财买来之牛者,将获得不灭的世界。

13.108.18

यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति ।
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥ १३.१०८.१८ ॥

若有人以博戏所得之财买牛而施予,帝释啊,他将享受天界一万年的福报。

13.108.19

दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः ।
प्रदद्यात्ताः प्रदातॄणां सम्भवन्त्यपि च ध्रुवाः ॥ १३.१०८.१९ ॥

以继承与正道所得之牛,若施予之,则对施者必定结出善果。

13.108.20

प्रतिगृह्य तु यो दद्याद्गाः संशुद्धेनि चेतसा ।
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥ १३.१०८.२० ॥

对于接受牛后以清净之心再施予者,舍脂之主啊,你当知此处有不灭而永恒的诸界。

13.108.21

जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः ।
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥ १३.१०८.२१ ॥

自生来即说真话、克制诸根、忍受师长与再生者、且能忍耐者,其归趣与布施牛相等。

13.108.22

न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते ।
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ १३.१०८.२२ ॥

舍脂之主啊,对婆罗门绝不可说不当说之语;即便心中也不可害牛;应以养牛为生,并怜悯牛。

13.108.23

सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु ।
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ १३.१०८.२३ ॥

帝释啊,请听那专心于真理与法者的果报:他的一头牛等同于一千头牛。

13.108.24

क्षत्रियस्य गुणैरतैरन्वितस्य फलं शृणु ।
सप्तार्धशततुल्या गौर्भवतीति विनिश्चयः ॥ १३.१०८.२४ ॥

请听具备这些德行的刹帝利的果报:它等同于七百五十头牛,这是确定的结论。

13.108.25

वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत् ।
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ १३.१०८.२५ ॥

若吠舍具备这些德行,其果报为五百。谦逊的首陀罗之果报也被说为其四分之一。

13.108.26

एतच्चैनं योऽनुतिष्ठेत युक्तः ।
सत्ये रतो गुरुशुश्रूषया च।
दक्षः क्षान्तो देवतार्थी प्रशान्तः ।
शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ १३.१०८.२६ ॥

若有人奉行此道,虔诚而专注,乐于真实,侍奉师长,灵巧,忍耐,求诸神明,寂静,清净,有智慧,行持法德,言语不自夸,这便适用于他。

13.108.27

महत्फलं प्राप्यते सद्द्विजाय ।
दत्त्वा दोग्ध्रीं विधिनाऽनेन धेनुम्।
नित्यं दद्यादेकभक्तः सदा च ।
सत्ये स्थितो गुरुशुश्रुषिता च ॥ १३.१०८.२७ ॥

依规则将奶牛布施给善良的婆罗门,即可获得大果报。常一日一食、安住于真实、侍奉师长的人,应当每日布施(一头牛)。

13.108.28

वेदाध्यायी गोषु यो भक्तिमांश्च ।
नित्यं दत्त्वा योऽभिनन्देत गाश्च।
आजातितो यश्च गवां नमेत ।
इदं फलं शक्र निबोध तस्य ॥ १३.१०८.२८ ॥

对于研习吠陀、对牛虔诚、常布施(一头牛)并敬重牛、自出生起即向牛致敬的人——啊帝释,请领会他的这份果报。

13.108.29

यत्स्यादिष्ट्वा राजमूये फलं तु ।
यत्स्यादिष्ट्वा बहुना काञ्चनेन।
एततुल्यं फलमप्याहुरग्र्यं ।
सर्वे संन्तस्त्वषयो ये च सिद्धाः ॥ १३.१०८.२९ ॥

据说,行王祭(罗阇苏耶)所得之果,以及以大量黄金祭祀所得之果,与此相等,乃是最上之果;诸善人、仙人与成就者皆如是说。

13.108.30

योऽग्रं भक्तं किञ्चिदप्राश्य दद्या-
द्गोभ्यो नित्यं गोव्रती सत्यवादी।
शान्तोऽलुब्धो गोसहस्रस्य पुण्यं ।
संवत्सरेणाप्नुयात्सत्यशीलः ॥ १३.१०८.३० ॥

若有人自己不食,每日将食物的第一份供给牛群,持守牛戒,诚实、寂静而无贪欲,这位具足真实德行的人,一年之中便可获得布施千头牛的功德。

13.108.31

यदकेभक्तमश्नीयाद्दद्यादेकं गवां च यत् ।
दशवर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥ १३.१०८.३१ ॥

若有人所食极少,又布施一头牛,持守牛戒并对牛怀有慈悲,则十年之中可获得无尽的功德。

13.108.32

एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति ।
यावन्ति तस्या रोमाणि सम्भवन्ति शतक्रतो ॥ १३.१०८.३२ ॥

若有人以一餐所得购买一头牛而布施,哦,百祭之主(帝释),那头牛身上有多少根毛,

13.108.33

तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ।
ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु ॥ १३.१०८.३३ ॥

如此数百头牛的布施,他便得到永恒之果。此为婆罗门之果;现在听刹帝利之果。

13.108.34

पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम् ।
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ १३.१०८.३४ ॥

刹帝利之果,传为五年。其半为吠舍之果;吠舍之半,传为首陀罗之果。

13.108.35

यश्चात्मावेक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति ।
यावत्संदर्शयेद्गां वै स तावत्फलमश्नुते ॥ १३.१०८.३५ ॥

若有人自卖其身,买牛而施与,则所得之福,与其示牛之时相当。

13.108.36

रोम्णि रोम्णि महाभाग लोकाश्चास्याक्षयाः स्मृताः ।
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति।
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ १३.१०८.३६ ॥

