Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.134

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.134.1

चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया ।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥ १३.१३४.१ ॥

正法之魂啊,正如您宣说四种姓的法,也请为我完整讲述祭祖(śrāddha)之仪轨,国王啊。

13.134.2

युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा ।
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे ॥ १३.१३४.२ ॥

被如此询问后,珊塔努之子毗湿摩便开始讲述这整套祭祖仪轨。

13.134.3

शृणुष्वावहितो राजञ्श्राद्धकर्मविधिं शुभम् ।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ॥ १३.१३४.३ ॥

国王啊,请专心聆听这套吉祥的祭祖仪轨规则,它带来财富、名望与子嗣;这是对祖先的祭祀,啊,敌人的焚烧者。

13.134.4

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
पिशाचकिन्नराणां च पूज्या वै पितरः सदा ॥ १३.१३४.४ ॥

无论是天神、阿修罗、人类,还是乾闼婆、龙蛇、罗刹,乃至毕舍遮与紧那罗,祖先永远都值得敬拜。

13.134.5

पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै ।
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्सदा ॥ १३.१३४.५ ॥

先供养祖先,然后才使诸神得到满足;因此人应当始终竭尽全力地供奉他们。

13.134.6

अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते ।
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः ॥ १३.१३४.६ ॥

伟大的国王啊,在日常仪式之后为祖先所做的供奉称为祭祖(śrāddha);因此这一规则最初便是以特殊的方式确立的。

13.134.7

सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्।
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ॥ १३.१३४.७ ॥

若在每日行祭祀(śrāddha),祖先便会欢喜。皮达安瓦哈里亚(piṇḍa-anvāhārya)祭祀应每月举行。完成对祖先的祭祀后,持有圣火的婆罗门应在月亏之时(行此礼)。

13.134.8

पिण्डानां मासिकश्राद्धमन्वाहार्यं विदुर्बुधाः ।
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिः शुचिः ॥ १३.१३४.८ ॥

智者称以供饼(piṇḍa)举行的每月祭祀为阿瓦哈里亚(anvāhārya)。应以肉供养,克制自己,合掌,保持清净。

13.134.9

प्रवक्ष्यामि तु ते सर्वांस्तिथ्यांतिथ्यां दिने गुणान् ।
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ।
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥ १३.१३४.९ ॥

无罪者啊,我将依照太阴日及其分段,为你说明每日的功德。在这些日子所行祭祀(śrāddha)所得之果,我将如实讲述;请从我这里听取。

13.134.10

पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः ।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥ १३.१३४.१० ॥

在初一日礼敬祖先,人便能在自家得到能生育美貌子嗣、令人悦目、多子多孙的妻子。

13.134.11

स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः ।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥ १३.१३४.११ ॥

二日得妻子;三日得马匹。四日家中小牲畜大量增多。

13.134.12

पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप ।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥ १३.१३४.१२ ॥

国王啊,在第五日行祭的人会生许多儿子;在第六日行祭的人会分享光辉。

13.134.13

कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप ।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥ १३.१३४.१३ ॥

国王啊,在第七日行施食祭的人成为农事的分享者;而在第八日行祭的人在贸易中获利。

13.134.14

नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु ।
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥ १३.१३४.१४ ॥

在第九日行祭者,会有许多单蹄的牲畜;在第十日行祭者,其牛群繁衍增长。

13.134.15

कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥ १३.१३४.१५ ॥

国王啊,在第十一日行祭的凡人成为财物的分享者,他的家中生出具有婆罗门光辉的儿子。

13.134.16

द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते ।
रजतं बहुवित्तं च सुवर्णं च मनोरमम् ॥ १३.१३४.१६ ॥

在第十二日努力行事的人,总能看到白银、大量财富和令人愉悦的黄金。

13.134.17

ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् ॥ १३.१३४.१७ ॥

在第十三日行祭的人,在亲属中成为最优秀者。

13.134.18

अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ।
युद्धभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं चतुर्दशीम् ॥ १३.१३४.१८ ॥

此家中的年轻人必定会死去。在第十四日行祭祀(śrāddha)的凡人,会成为战争的参与者。

13.134.19

अमावास्यां तु निवपन्सर्वकामानवाप्नुयात् ॥ १३.१३४.१९ ॥

在新月日献祭者,能获得一切愿望。

13.134.20

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः ॥ १३.१३४.२० ॥

在黑半月中,从第十日起,除去第十四日,其余月日被赞为适宜行祭祀(śrāddha)之仪;其他日子则不然。

13.134.21

यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ १३.१३४.२१ ॥

正如后半月胜过前半月,同样在祭祀(śrāddha)中,午后胜过上午。