摩诃婆罗多 · 章 13.129
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.129.1
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये ।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥ १३.१२९.१ ॥
施舍牛者,并食用祭祀残余之人——他们的祭祀与供养之礼恒常有效,俱胝逸,坚战啊。
13.129.2
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते ।
तेन यज्ञस्य यज्ञत्वमतो मूलं च लक्ष्यते ॥ १३.१२९.२ ॥
此处无凝乳与酥油,祭祀便不能进行;由此祭祀方具祭祀之性,故其根源得以显现。
13.129.3
दानानामपि सर्वेषां गवां दानं प्रशस्यते ।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥ १३.१२९.३ ॥
在一切布施之中,施牛最被称赞;牛乃殊胜而清净,此施能净化,最为殊胜。
13.129.4
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह ।
पयो दधि घृतं चासां सर्वपापप्रमोचनम् ॥ १३.१२९.४ ॥
为滋养应侍奉它们,也为求平安;它们的乳、凝乳与酥油能免除一切罪过。
13.129.5
गावस्तेजः परं प्रोक्तमिह लोके परत्र च ।
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ ॥ १३.१२९.५ ॥
牛被宣说为最高的光辉,无论在此世还是彼世;没有比牛更清净的东西,婆罗多中的雄牛啊。
13.129.6
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ १३.१२९.६ ॥
此处人们也讲述这段古老的传说:祖父(梵天)与因陀罗的对话,坚战啊。
13.129.7
पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः ।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ १३.१२९.७ ॥
当达提耶被击败后,三界之主帝释天统治,一切众生繁荣昌盛,皆奉行真实与法。
13.129.8
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः ।
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा।
पर्युपासत कौन्तेय कदाचिद्वै पितामहम् ॥ १३.१२९.८ ॥
昆提之子啊,仙人、乾闼婆、紧那罗、大蛇、罗刹、天神、阿修罗、金翅鸟以及众生之主,曾经侍奉过祖父(梵天)。
13.129.9
नारदः पर्वतश्चैव विश्वावसुहहाहुहूः ।
दिव्यतानेषु गायन्तः पर्युपासत तं प्रभुम् ॥ १३.१२९.९ ॥
那罗陀、波尔瓦塔、毗奢婆苏、哈哈与呼呼,以天界曲调歌唱,侍奉那位主宰。
13.129.10
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा ।
आजह्रुर्ऋतवश्चापि सुगन्धीनि पृथक्पृथक् ॥ १३.१२९.१० ॥
那时风吹来了天界的花朵,四季也各自带来了芬芳的花。
13.129.11
तस्मिन्देवसमावाये सर्वभूतसमागमे ।
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ १३.१२९.११ ॥
在那群神集会之中,万物聚集,神乐齐鸣,天女与遮罗那环绕,因陀罗向天神之主致敬行礼后问道。
13.129.12
देवानां भगवन्कस्माल्लोकेशानां पितामह ।
उपरिष्ठाद्गवां लोक एतदिच्छामि वेदितुम् ॥ १३.१२९.१२ ॥
尊贵的祖父啊,为何诸天神与世界之主如此?我想知道:牛的世界在上方。
13.129.13
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर ।
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ १३.१२९.१३ ॥
主啊,牛在此行了什么苦行或梵行,才能在诸天之上无欲而安乐地居住?