大福者啊,据说他每一根毛孔上都有不灭的世界。凡在战争中获胜而施与牛者,其牛与自卖相等,永恒不变,此理当知,考舍迦啊。

13.108.37

अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः ।
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदत्ते ॥ १३.१०८.३७ ॥

若无牛时,以芝麻制成的牛施与,持守誓戒之人,因此牛而脱离苦难,并在乳河中欢喜。

13.108.38

न त्वेवासां दानमात्रं प्रशस्तं ।
पात्रं कालो गोविशेषो विधिश्च।
कालज्ञानं विप्रगवान्तरं हि ।
दुःखं ज्ञातुं पावकादित्यभूतम् ॥ १३.१०८.३८ ॥

仅仅施与并不值得称赞;应当理解受施之人、时机、牛的特殊之处、仪轨、知时,以及婆罗门与牛之别,这些如同火与日,用以知晓苦难。

13.108.39

स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं ।
वैतानस्थं पापभीरुं बहुज्ञम्।
गोषु क्षान्तं नातितीक्ष्णं शरण्यं ।
वृत्तिग्लानं तादृशं पात्रमाहुः। ॥ १३.१०८.३९ ॥

精通吠陀学习、出身清净、心地安宁、住于吠陀圣火、畏惧罪过、博学、对牛宽容、不过于严厉、可为依靠、生计困顿——这样的人被称为应受施之人。

13.108.40

वृत्तिग्लाने सीदति चातिमात्रं ।
तुष्ट्यर्थं वा होम्यहेतोः प्रसूतेः।
गुर्वर्थं वा बालसंवृद्धये वा ।
धेनुं दद्याद्देशकाले विशिष्टे ॥ १३.१०८.४० ॥

对于因生计之苦而极度困顿者,或为令其满足,或为护摩祭祀之需,或为产妇,或为师长,或为养育孩童,应于适当的地点和时候,将一头奶牛布施给值得的人。

13.108.41

अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः ।
प्राणैः क्रीतास्तेजसा यौतकाश्च।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च ।
द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ १३.१०८.४१ ॥

家中自知者、以价购得者、凭智慧所得者、以性命赎回者、以勇力所得者、作为嫁妆者、在困厄中释放者,以及为供养而来者——以这些途径得来的牛,被视为尤为可赞。

13.108.42

बलान्विताः शीलवयोपपन्नाः ।
सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा ।
तथाऽर्जुनीनां कपिला वरिष्ठा ॥ १३.१०८.४२ ॥

凡强壮、品性良好、正值青春、芬芳的牛,人们都加以称赞;正如恒河是河流中最优的,白牛之中,赤褐色的迦毗罗(Kapilā)最为殊胜。

13.108.43

तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ ।
तृप्ता गावस्तर्पितेभ्यः प्रदेयाः।
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा-
स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ १३.१०८.४३ ॥

三夜只饮水,卧于地上,禁食之后,应将已满足的牛布施给已满足的人;布施了饲养良好、善于放牧、有牛犊的乳牛之后,三天应以牛的产品(牛乳制品)为生。

13.108.44

दत्त्वा धेनुं सुव्रतां साधुदोहां ।
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावन्ति वर्षामि भवन्त्यमुत्र ॥ १३.१०८.४४ ॥

若布施一头守誓善良、易于挤奶、有好牛犊、不乱跑的母牛,他在来世将享受与její体毛数目相等的岁月。

13.108.45

तथाऽनड्वाहं ब्राह्मणाय प्रदाय ।
धुर्यं युवानं बलिनं विनीतम्।
हलस्य वोढारमनन्तवीर्यं ।
प्राप्नोति लोकान्दशधेनुदस्य ॥ १३.१०८.४५ ॥

同样,若将适合轭用、年轻、强壮、驯顺、能拉犁、力量无穷的牛布施给婆罗门,他便获得布施十头牛者的诸世界。

13.108.46

कान्ताराद्ब्राह्म्णान्गाश्च यः परित्राति कौशिक ।
क्षेमेण स विमुच्येत तस्य पुण्यफलं शृणु ॥ १३.१०८.४६ ॥

啊,憍尸迦,若能将婆罗门与牛从荒野中安全救出,他便得以平安解脱。请听他的功德果报。

13.108.47

अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ।
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ॥ १३.१०८.४७ ॥

其果报永恒,等同于马祠。啊,千眼者,临终之时,他得到他所渴望的境地。

13.108.48

लोकान्बहुविधान्दिव्यान्यच्चास्य हृदि वर्तते ।
तत्सर्वं समवाप्नोति कर्मणैतेन मानवः ॥ १३.१०८.४८ ॥

人凭此行为,能完全获得多种天界世界,以及其心中所愿的一切。

13.108.49

गोभिश्च समनुज्ञातः सर्वत्र च महीयते ।
यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति ॥ १३.१०८.४९ ॥

若以同样的方式在森林中追随牛群,并得到牛的允许,他便到处受到尊敬。

13.108.50

तृणगोमयपर्णाशी निस्पृहो नियतः शुचिः ।
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ॥ १३.१०८.५० ॥

以草、牛粪和树叶为食,无欲、克制而清净,啊,百祭(Śatakratu),他应当怀着喜悦之心,无所贪求地如此而居。

13.108.51

मम लोके वसति स लोके वा यत्र चेच्छति ॥ १३.१०८.५१ ॥

他居于我的世界,或居于他所愿往的世界。