摩诃婆罗多 · 章 13.113
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.113.1
एवमुक्त्वा ततो भीष्मः पुनर्धर्मसुतं नृपम् ।
जनमेजयभूपाल उवाचेदं सहेतुकम् ॥ १३.११३.१ ॥
说完这些,毗湿摩又对法之子国王说话。国王阇那美阁耶带着理由说了这番话。
13.113.2
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् ।
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः ॥ १३.११३.२ ॥
就在这时,出生于伊剌婆迦族的国王娑陀娑,是言辞者中最优秀的,前去拜访圣仙中最杰出的婆悉吒。
13.113.3
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् ।
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे ॥ १३.११३.३ ॥
他向遍行一切世界、圆满、梵的宝库、永恒的家祭司致敬,然后开始发问。
13.113.4
त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ ।
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ १३.११३.४ ॥
尊贵者啊,无罪者啊!三界之中,何物被称为最为清净?人若常常称颂它,便能获得最上的功德?
13.113.5
तस्मै प्रोवाच वचनं प्रणताय हितं तदा ।
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः ॥ १३.११३.५ ॥
于是他对恭敬行礼者说了有益的话,即关于牛的奥义之学,先向牛致敬并使自己清净。
13.113.6
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः ।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ १३.११३.६ ॥
牛有如娑罗美香,又有如没药的香气。牛是众生的根基;牛是通往大吉祥的道路。
13.113.7
गावो भूतं च भव्यं च गावः पुष्टिः सनातनी ।
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ॥ १३.११३.७ ॥
牛是过去与未来;牛是永恒的滋养。牛也是吉祥天女(Lakṣmī)之根,供养于牛者不会消失。
13.113.8
अन्नं हि परमं गावो देवानां परमं हविः ।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ॥ १३.११३.८ ॥
牛确实是至上的食物,也是诸神至上的供品。svāhā与vaṣaṭ之声常驻于牛中。
13.113.9
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ।
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः ॥ १३.११३.९ ॥
牛是祭祀的果报;祭祀建立于牛中。牛是未来与过去;祭祀建立于牛中。
13.113.10
सायं प्रातश्च सततं होमकाले महाद्युते ।
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ ॥ १३.११३.१० ॥
无论晨昏,常在homa(火祭)之时,光辉者啊,牛为仙人供给祭献之物,人中之牛啊。
13.113.11
यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च ।
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ १३.११३.११ ॥
无论曾遭遇何种困厄、所造何种恶业,施予乳牛(dhenu)者,主啊,都能超越罪孽。
13.113.12
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती ।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ १३.११३.१२ ॥
可施一头牛,或价值十倍者;施十头牛,或施一百头牛;施一百头,或价值千倍者——这些所得之果皆相等。
13.113.13
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः ॥ १३.११३.१३ ॥
不奉圣火者、施百牛而不祭祀者、施千牛者,以及富有却吝啬者——这三人不配受阿尔ghya之礼。
13.113.14
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥ १३.११३.१४ ॥
施予带着小牛、配有铜制挤奶器、持守善誓并披着布的黄褐色母牛(kapilā)者,征服两个世界。
13.113.15
युवानमिन्द्रियोपेतं शतेन सहयूथपम् ।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥ १३.११३.१५ ॥
年轻、感官充沛、价值相当于百头牛、为牛群之首、牛中之因陀罗、多角且装饰的公牛,应施予婆罗门中的因陀罗。
13.113.16
वृषबं ये प्रयच्छन्ति श्रोत्रियाय परन्तप ।
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनःपुनः ॥ १३.११३.१६ ॥
征服敌人者啊!施予通晓吠陀的婆罗门一头公牛者,将在一次次轮回中获得权势。
13.113.17
नाकीर्तयित्वा गाःक सुप्यात्तासां संस्मृत्य चोत्पतेत् ।
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ १३.११३.१७ ॥
不先念诵牛者不应入睡;应当念着牛而起身。晨昏应向牛致敬,如此便得兴旺。
13.113.18
गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन ।
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽप्नुयात् ॥ १३.११३.१८ ॥
对牛的尿与粪绝不可生厌恶之心,也不可食其肉;如此便得牛之福泽。
13.113.19
गाश्च संकीर्तयन्नित्यं नावमन्येत तास्तथा ।
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ॥ १३.११३.१९ ॥
应当常常赞颂牛,不可轻慢它们。见到不吉的梦时,人应当虔诚地赞颂母牛。
13.113.20
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् ।
श्लोष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ १३.११३.२० ॥
应当常以牛粪沐浴,坐于牛粪饼上。应避免痰、尿、粪,以及抑制它们。
13.113.21
सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम् ।
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं सदाऽऽश्नुते ॥ १३.११३.२१ ॥
应当坐在湿皮上进食,望向西方,克制言语,在地上以酥油供奉;如此便常得牛的兴旺。
13.113.22
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं दद्याद्धृतं प्राशेद्गवां व्युष्टिं सदाऽऽश्नुते ॥ १३.११३.२२ ॥
应以酥油向火中献祭,以酥油令人诵读吉祥祝愿;布施酥油,并食用酥油;如此便常得牛的兴旺。
13.113.23
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः ।
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ १३.११३.२३ ॥
若以“牛母”之明咒加持芝麻,布施一头由一切珍宝制成的奶牛,他便不会为已做或未做之事忧愁。
13.113.24
गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः ।
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा ॥ १३.११३.२४ ॥
愿那些金角、流乳、芬芳、出自苏罗毗(Surabhi)族的牛,来到我的身边,如河流奔向大海。
13.113.25
गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा ।
गावोस्माकं वयं तासां यतो गावस्ततो वयम् ॥ १३.११३.२५ ॥
我常常看望牛群;愿牛群也常常看望我。牛属于我们,我们属于牛;因为有牛,所以才有我们。
13.113.26
एवं रात्रौ दिवा चापि समेषु विषमेषु च ।
महाभयेषु च नरः कीर्तयन्मुच्यते भवात् ॥ १३.११३.२६ ॥
如此,无论昼夜,无论在平坦还是崎岖之地,即使在大危难中,诵唱赞歌的人也将从世间轮回中解脱。