Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.126.1

नानावर्णैरुपेतानां गवां किं मुनिसत्तम ।
कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन् ॥ १३.१२६.१ ॥

最优秀的圣人啊,在各种毛色的母牛中,迦毗罗牛如何在所有颜色中获得了殊胜的地位?

13.126.2

शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः ।
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु ॥ १३.१२६.२ ॥

孩子,听着:在牛中,迦毗罗牛被认为是最好的;获得迦毗罗的特质后,它们在人间始终值得崇敬。

13.126.3

अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् ।
देवेभ्यो मां छादयत शरण्याः शरणं गतम् ॥ १३.१२६.३ ॥

我们听说,火神阿耆尼从前曾远离诸神。(阿耆尼说:)啊,能庇护的母牛们,请把我藏起来,躲开众神;我已来到你们的庇护之下。

13.126.4

ऊचुस्ताः सहितास्तत्र स्वागतं तव पावकः ।
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे ॥ १३.१२६.४ ॥

她们在那里一同说道:欢迎你,帕瓦卡。你将在这里被我们隐藏,诸神无法找到你。

13.126.5

अथ देवा विवित्सन्तः पावकं परिचक्रमुः ।
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे ॥ १३.१२६.५ ॥

于是诸神想要找到火神,四处寻找;得知他隐藏在母牛之中,便迅速来到她们面前。

13.126.6

युष्मासु निवसत्यग्निरिति गाः समचूचुदन् ।
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ ॥ १३.१२६.६ ॥

“阿耆尼就住在你们之中。”她们这样催促母牛:“让献供之火(胡达瓦哈)显现出来吧;你们不应毁灭世界。”

13.126.7

एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन् ॥ १३.१२६.७ ॥

他们说:“就这样吧。”于是允许并向众人展示了净化之火帕瓦卡。

13.126.8

अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु ।
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः ॥ १३.१२६.८ ॥

那些欢喜的诸神走近净化之火帕瓦卡,立即催促阿耆尼:“请对牛群施以恩惠。”

13.126.9

गवां तु यासां गात्रेषु पावकः समवस्थितः ।
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च ॥ १३.१२६.९ ॥

那些身上安住了净化之火帕瓦卡的母牛,获得了褐红色,并且超越一切之上。

13.126.10

महाफलत्वं लोके च ददौ तासां हुताशनः ।
तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय।
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे ॥ १३.१२६.१० ॥

胡陀舍那在世间赐予它们大果报。因此,所有种姓都应将褐色母牛布施给精通吠陀、平静、清净的火祭者。

13.126.11

यावन्ति रोमाणि भन्ति धेन्वा ।
युगानि तावन्ति पुनाति दातॄन्।
प्रतिग्रहीतॄंश्च पुनाति दत्ता ।
शिष्टे तु गौर्वै प्रतिपादनेन ॥ १३.१२६.११ ॥

母牛身上有多少光亮的毛,它就能净化施主相应多的时代;被施予的母牛也净化受施者。其余的母牛则仅因被布施而得净化。