摩诃婆罗多 · 章 13.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.111.1
विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः ।
येन ताञ्शाश्वताँल्लोकानर्थिनां प्राप्नुयादिह ॥ १३.१११.१ ॥
君王啊,我想如实听闻布施牛的最高规则,凭此求者可在此获得那些永恒的世界。
13.111.2
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप ।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ १३.१११.२ ॥
大地之主啊,没有比布施牛更高的了。依正道获得并布施的牛,立即能拯救家族的血脉。
13.111.3
सतामर्थे सम्यगुत्पादितो यः ।
स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः।
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं ।
गोदानार्थं शृणु राजन्विधिं मे ॥ १३.१११.३ ॥
为善人之利益而正当产生的,也已为这些众生正当地确立。因此,君王啊,请听我说从远古流传下来的布施牛之规则。
13.111.4
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना ।
मांधात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥ १३.१११.४ ॥
往昔,牛群隐藏在牛栏中时,目光犹疑的摩揭陀……不,为曼陀多所提问,布利哈斯帕提作答。
13.111.5
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च ।
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः ॥ १३.१११.५ ॥
邀请并尊敬再生者,于所定时辰斋戒,持戒的人应在罗希尼星宿下为布施牛而行此仪式。
13.111.6
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ १३.१११.६ ॥
应以呼唤之语说:「三摩伽啊,巴呼啰啊!」进入牛群之中,诵读此经文。
13.111.7
गौर्मे माता वृषभः पिता मे ।
दिवं गर्भं जगती मे प्रतिष्ठा।
प्रपद्यैवं शर्वरीमुष्य गोषु ।
पुनर्वाणीमुत्सृजेद्गोप्रदाने ॥ १३.१११.७ ॥
母牛是我的母亲,公牛是我的父亲;天界是我的胎藏,遮娑底韵律是我的根基。如此在牛群中度过一夜后,在施牛之时应再次诵出言辞。
13.111.8
स तामेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते ॥ १३.१११.८ ॥
他与牛群共度那一夜,结为同伴、持守同样的誓愿,因达到合一,婆罗门立即脱离污染。
13.111.9
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव ॥ १३.१११.९ ॥
放出公牛与牛犊之后,应在日出时布施母牛。当得三界(天界);这些是为你而说的赞词与祝福。
13.111.10
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे ।
गर्भोऽमृतस्य जगतश्च प्रतिष्ठा।
क्षिते रोहः प्रवहः शश्वदेव ।
प्राजापत्याः सर्वमित्यर्थवादाः ॥ १३.१११.१० ॥
充满活力、具备力量与智慧的母牛,在祭祀中是不死的胎藏,也是世界的根基。大地的生长与流动恒常不息;一切皆属生主——这些是赞词。
13.111.11
गावो ममैनः प्रणुदन्तु सौर्या-
स्तथा सौम्याः स्वर्गयानाय सन्तु।
आत्मानं मे मातृवच्चाश्रयन्तु ।
तथाऽनुक्ताः सन्तु सर्वाशिषो मे ॥ १३.१११.११ ॥
愿太阳的母牛驱除我的罪;愿温和的母牛助我升天。愿它们如母亲般庇护我。如此,愿我一切的祝愿,即便未说出的,也得以成就。
13.111.12
शोषोत्सर्गे कर्मभिर्देहमोक्षे ।
सरस्वत्यः श्रेयसे सम्प्रवृत्ताः।
यूयं नित्यं सर्वपुण्योपवाह्यां ।
दिशध्वं मे गतिमिष्टां प्रसन्नाः ॥ १३.१११.१२ ॥
你们如萨罗斯瓦蒂一样为至善而起,因释放枯干之牛、以仪式脱离身体,永远应当被一切功德所承载。请欢喜,为我指示所愿之道。
13.111.13
या वै यूयं सोऽहमद्यैव भावो ।
युष्मान्दत्त्वा चाहमात्मप्रदाता।
मनश्च्युता मन एवोपपन्नाः ।
सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः ॥ १३.१११.१३ ॥
你们是什么,今日我也正是那样;将你们施予之后,我也成为施予自身者。虽已离心,却在心中得成,愿你们以柔和的形相与殊胜的身体光明焕发。
13.111.14
दानस्याग्रे पूर्वमेतद्वदेत ।
गवां दाता विधिवत्पर्वदृष्टम्।
प्रतिब्रूयाच्छेषमर्धंद्विजातिः ।
प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ १३.१११.१४ ॥
在布施之初,应先这样说:依规则,如仪式所见,施牛者;再者,再生者应回应其余的一半,而精通规则者在施牛时受领。
13.111.15
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः ।
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत् ॥ १३.१११.१५ ॥
应说:「我施一牛」;放下阿尔伽之后,持善誓者应当勉励说:「毗湿奴之牛应被承载与养护。」
13.111.16
नाम सङ्कीर्तयेत्तस्या यथासंख्योत्तरं स वै ।
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः ॥ १३.१११.१६ ॥
应依次念诵她的名字并以数字回应;其果报为三十六,八千,又二十。
13.111.17
एवमेतान्गुणान्विद्याद्गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥ १३.१११.१७ ॥