13.129.14
ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम् ।
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन ॥ १३.१२९.१४ ॥
于是梵天对击杀波罗的帝释天说:「击杀波罗者啊,你一直轻视牛。」
13.129.15
तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो ।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ १३.१२९.१५ ॥
因此你不知道它们的伟大。主啊,请听:牛的至高威力与尊严,诸天中的最优者啊。
13.129.16
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।
एताभिश्च विना विज्ञो न वर्तेत कथञ्चन ॥ १३.१२९.१६ ॥
婆娑婆啊,牛被说成是祭祀的支分,实际上它们就是祭祀本身。没有它们,智者无论如何也无法生存。
13.129.17
धारयन्ति प्रजाश्चैताः पयसा हविषा तथा ।
एतासां तनयाश्चापि कृषियोगमुपासते ॥ १३.१२९.१७ ॥
这些牛以乳与酥油养育众生,它们的子孙也从事耕作之事。
13.129.18
जनयन्ति च धान्यानि बीजानि विविधानि च ।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ १३.१२९.१८ ॥
它们生出各种谷物与种子,由此祭祀得以进行——供奉诸神的哈维亚与供奉祖先的卡维亚,都以各种方式奉上。
13.129.19
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप ।
वहन्ति विविधान्भोगान्क्षुत्तृष्णापरिपीडिताः ॥ १३.१२९.१९ ॥
牛奶、凝乳与酥油——诸神之主啊,这些神圣的牛为饥渴所苦的众生带来种种供养。
13.129.20
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च ॥ १३.१२९.२० ॥
这些牛凭其行为也在此承载着仙人与众生;婆娑啊,它们无欺地承载,以其业行与善行而如此。
13.129.21
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ।
एतत्ते कारणं शक्र निवासकृतमध्य वै।
गावो देवोपरिष्टाद्धि समाख्याताः शतक्रतो ॥ १३.१२९.२१ ॥
此后,它们常居于我们之上;帝释啊,这便是你的缘由。百祭之主啊,据说牛居于诸神之上。
13.129.22
एता हि वरदत्ताश्च वरदाश्चापि वासव ।
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ १३.१२९.२२ ॥
这些牛既是被赐予的恩惠,也是施予恩惠者;婆娑啊,苏罗毗牛行善业,清净,具吉祥之相。
13.129.23
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम ।
तच्च मे शृणु कार्स्न्येन वदतो बलसूदन ॥ १३.१२९.२३ ॥
诸神中最胜者啊,苏罗毗牛降临牛群的缘由,击败波罗者啊,请听我完整叙述。
13.129.24
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु ।
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥ १३.१२९.२४ ॥
孩子啊,往昔诸神之时代,当伟大的达蒂亚之主统治三界,毗湿奴已入于胎中之状态时……
13.129.25
अदित्यां तप्यमानायां तपो घोरं सुदुश्चरम् ।
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥ १३.१२९.२५ ॥
诸神中最杰出者啊,阿底提为求子而行可怕且极为艰难的苦行,始终单脚站立。
13.129.26
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ।
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ १३.१२९.२६ ॥
她见那位大女神正行大苦行,达刹之女名为苏罗毗的女神……
13.129.27
अतप्यत तपो घोरं हृष्टा धर्मपरायणा ।
कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥ १३.१२९.२७ ॥
她欣然奉行法道,在为诸天神与乾闼婆所侍奉的美丽的冈仁波齐山峰上,开始了可怕的苦行。
13.129.28
व्यतिष्ठदेकपादेन परमं योगमास्थिता ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ १३.१२९.२८ ॥
她修习至上瑜伽,单脚站立一万年,又加一千年。
13.129.29
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ।
तत्र गत्वा मया सार्धं पर्युपासत तां शुभां ॥ १३.१२९.२९ ॥
诸天神、仙人与大蛇因她的苦行而苦恼,便与我一同前往那里,侍奉那位吉祥的女神。
13.129.30
अथाहमब्रवं तत्र देवीं तां तपसाऽन्विताम् ।
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते ॥ १३.१२९.३० ॥
于是我对那位具足苦行的女神说:女神啊,无瑕的女神,你为了什么目的行这可怕的苦行?
