Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 13.121

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

13.121.1

कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः ।
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः ॥ १३.१२१.१ ॥

かつて、望む姿に変身でき、吉祥の印を備えた牝牛たちが女の姿をとり、喜んで池で遊び歌っていた。

13.121.2

ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः ।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा ॥ १३.१२१.२ ॥

驚きに目を見開いた牝牛たちは彼女らを見て、人の言葉で尋ねた。「あなたたちは誰なのですか、女たちよ」

13.121.3

गाव एव वयं सर्वकर्मभिः शोभनैर्युताः ।
सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे। ॥ १३.१२१.३ ॥

私たちはまさに牝牛であり、あらゆる善行を備えています。私たちは皆、女の姿をとり、望むままに歩き回っているのです。

13.121.4

गवां गावः परं दैवं गवां गावः परा गतिः ।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः ॥ १३.१२१.४ ॥

牝牛にとって牝牛こそ至高の神であり、牝牛にとって牝牛こそ最高の帰趣である。ここで私たちに告げよ。善行を積んだあなたたちの行き先は、どの行いによって得られるのか。

13.121.5

अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा ।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः ॥ १३.१२१.५ ॥

私たちの供物によって神々とバラモンは満足し、カヴィヤ(祖霊への供物)によって祖霊たちが、ハヴィヤ(神々への供物)によって火神もまた満足する。

13.121.6

प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा ।
शकटैश्चापि संयुक्ता दशवाहशतेन वै ॥ १३.१२१.६ ॥

同様に、私たちの耕作は子孫によって常に盛んにされ、十頭の牛に引かれる百台の車が結びつけられている。

13.121.7

तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः ।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः ॥ १३.१२१.७ ॥

ゆえに、これら豊かな善行によって、我らとその子孫は、最高の、願いが叶う世界ゴーローカに至った。

13.121.8

यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः ।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा ॥ १३.१२१.८ ॥

しかし我らは天眼で見る、お前たちロヒニーの牛はみな、子牛や雄牛とともに下へ向かっている、と。

13.121.9

एवं गवां परं दैवं गाव एव परायणम् ।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम् ॥ १३.१२१.९ ॥

このように、牛にとっての至高の神は牛そのものであり、牛こそが究極の拠り所である。同族のお前たちは我らを救わねばならぬ。我らは庇護を求めて来た。

13.121.10

किमस्माभिः करणीयं वर्तितव्यं कथञ्चन ।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः ॥ १३.१२१.१० ॥

我らは何をなすべきか。ともかくも振る舞い、ゴーローカに至り、非難されぬようにせねばならぬ。

13.121.11

वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् ।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः ॥ १३.१२१.११ ॥

ランティデーヴァの供犠は千年にわたって続いている。そこではその王が速やかに畜生の身へと移りつつある。

13.121.12

ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः ।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः ॥ १३.१२१.१२ ॥

その後、彼の用いによって、畜生の身で供犠に清められ、その功徳を備えて、汝らは吉祥なるゴーローカに至るであろう。

13.121.13

एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः ।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम् ॥ १३.१२१.१३ ॥

これらの言葉を聞いて、心喜んだ牛たちは行くことを決意し、大いなる熱意をもって出発した。

13.121.14

न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् ।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा ॥ १३.१२१.१४ ॥

バールガヴァは私たちを獣として使うために差し出しはしない。その王の供犠は法にかなって行われている。

13.121.15

वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन ।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम् ॥ १३.१२१.१५ ॥

許しなくして私たちは決して去ることができなかった。するとそこにいた人々が言った、「このバールガヴァを殺せ」と。

13.121.16

एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा ।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम् ॥ १३.१२१.१६ ॥

あなたたちは皆これを承認せよ。さもなければ不可能だ。我々とともに諸世界を得るため、この決意をせよ。

13.121.17

न तु तासां समेतानां काचिद्धोरेण चक्षुषा ।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता ॥ १३.१२१.१७ ॥

しかし集まった牛たちの中で、誰一人として恐ろしい眼差しでバールガヴァを見ることはできなかった。敬意をもって結びついた者だけが彼を見ることができた。

13.121.18

अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः ।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः ॥ १३.१२१.१८ ॥

そのとき、蓮の色の輝きをもち、太陽の光線のように明るく、ジャパー花のように赤く銅色の目を持ち、肉のない硬い顔をした(牛たちが現れた)。

13.121.19

रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः ।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः ॥ १३.१२१.१९ ॥

ローヒニー牛と茶色の牛たちは、皆の前でこのように語った。雷雲の轟きのような声で、輝きに満ちて。

13.121.20

वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः ।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ ॥ १३.१२१.२० ॥

我々は必ず彼を殺すだろう、それに疑いはない。過去に行った善行を後回しにして、我々にどんな幸福をもたらすのか。

13.121.21

कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति ॥ १३.१२१.२१ ॥

茶色の牛たちは言った。「おまえはすべての階級において第一の地位を得るだろう。牛を一頭布施するだけでも百倍の果報を得るだろう。」

13.121.22

एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः ।
चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् ॥ १३.१२१.२२ ॥

牛たちのこの言葉を聞いて、茶色の牛たちは皆、喜ぶ心でバールガヴァ(バリグの末裔)のスミトラを殺すことを決めた。