Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.133

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.133.1

उक्ताः पितामहेनेह सुवर्णस्य विधानतः ।
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ १३.१३३.१ ॥

此处祖父依照金的规定,详细讲述了布施的功德,这些功德见于天启圣典。

13.133.2

यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम् ।
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥ १३.१३३.२ ॥

金之起源的原因已被说明;那位塔拉迦是如何死去的?请告诉我。

13.133.3

उक्तं स दैवतानां हि अवध्य इति पार्थिव ।
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय ॥ १३.१३३.३ ॥

国王啊,据说他是诸神不可杀害的;那么他的死是如何发生的?请详细讲述。

13.133.4

एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह ।
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ १३.१३३.४ ॥

库鲁族的支柱啊,我想从您这里听完整的塔拉迦被杀之事,我心中极为好奇。

13.133.5

विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा ।
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ १३.१३३.५ ॥

王中之主啊,诸神与仙人因事未成,便催促昴宿女们抚养这个孩子。

13.133.6

न देवतानां काचिद्धि समर्था जातवेदसः ।
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा ॥ १३.१३३.६ ॥

诸神之中无人能承载火神(迦陀吠陀)那胎儿;唯有这些女子能以her力量承载那胎。

13.133.7

षण्णां तासां ततः प्रीतः पावको गर्भधारणात् ।
स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ १३.१३३.७ ॥

于是,见六位承载胎儿,火神欢喜,以自身的光辉与至上威力相助。

13.133.8

तास्तु षट् कृत्तिका गर्भं पुपुषुर्जातवेदसः ।
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥ १३.१३३.८ ॥

那六位迦尔提迦女养育了那胎,主啊;遍布迦叶火神的全部光辉被安放于六条道路之中。

13.133.9

ततस्ता वर्धमानस्य कुमारस्य महात्मनः ।
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥ १३.१३३.९ ॥

于是,她们的身体被那渐渐长大的大德少年的光辉所包围,却无处得到安宁。

13.133.10

ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते ।
समं गर्भं सुषुविरे कृतिकास्ता नरर्षभ ॥ १३.१३३.१० ॥

于是,身体被光辉所环绕的众迦尔提迦女,在时候到来时,一同诞下了那胎儿,哦人中之牛。

13.133.11

ततस्तं ष॰धिष्ठानं गर्भमेकत्वमागतम् ।
पृथिवी प्रतिजग्राह कृत्तिकानां समीपतः ॥ १३.१३३.११ ॥

于是,大地从迦尔提迦女身旁接纳了那已合为一体的……胎儿。

13.133.12

स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः ।
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ १३.१३३.१२ ॥

那胎儿具有神圣的形体,光辉灿烂如火,抵达神圣的芦苇丛中并成长起来,令人见之欣喜。

13.133.13

ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम् ।
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्तविस्रवैः ॥ १३.१३३.१३ ॥

昴宿诸女见那孩子光辉如日,心生爱念,出于亲厚之情,便以从乳房流出的乳汁哺育他。

13.133.14

अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे ।
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत् ॥ १३.१३३.१४ ॥

他在三界之中、连同动与不动之物,成为迦利迦亚(室建)。因溢出而得名塞建陀,因居于洞穴而成为古诃。

13.133.15

ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः ।
रुद्रो धाता च विष्णुश्च यमः पूषाऽर्यमा भगः ॥ १३.१३३.१५ ॥

随后来了三十三位天神、诸方及方位守护之主,还有楼陀罗、达陀、毗湿奴、阎摩、补沙、阿利耶曼与薄伽。

13.133.16

अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ ।
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ १३.१३३.१६ ॥

分(Aṃśa)、弥多罗、萨陀耶诸神、婆娑婆(因陀罗)、诸婆苏、双阿输那、水、风、虚空、月、诸星宿、行星与太阳。

13.133.17

पृथग्भूतानि चान्यानि यानि देवगणानि वै ।
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम् ॥ १३.१३३.१७ ॥

其余各自独立的诸天众也都来了,为要目睹这位奇妙的少年、火神之子。

13.133.18

ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ।
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम् ॥ १३.१३३.१८ ॥

