摩诃婆罗多 · 章 13.132
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.132.1
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् ।
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ १३.१३२.१ ॥
罗摩啊,我以前也曾听闻这关于梵的显现的故事,即祖父梵天、至高自我的事迹。
13.132.2
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् ।
ऐश्वर्ये वारुणेवाऽथ रुद्रस्येशस्य वै प्रभो ॥ १३.१३२.२ ॥
孩子啊,伟大的神身披水性之躯;在主宰之力上他如同婆罗那,实如自在主湿婆罗陀,主啊。
13.132.3
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः ।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ १३.१३२.३ ॥
众仙人与以火神为首的诸天都来了;祭祀的一切支分都来了,具象化的吠舍哆迦罗也来了。
13.132.4
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ १३.१३२.४ ॥
具象的娑摩歌与成千上万的夜柔诗句都来了;梨俱吠陀也来了,以词句与次第诵读来庄严。
13.132.5
लक्षणानि स्वरास्तोभा निरुक्ताः स्वरभक्तयः ।
ओंकारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥ १३.१३२.५ ॥
语法标记、声调、赞叹音节、词源解释、声调分段,唱诵之眼即唵字(为诗律之目),以及止与引。
13.132.6
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च ।
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥ १३.१३२.६ ॥
吠陀连同奥义书,知识,也有萨维特丽;过去、现在与未来,吉祥的湿婆承载着。
13.132.7
संजुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो ।
यज्ञं च शोभयामास बहुरूपं पिनाकधृत् ॥ १३.१३२.७ ॥
主啊,那时他自己将自己献为祭品,手持毗那迦弓、具有多种形相的湿婆装饰了祭祀。
13.132.8
द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः ।
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः ॥ १३.१३२.८ ॥
天、虚空、大地与空间也都是他;这位大地之主是一切学问的主宰、光荣者,他也是毗婆沙,即火。
13.132.9
एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः ।
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः ॥ १३.१३२.९ ॥
此神被称为梵天、湿婆、楼陀罗、伐楼那、阿耆尼和生主;世尊天神、众生之主,被称为湿婆。
13.132.10
तस्य यज्ञः पशुपतेस्तपः क्रतव एव च ।
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥ १३.१३२.१० ॥
他的祭祀、畜主的苦行与各种祭礼也是他;受戒、持光辉誓愿的女神、诸方以及方位守护者也是他。
13.132.11
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः ।
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह।
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ॥ १३.१३२.११ ॥
众神的妻子、少女和众神之母也一同来到那里;婆利古族中最优秀者啊,她们因畜主的祭祀而欢喜,前来参加伟大之魂伐楼那的祭祀。
13.132.12
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥ १३.१३२.१२ ॥
然而,自生者(梵天)见到她们时,他的精液落到了大地上。
13.132.13
तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः ।
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ १३.१३२.१३ ॥
普沙用双手把那精液的滴落之物连同地上的尘土收集起来,投入那同一堆祭火之中。
13.132.14
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके ।
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूवह ॥ १३.१३२.१४ ॥
那时,祭祀正在进行,祭火熊熊燃烧,梵天在那里献上供品,那里便出现了一个显现。
13.132.15
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः ।
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन ॥ १३.१३२.१५ ॥
那刚刚洒落的精液,他用勺子取起,像酥油一样配合咒语献入火中,哦,婆利古之子。
13.132.16
ततः स जनयामास भूतग्रामं च वीर्यवान् ।
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ १३.१३२.१६ ॥
于是那大力者产生了众生,从他那光辉中,在诸世界里生出了火性之元素。
13.132.17
तमसस्तामसा भावा व्यापि सत्वं तथोभयम् ।
स गुणस्तेजसो नित्यं तमस्याकाशमेव च।
सर्वभूतेषु च तथा सत्वं तेजस्तथोत्तमम् ॥ १३.१३२.१७ ॥
暗性的诸状态来自黑暗,遍布的善性与二者同等;火的那种性质永远存在于黑暗与虚空之中;而在一切众生中,善性与光明同样是至上的。
13.132.18
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ।
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः ॥ १३.१३२.१८ ॥
那精液投入火中之时,哦,主啊,那里显现了三位人,他们具有身体,并具有各自由其起源所生的性质。
13.132.19
भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराऽभवत् ।
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्।
सह ज्वालाभइरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ १३.१३२.१९ ॥
因烘烤而得名婆由,从余烬中生出安耆罗;因依托余烬,另一位成为迦维。与火焰一同诞生,故被称为婆由。
13.132.20
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् ।
