摩诃婆罗多 · 章 13.109
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.109.1
जान्यो गामपहरेद्विक्रीयाच्चार्थकारणात् ।
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत् ॥ १३.१०९.१ ॥
若有智者为求财而偷盗或出售母牛,其命运将如何?我愿闻其详。
13.109.2
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते ।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम् ॥ १३.१०९.२ ॥
请听此处:那些为食物、为出售、为布施或为婆罗门而行窃者,其果报如下。
13.109.3
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः ।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ १३.१०९.३ ॥
为了贩卖而杀戮或放纵食用者,以及为求利而赞同他人使人被杀者。
13.109.4
घातकः खादको वाऽपि तथा यश्चानुमन्यते ।
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति ॥ १३.१०९.४ ॥
杀者、食者,以及同样赞同者,其沉沦的年数与那头牛身上的毛数相同。
13.109.5
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके ।
विक्रये चापहारे च ते दोषा वै स्मृता गवाम् ॥ १३.१०९.५ ॥
阻碍婆罗门祭祀的过失及其种类,与出售和偷盗牛的过失相同,此已被记载。
13.109.6
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति ।
यावद्दाने तु यो गां वै ब्राह्मणाय प्रयच्छति। ॥ १३.१०९.६ ॥
偷来牛后送给婆罗门者,以及以布施之心将牛送给婆罗门者……
13.109.7
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते ।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम् ॥ १३.१०९.७ ॥
在施舍母牛时,黄金被称为达克希那,啊,大光明者。毫无疑问,黄金被宣称为酬礼中最上等的。
13.109.8
गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान् ।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते ॥ १३.१०९.८ ॥
通过施舍母牛,可以救度七代先祖与同样七代后裔。以黄金作为酬礼,据说功德加倍。
13.109.9
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥ १३.१०९.९ ॥
黄金是最上的布施,黄金是最上的酬礼。啊,帝释天,黄金被视为诸净物中最能净化者。
13.109.10
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो ।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ १३.१०९.१० ॥
啊,百祭者,人们说黄金能净化家族。啊,大光明者,简而言之,这便是我所宣说的达克希那。
13.109.11
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ ।
इन्द्रो दशरथायाह रामायाह पिता तथा ॥ १३.१०९.११ ॥
啊,婆罗多族的雄牛,这是祖父对因陀罗所说。因陀罗对十车王说了,父亲也同样对罗摩说了。
13.109.12
राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने ।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो ॥ १३.१०९.१२ ॥
罗怙之裔也对他亲爱的兄弟、名声显赫的罗什曼那说了此话。啊,主人,这是罗什曼那在森林中居住时对诸仙人所说的。
13.109.13
पारम्पर्यागतं चेदमृषयः संशितव्रताः ।
दुर्धरं दारयामासू राजानश्चैव धार्मिकाः ॥ १३.१०९.१३ ॥
此法传承已久。坚守誓约的仙人与正法的国王都曾奉行,虽然难以坚持。
13.109.14
उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ १३.१०९.१४ ॥
坚战啊,这是我的老师对我所说的。
13.109.15
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ।
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ १३.१०९.१५ ॥
若婆罗门常在婆罗门的集会中、在祭祀中、在施舍牛的场合,以及在二者相会之时宣说此言。
13.109.16
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा ।
इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ १३.१०९.१६ ॥
他的世界必定不朽,永远与诸神同在——至尊的世尊梵天如是说。