诸仙人赞颂他,乾闼婆也同样歌唱;他们赞美这位六面十二目、为再生者所爱的少年。

13.133.19

पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ।
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः।
लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥ १३.१३३.१९ ॥

诸神与仙人见他宽肩十二臂,光如火与日,卧于芦苇丛中,遂生至上喜悦,以为阿修罗已被杀死。

13.133.20

ततो देवाः प्रियाण्यस्य सर्व एव समाहरन् ।
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ १३.१३३.२० ॥

于是诸神都汇集他所喜爱之物,并把玩具与成群的鸟赠予正在嬉戏的他。

13.133.21

सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम् ।
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ १३.१३३.२१ ॥

金翅鸟赠予他其子,一只羽毛斑斓的孔雀;罗刹们则赠予他一头野猪与一头水牛。

13.133.22

कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम् ।
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ १३.१३३.२२ ॥

阿嚕那亲自赠予一只如火般的公鸡;月神赠予一只公羊;日神赠予可爱的光辉。

13.133.23

गवां माता च गा देवी ददौ शतसहस्रशः ।
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥ १३.१३३.२३ ॥

母牛之母女神赠予他数十万头母牛;火神赠予一只具足善德的山羊;伊罗赠予大量花朵与果实。

13.133.24

सुधन्वा शकटं चैव रथं चाञ्चितकूबरम् ।
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान् ॥ १३.१३३.२४ ॥

苏陀那赠予他一辆车与一辆辖柄弯曲的战车;伐楼那赠予神圣吉祥的水族,并有象群。

13.133.25

सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च दंष्ट्रिणः ।
श्वापदांश्च बहून्घोराञ्शस्त्राणि विविधानि च ॥ १३.१३३.२५ ॥

诸神之主赐予狮子、老虎、大象、其他有獠牙的动物、许多凶猛的猛兽以及各种兵器。

13.133.26

राक्षसासुरसङ्घाश्च अनुजग्मुस्तमीश्वरम् ॥ १३.१३३.२६ ॥

罗刹与阿修罗的众队也随那位主宰而行。

13.133.27

वर्धमानवधोपायं प्रार्थयामास तारकः ।
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ १३.१३३.२७ ॥

塔拉卡求取杀死日益成长之主的方法;虽用多种方法,却不能杀死那位威能者。

13.133.28

सैनापत्येन तं देवाः पूजयित्वा गुहालयम् ।
शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥ १३.१३३.२८ ॥

诸神以统帅之职尊奉居于洞穴者,并向他诉说塔拉卡所造成的伤害。

13.133.29

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः ।
जघानामोघया शक्त्या दानवं तारकं गुहः ॥ १३.१३३.२९ ॥

那位长成的大力诸神军统帅主宰古诃,以不失之矛杀死了檀那婆塔拉卡。

13.133.30

तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे ।
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ १३.१३३.३० ॥

当那位少年嬉戏间杀死那阿修罗后,诸神之主被重新安置于天界王位,再次成为诸神的主宰。

13.133.31

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् ।
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ॥ १३.१३३.३१ ॥

此时,统帅、威严的室建陀光彩焕发,他是诸神的主宰和护卫,是湿婆所喜爱的人。

13.133.32

हिरण्यमूर्तिर्भगवानेव एव च पावकिः ।
सदा कुमारो देवानां सैनापत्यमवाप्तवान् ॥ १३.१३३.३२ ॥

金色之身的世尊、火神之子、常童室建陀,获得了诸神大军的统帅之职。

13.133.33

तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् ।
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ १३.१३३.३३ ॥

因此黄金吉祥、不朽,是最上的珍宝;人们认为它是室建陀与火神固有的光辉。

13.133.34

एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा ।
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥ १३.१३३.३४ ॥

俱卢子孙啊,昔日婆罗门仙人伐悉吒曾这样对罗摩说;因此,人主啊,你应努力布施黄金。

13.133.35

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः ।
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ १३.१३३.३५ ॥

罗摩布施黄金后,脱离了一切罪恶,在天界获得了人类难以到达的伟大居所。