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात् ॥ १३.१३२.२० ॥
从摩利支中生出摩利支,摩利支之子成为迦叶波。孩子,从安古的水中生出安耆罗,从一堆吉祥草中生出伐罗迦利尔亚。
13.132.21
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ १३.१३२.२१ ॥
啊,大能者,那在'就在此,就在此'声中降生者,也被称为阿特里。
13.132.22
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः ।
वैखानसाः समुत्पन्नास्तपः श्रुतगुणेप्सवः ॥ १३.१३२.२२ ॥
同样,因抖落灰烬而生出维卡纳萨,受梵仙众所认可,渴望苦行与学问之德。
13.132.23
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ ।
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे।
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः ॥ १३.१३२.२३ ॥
从他生出阿输路多;两位以美貌受称许的双马童降生。其余众生之主从他的脉道中生出。从毛孔中生出仙人,从汗中生出韵律,从力量中生出意。
13.132.24
एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः ।
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥ १३.१३२.२४ ॥
因此人们称一切天神为阿耆尼;诸仙因见吠陀的权威而具足圣学。
13.132.25
यानि दारूणि निर्यासास्ते मासाः पक्षसंज्ञिताः ।
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम् ॥ १३.१३२.२५ ॥
所谓木与其树脂者,即名为半月的月份;昼夜与须臾,以及“光逝”与伐楼那之分。
13.132.26
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् ।
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ १३.१३२.२६ ॥
称楼陀罗为赤色;由赤色可知为金;应知此即弥多罗;由烟则记起诸婆苏。
13.132.27
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः ।
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ १३.१३२.२७ ॥
自火焰而生的楼陀罗,同样大光明的阿底提耶;以及那些燃烧的炭火,它们立于天上的火坛之中。
13.132.28
अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम् ।
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन् ॥ १३.१३२.२८ ॥
阿耆尼是世界之主;那是至高的梵,那是大地;人们说他能成就一切愿望;在那里他们运送了供物。
13.132.29
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः ।
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ १३.१३२.२९ ॥
于是,以风为本体的大天神伐楼那说:此乃我的神圣祭会;在此我即是家主。
13.132.30
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।
इति जानीत खगमा मम यज्ञफलं हि तत् ॥ १३.१३२.३० ॥
我先前有三个子嗣,这无疑;诸鸟啊,请知道:那正是我祭祀的果实。
13.132.31
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ।
ममैव तान्मपत्यानि मम शुक्लं हुतं हि तत् ॥ १३.१३२.३१ ॥
它们生于我的肢体,依靠于我而成。它们确是我的子嗣,因为我的精液已在其中被献祭。
13.132.32
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः ।
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत् ॥ १३.१३२.३२ ॥
于是世界之师、世界之祖梵天说:它们确是我的子嗣,因为我的精液已在其中被献祭。
13.132.33
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह ।
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ १३.१३२.३३ ॥
我即是咒语的诵唱者,也是精液的祭司。种子属于谁,果实便属于谁;若以精液为因...
13.132.34
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै ।
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ १३.१३२.३४ ॥
于是诸天神众走近祖父,合掌致敬,低首礼拜后说道。
13.132.35
वयं च भगवन्सर्वे जगच्च सचराचरम् ।
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः।
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ १३.१३२.३५ ॥
尊者啊,我们众神与这包括动与不动的整个世界,皆是您的子嗣。因此愿火神毗婆娑与主宰之神伐楼那得偿所愿。
13.132.36
निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः ।
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम् ॥ १३.१३२.३६ ॥
凭梵天的自然之权,水族之主伐楼那曾收养如太阳般光辉的婆利古为自己的子嗣。
13.132.37
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत् ।
पितामहस्त्वपत्यं वैकविं जग्राह तत्त्ववित् ॥ १३.१३२.३७ ॥
主宰者任命安吉罗娑为火神的后裔,知晓真理的祖父则收养了伐迦维为子。
13.132.38
तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् ।
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः।
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥ १३.१३२.३८ ॥
那时,伐樓那之子著名的婆利古担任生育之事;火神之子吉祥的安吉罗娑与梵天之子大名的迦维。世间的婆利古与安吉罗娑,乃是诸界子嗣的标志。
13.132.39
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः ।
सर्वं सन्तानमेतेषामिदमित्युपधारय ॥ १३.१३२.३९ ॥
这些最上等的婆罗门,三者皆为众生之主。应当明白,这便是他们的子嗣。
13.132.40
भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः ।
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥ १३.१३२.४० ॥
婆利古有七子,皆与婆利古德性相等:遮婆那、金刚头、清净,以及同样的嚧缚。
13.132.41
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ।
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ १३.१३२.४१ ॥
首陀罗、婆罗尼耶、毗布与萨伐那,此为七子。他们都是婆利古之裔与伐楼那之子,而你也在他们的血脉之中。
13.132.42
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः ।
बृहस्पतिरुचथ्यश्च वयस्यः शान्तिरेव च ॥ १३.१३२.४२ ॥
安吉罗娑有八子;他们既是伐楼那之子,又不是伐楼那之子:布利诃斯帕提、乌恰提亚、瓦雅萨,以及寂静。
13.132.43
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ।
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ १३.१३२.४३ ॥
惡(Ghora)、毗噜波(Virūpa)、桑伐多(Saṃvarta)以及第八位须檀婆(Sudhanvan)被记述。这八位皆生于火,安住于智慧,无病无苦。
13.132.44
ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः ।
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ १३.१३२.४४ ॥
婆罗门中的迦维之子也被称为伐楼那之子;他们同样是八位,具备由其世系而来的德性,通晓梵,且吉祥。
13.132.45
कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा ।
भृगुश्च वरुणश्चैव काश्यपोऽग्निश्च धर्मवित् ॥ १३.१३२.४५ ॥
迦维(Kavi)、迦维耶(Kāvya)、毗湿奴、智慧的乌奢那斯(Uśanas)、婆利古(Bhṛgu)、伐楼那(Varuṇa)、迦叶波(Kāśyapa)与阿耆尼(Agni)——通晓法者。
13.132.46
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् ।
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ १३.१३२.४६ ॥
这八位皆是迦维之子;整个世界由他们遍布。他们即是生主(Prajāpati),由他们产生了这些众生。
13.132.47
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः ।
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ १३.१३२.४७ ॥
如此,世界持续地由安吉罗斯与迦维的后裔及其世系所充满,也由婆利古的后裔所充满,啊,婆利古中的猛虎。
13.132.48
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः ।
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ ॥ १३.१३२.४८ ॥
啊,婆罗门,起初,主宰者伐楼那收纳了迦维,亲爱的孩子,也收纳了婆利古;因此这二人被称为伐楼那之子。
13.132.49
जग्राहाङ्गिरसं देवः शिखी तस्माद्भुताशनः ।
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः ॥ १३.१३२.४९ ॥
神祇湿乞丽(阿耆尼)接纳了安吉罗娑;由此生出布塔沙那。由此,所有人都应被视为安吉罗娑,以及其后裔。
13.132.50
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः ।
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥ १३.१३२.५० ॥
往昔,诸神使祖父梵天欢喜;这些世界之主将与其子孙一起引导我们渡过。
13.132.51
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः ।
त्वत्प्रसादादिमं लोकं धारयिष्यन्ति शाश्वतं ॥ १३.१३२.५१ ॥
他们皆为众生之主,皆极具苦行;凭你的恩典,他们将维持这永恒的世界。
13.132.52
तथैव वंशकर्तारस्तव तेजोविवर्धनाः ।
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा ॥ १३.१३२.५२ ॥
同样,愿那些开创宗族、增益你光辉的人,皆通晓吠陀,皆有成就。
13.132.53
देवपक्षचराः सौम्याः प्राजापत्या महर्षयः ।
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥ १३.१३२.५३ ॥
那些行于诸神一侧的温良大仙,乃生主之子,将在大地上护持无限的梵、真理与无上苦行。
13.132.54
सर्वे हि वयमेते च तवैव प्रसवाः प्रभो ।
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ १३.१३२.५४ ॥
主啊,我们众人与这些人,皆是你的后裔。你确是诸神与婆罗门的创造者,祖父啊。
13.132.55
मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः ।
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥ १३.१३२.५५ ॥
从摩利支开始,视所有婆利古为后裔,我们请求你的宽恕,祖父啊。
13.132.56
अथ स्वेनैव रूपेणि प्रजनिष्यन्ति वै प्रजाः ।
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ १३.१३२.५६ ॥
于是他们将以自身之形生养众生,并同样在诸劫的开始与终结时安立自身。
13.132.57
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः ।
ततेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् ॥ १३.१३२.५७ ॥
众生之祖梵天被他们如此请求,欣然说道:“就这样吧。”他们也循原路返回了。
13.132.58
एवमेतत्पुरावृत्तं तस्य यज्ञे महात्मनः ।
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥ १३.१३२.५८ ॥
这是古老的故事:那位大智慧、诸神之首,在祭祀中,于世界之初身负婆鲁那之身。
13.132.59
अग्निर्ब्रह्म पशुपतिः शर्वो रुद्रः प्रजापतिः ।
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणाः ॥ १३.१३२.५९ ॥
火、梵、畜主、湿婆、楼陀罗、生主——这些都是火神之子;因此金子也被视为火神之子。
13.132.60
अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम् ।
जामदग्न्यप्रमाणज्ञो वेदश्रुतिनिदर्शनात् ॥ १३.१३२.६० ॥
若无火,则以金子置于火的位置;知晓甚达尼之权威者,依吠陀天启的明证如此行之。
13.132.61
कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते ।
वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे ॥ १३.१३२.६१ ॥
他在吉祥草丛上、在置于其上的黄金上向火中献祭;在蚁穴的脂肪中,以及马的右耳中。
13.132.62
शकटोर्व्या परस्याप्सु ब्राह्मणस्य करे तथा ।
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥ १३.१३२.६२ ॥
在车轮的边缘、在他人的水中,以及同样在婆罗门手中;献上供物时,世尊认为那里有令人喜悦的兴盛。
13.132.63
तस्मादग्निपराः सर्वे देवता इति शुश्रुम ।
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम् ॥ १३.१३२.६३ ॥
因此我们听说,诸神皆以阿耆尼为先;火自梵而昌盛,黄金也出于火。
13.132.64
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः ।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ १३.१३२.६४ ॥
因此我们听说,凡通晓法者施予黄金,诸神皆会赐予他们。
13.132.65
तस्य वा तपसो लोकान्गच्छतः परमां गतिम् ।
स्वर्लोके राजराज्येन सोभिषिच्येत भार्गव ॥ १३.१३२.६५ ॥
凭借他的苦行,或前往诸界并达到至高之道,他将在天界以王权受灌顶,婆利古之子啊。
13.132.66
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् ।
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः ॥ १३.१३२.६६ ॥
日出之时,若依仪轨与咒语布施黄金,便能消除恶梦。
13.132.67
ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते ।
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ १३.१३२.६७ ॥
在太阳刚升起时布施者,其罪便被抖落;在中午布施黄金者,连尚未到来的罪也能消除。
13.132.68
ददाति पस्चिमां सन्ध्यां यः सुवर्णं यतव्रतः ।
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ १३.१३२.६८ ॥
持守誓愿者在西方黄昏布施黄金,便能与梵天、风神、火神和月神同住一界。
13.132.69
सेन्द्रेषु चैव लोकेषु प्रतिष्ठा विन्दते शुभाम् ।
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते ॥ १३.१३२.६९ ॥
与因陀罗同在的诸界中,他获得吉祥的地位;在此世赢得名声,罪业平息,便欢喜自在。
13.132.70
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा ।
अनावृतगतिश्चैव कामचारो भवत्युत ॥ १३.१३२.७० ॥
此后在其他诸界,他永远无可比拟;其行动无所阻碍,成为随意往来之人。
13.132.71
न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत् ।
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान् ॥ १३.१३२.७१ ॥
他不会从那些世界坠落,也获得大名;布施不灭的黄金,便得以进入丰饶的诸界。
13.132.72
यस्तु सञ्जनयित्वाऽग्निमादित्योदयनं प्रति ।
दद्याद्वै व्रतमुद्दिश्य सर्वकामान्समश्नुते ॥ १३.१३२.७२ ॥
若点燃火焰,于日出时为履行誓愿而布施,便能圆满享受一切所愿。
13.132.73
अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम् ।
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम् ॥ १३.१३२.७३ ॥
阿耆尼说:这被称为布施,能带来幸福。具备所愿之德,被认为能产生善果。
13.132.74
एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ ।
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन ॥ १३.१३२.७४ ॥
阿耆尼说:无瑕者啊,我已把黄金的起源告诉你了。威力广大者啊,关于迦尔提开耶也请知晓,婆利古之子啊。
13.132.75
कार्तिकेयस्तु संवृद्धः कालेन महता तदा ।
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह ॥ १३.१३२.७५ ॥
阿耆尼说:迦尔提开耶那时经过很长时间长大了。婆利古之最优者啊,诸天与因陀罗一同推举他为统帅。
13.132.76
जघान तारकं चापि दैत्यमन्यांस्तथाऽसुरान् ।
त्रिदशेन्द्राज्ञया ब्रह्मँल्लोकानां हितकाम्यया ॥ १३.१३२.७६ ॥
阿耆尼说:遵从天主之命,婆罗门啊,他为求诸界之福,杀死了檀那婆Tāraka及其他阿修罗。
13.132.77
सुवर्णदाने च मया कथितास्ते गुणा विभो ।
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ तदतांवर ॥ १३.१३२.७७ ॥
阿耆尼说:威力广大者啊,我已把布施黄金的功德告诉你了。因此,强者中的最优者啊,请把那黄金施予婆罗门。
13.132.78
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् ।
ददौ सुवर्णं विप्रभ्यो व्यमुच्यत च किल्बिषात् ॥ १३.१३२.७८ ॥
毗湿摩说:婆私吒如此劝告之后,威力的遮摩陀尼之子(婆罗舍罗摩)将黄金施予婆罗门,从罪业中解脱。
13.132.79
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते ।
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर ॥ १३.१३२.७९ ॥
地上之主啊,关于黄金的这一切,布施的果报以及它的来历,我都已对你讲述,坚战啊。
13.132.80
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुः ।
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ १३.१३२.८० ॥
因此你也应当向婆罗门布施大量黄金;国王啊,施舍黄金,你将从罪恶中解脱。