Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.127

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.127.1

केन वर्णविभागेन विज्ञेया कपिला भवेत् ।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा ॥ १३.१२७.१ ॥

以何种颜色区分来辨识赤褐色的母牛(卡皮拉)?古时诸仙人见过它多少种特征?

13.127.2

शृणु तात यथा गोषु विज्ञेया कपिला भवेत् ।
नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः ॥ १३.१२७.२ ॥

听着,孩子:如何在众牛中辨识赤褐色母牛——从其眼睛、角、蹄、睾丸的标记,还有耳朵和鼻子;如此,卡皮拉被说为六类。

13.127.3

एतेषां लक्षणानां तु यद्येकमपि दृश्यते ।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः ॥ १३.१२७.३ ॥

若这些标记中哪怕只见一个,便应认作卡皮拉——智者如是说。

13.127.4

आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् ।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत ॥ १३.१२७.४ ॥

眼睛呈赤褐色者为阿格涅伊;以蹄辨认者为摩헤什瓦里;应于颈部认作毗湿奴之女(Vaiṣṇavī);她生于普unan之鼻。

13.127.5

कर्णतस्तु वसन्तेन स्वयोनिमभिजायते ।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता ॥ १३.१२७.५ ॥

她从耳朵借春季而生于自身之源;而迦耶特丽从睾丸的出生被说为六倍。

13.127.6

एवं गावश्च विप्राश्च गायत्री सत्यमेव च ।
वसन्तश्च सुवर्णश्च एकतः समजायत ॥ १३.१२७.६ ॥

如此,牛与婆罗门、迦耶特丽与真理、春季与黄金,同自一源而一并生出。

13.127.7

नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा ।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते ॥ १३.१२७.७ ॥

凡以缰绳套住赤褐色母牛之眼而使其负重,或挤其奶者,乃作恶之人,将堕地狱及卑下之境。

13.127.8

नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते ।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः ॥ १३.१२७.८ ॥

从地狱解脱后,他入于畜生之胎;待得人身时,便生为生来即盲之人。

13.127.9

शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा ।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः ॥ १३.१२७.९ ॥

凡以双角牵引赤褐色母牛负重,或挤其奶者,将得畜生之身,反复投生。

13.127.10

खुरेषु कपिलां यस्तु वाहयेत दुहेत वा ।
तमस्यपारे मज्जेत धनहीनो नराधमः ॥ १३.१२७.१० ॥

凡以蹄踏使赤褐色母牛负重,或挤其奶者,乃无财之卑贱之人,将沉没于无边的黑暗之中。

13.127.11

कपिलां वालधानेषु वाहयेत दुहेत वा ।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः ॥ १३.१२७.११ ॥

凡以尾巴牵引赤褐色母牛负重,或挤其奶者,常生而无所依靠;若转生为虫,则以虫身而生。

13.127.12

कर्णेन कपिलां यस्तु जानन्नप्युपजीवति ।
सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ।
चण्डालः पापयोनिश्च जायते स नराधमः ॥ १३.१२७.१२ ॥

凡明知而借赤褐色母牛之耳谋生者,即使千次清净而得人身,仍将生为旃陀罗,生于罪恶之胎,为最卑下之人。

13.127.13

घ्राणेन कपिलां यस्तु प्रमादादुपजीवति ।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते ॥ १३.१२७.१३ ॥

若因疏忽以嗅觉享用赤褐母牛(卡皮拉),此人亦将在畜生胎中转生千年。

13.127.14

व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः ॥ १३.१२७.१४ ॥

即便得到人身,他也会患病、昏钝而成为病人。

13.127.15

मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः ।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते ॥ १३.१२७.१५ ॥

据经典所载,赤褐母牛散发蜜与酥油之香;享用它们者也会生为畜生。

13.127.16

स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् ।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः ॥ १३.१२७.१६ ॥

若已堕入不动之境者又得人身,则他寿命短促,生于低贱的种姓与家族。

13.127.17

ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च ।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम् ॥ १३.१२७.१७ ॥

那些嫉妒赤褐母牛并使其负重的罪人,将留在地狱中,直至众生劫灭。