13.129.31
प्रीतस्तेऽहं महाभागो तपसाऽनेन शोभने ।
वरयस्व वरं देवि दातास्मीति पुरन्दर ॥ १३.१२९.३१ ॥
尊贵的女神啊,光辉的女神,我因你的苦行而喜悦。请选择一个恩赐吧,女神;我是赐予恩赐的人,因陀罗(破城者)如是说。
13.129.32
वरेण भगवन्मह्यं कृतं लोकपितामह ।
एष एव वरो मेऽद्य यत्प्रीतोसि ममानघ ॥ १३.१२९.३२ ॥
尊贵的世界之祖啊,因您的恩赐,我的心愿已成。无罪的您啊,今日我所得的恩赐正是:您对我心生欢喜。
13.129.33
तामेव ब्रुवतीं देवीं सुरभिं त्रिदशेश्वर ।
प्रत्यब्रवं यद्देवेन्द्र तन्निबोध शचीपते ॥ १३.१२९.३३ ॥
三十三天之主啊,当女神苏罗毗如此说话时,我所作的回答,请听——天神之王、舍遮之夫啊。
13.129.34
अलोभकाम्यया देवि तपसा शुचिना च ते ।
प्रसन्नोऽहं वरं तस्मादमरत्वं दादामि ते ॥ १३.१२९.३४ ॥
女神啊,我因你无贪的心愿和纯净的苦行而欢喜,故赐你不死的恩赐。
13.129.35
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि ।
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति ॥ १३.१२९.३५ ॥
你将居于三界之上;因我的恩典,将诞生一个名为“牛界”(Goloka)的著名世界。
13.129.36
मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव ।
निवत्स्यन्ति महाभागो सर्वा दुहितरश्च ते ॥ १३.१२९.३६ ॥
尊贵的女神啊,你在人间行善的子孙,以及你所有的女儿,都将住在那里。
13.129.37
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः ।
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ॥ १३.१२९.३७ ॥
吉祥的女神啊,你心中所想的天上与人间的享乐,以及天界的快乐,都将属于你。
13.129.38
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः ।
न तत्र क्रमते मृत्युर्न जरा न च पावकः।
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ॥ १३.१२९.३८ ॥
千眼的因陀罗啊,那些世界充满一切所愿。死亡不能进入那里,衰老也不能,火也不能;那里没有困苦,也没有任何不吉之事,婆薮啊。
13.129.39
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ।
विमानानि सुयुक्तानि कामगानि च वासव ॥ १३.१२९.३९ ॥
那里有神圣的森林和神圣的宫殿,还有装备精良、随心所欲而行的天车,婆薮啊。
13.129.40
ब्रह्मचर्येण तपसा सत्येन च दमेन च ।
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ॥ १३.१२९.४० ॥
通过梵行、苦行、真实与自制,通过各种布施与功德之行,以及亲近圣地(朝圣之处),便可得到。
13.129.41
तपसा महता चैव सुकृतेन च कर्मणा ।
शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ १३.१२९.४१ ॥
唯有以大苦行和善行,才能到达牛界(戈洛迦),莲眼者啊。
13.129.42
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ।
न ते परिभवः कार्यो गवामसुरसूदन ॥ १३.१२९.४२ ॥
帝释天啊,你所问的,我都已告诉你了。摧伏阿修罗者啊,你不可轻慢牛群。
13.129.43
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा ।
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ १३.१२९.४३ ॥
因陀罗(千眼者)闻此之后,总是礼敬它们;般度之子,他始终非常尊重那些母牛。
13.129.44
एतत्ते सर्वमाख्यातं पावनं च महाद्युते ।
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम्। ॥ १३.१२९.४४ ॥
光辉者啊,这一切都已为你讲述:牛的威德清净、神圣、至上,最为尊贵。
13.129.45
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम् ।
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ॥ १३.१२९.४५ ॥
人中之虎啊,此乃被赞颂为能脱离一切罪业者:凡以专注之心,常向婆罗门诵说此篇的人。
13.129.46
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते ॥ १३.१२९.४६ ॥
在供奉神灵与祖先的献祭中、在祭祀中以及在祖先的祭仪中,可得满足一切愿望的不灭之果;他的祖先来到他的身边侍立。
13.129.47
गोषु भक्तश्च लभते यद्यदिच्छति मानवः ।
स्त्रियोपि भक्ता या गोषु ताश्च काममवाप्नुयुः ॥ १३.१२९.४७ ॥
敬奉牛的人,所求皆可得到;敬奉牛的女子也同样能得到她所求的。
13.129.48
पुत्रार्थीं लभते पुत्रं कन्यार्थी तामवाप्नुयात् ।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥ १३.१२९.४८ ॥
求子者得子,求女者可得女;求财者得财,求法者可得法。
13.129.49
विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् ।
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ १३.१२९.४९ ॥
求学者得学问,求乐者得快乐。婆罗多啊,对于敬奉牛的人来说,没有什么是难以获得的。