如此应依次了解牛等布施的这些功德;布施牛者在第八级获得这一切。
13.111.18
गोदः शीली निर्भयश्चार्घदाता ।
न स्याद्दुःखी वसुदाता च कामम्।
उपस्योढा भारते यश्च विद्वा-
न्विख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥ १३.१११.१८ ॥
布施牛者成为有德、无畏、奉献敬礼者;他不会痛苦,并能随意施予财富。在婆罗多地上已婚而有学问者,便是著名的毗湿奴月界。
13.111.19
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं ।
निशां चैकां संवसेतेह ताभिः।
काम्याष्टभ्यां वर्तितव्यं त्रिरात्रं ।
रसैर्वा गोः शकृता प्रश्नवैर्वा ॥ १३.१११.१९ ॥
布施牛后,持牛戒者应住三夜,并与牛同住一夜。于所愿的八日,应以牛汁、牛粪或牛尿持戒三夜。
13.111.20
देवव्रती स्याद्वृषभप्रदाने ।
वेदावाप्तिर्गोयुगस्य प्रदाने।
तथा गवां विधिमासाद्य यज्वा ।
लोकानग्र्यान्विन्दते गोविधिज्ञः ॥ १३.१११.२० ॥
布施公牛者应成为奉神的人;布施一对牛者获得吠陀。同样,行持牛法的祭祀者与懂得牛法的人,获得最殊胜的世界。
13.111.21
कामान्सर्वान्पार्थिवानेकसंस्था-
न्यो वै दद्यात्कामदुघां च धेनुम्।
सम्यक्ताः स्युर्हव्यकव्यौघवत्य ।
स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ॥ १३.१११.२१ ॥
布施能满足一切世间欲望、归于一的如意牛者,愿那些牛充满供奉诸神与祖先的havya、kavya。布施那些殊胜公牛也同样(得到最高果报)。
13.111.22
न चाशिष्यायाव्रतायोपकुर्या-
न्नाश्रद्दधानाय न वक्रबुद्धये।
गुह्यो ह्ययं सर्वलोकस्य धर्मो ।
नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥ १३.१११.२२ ॥
不应当帮助非弟子、无戒律、无信心或心地邪曲的人。此法对一切世界都是秘密的;不应到处宣说此法。
13.111.23
सन्ति लोके श्रद्दधाना मनुष्याः ।
सन्ति क्षुद्रा राक्षसमानुषेषु।
एषामेतद्दीयमानं ह्यनिष्टं ।
ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः ॥ १३.१११.२३ ॥
世间有有信心的人,也有在罗刹与人类中的卑劣者。把此法交给福德微少而依止无神论的人,是不吉祥的。
13.111.24
बार्हस्पत्यं वाक्यमेतन्निशम्य ।
ये राजानो गोप्रदानानि दत्त्वा।
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्ता-
स्तान्मे राजन्कीर्त्यमानान्निबोध ॥ १३.१११.२४ ॥
听闻了布里哈斯帕蒂的这些话之后,那些布施牛的国王,品性善良、致力于功德,得以到达诸界。国王啊,请听我所称颂的他们。
13.111.25
उशीनरो विश्वगश्वो नृगश्च ।
भगीरथो विश्रुतो यौवनाश्वः।
मान्धाता वै मुचुकुन्दश्च राजा ।
भूरिद्युम्नो नैषधः सोमकश्च ॥ १३.१११.२५ ॥
乌希那罗、毗奢伽什瓦与那利伽,著名的跋吉罗陀,青年马王(Yauvanāśva),摩揭陀(Māndhātṛ),国王穆楚昆达,婆利第尤摩那,那伊沙陀与索摩迦。
13.111.26
पुरूरवा भरतश्चक्रवर्ती ।
यस्यान्ववाये भरताः सर्व एव।
तथा वीरो दाशरथिश्च रामो ।
ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥ १३.१११.२६ ॥
补茹罗婆,转轮王婆罗多,其家族中诞生了所有婆罗多;英雄达舍罗陀之子罗摩亦如是;以及其他著名而有声望的人。
13.111.27
तथा राजा पृथुकर्मा दिलीपो ।
दिवं प्राप्तो गोप्रदानैर्विधिज्ञः।
यज्ञैर्दानैस्तपसा राजधर्मै-
र्मांधाताऽभूद्गोप्रदानैश्च युक्तः ॥ १३.१११.२७ ॥
同样,行大事、知礼仪的国王迪利波,因布施牛而升天;并以祭祀、布施、苦行和王法,又结合布施牛,成为了曼陀多。
13.111.28
तस्मात्पार्थ त्वमपीमां मयोक्तां ।
बार्हस्पतीं भारतीं धारयस्व।
द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो ।
गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ १३.१११.२८ ॥
因此,普利塔之子啊,你也应当守持我所说的这部布哈斯帕蒂-婆罗多教诲,在获得俱卢国的王位后,欢喜地将圣牛布施给最优秀的婆罗门。
13.111.29
तथा सर्वं कृतवान्धर्मराजो ।
भीष्मेणोक्तो विधिवद्गोप्रदाने
स मान्धातुर्वेद देवोपदिष्टं ।
सम्यग्धर्मं धारयामास राजा ॥ १३.१११.२९ ॥
同样,法王按照规定完成了毗湿摩所教导的关于布施牛的一切;他完全奉行了诸神教导给曼陀多的法。
13.111.30
इति नृप सततं गवां प्रदाने ।
यवशकलान्सह गोमयैः पिबानः।
क्षितितलशयनः शिखी यतात्मा ।
वृष इव राजवृषस्तदा बभूव ॥ १३.१११.३० ॥
如此,哦国王,他不断投身于布施牛,以大麦碎粒和牛粪为饮,睡在光地上,头顶留发,心意克制,于是他成为诸王中的雄牛。
13.111.31
नरपतिरभवत्सदैव ताभ्यः ।
प्रयतमनास्त्वभिसंस्तुवंश्च गा वै।
नृपतिधुरि च गामयुक्त भूप-
स्तुरगवरैरगमच्च यत्र तत्र ॥ १३.१११.३१ ॥
国王始终专心于那些牛,心志克制,不断赞颂它们。国王把一头牛套在车轭上,乘着良马到处而去。