摩诃婆罗多 · 章 13.140
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.140.1
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते ।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ १३.१४०.१ ॥
若持守誓願的再生族食用祭品與食物,只為奉養婆羅門之願,祖父啊,這是怎麼回事?
13.140.2
अवेदोक्तव्रताश्चैव भुञ्जानाः कामकारणे ।
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ १३.१४०.२ ॥
若持守非吠陀所定誓願者,因欲望而食,便失其誓;而食吠陀所定之物者,不失其誓,般遮羅之子啊。
13.140.3
यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।
तपः स्यादेतदेवेह तपोऽन्यद्वाऽपि किं भवेत् ॥ १३.१४०.३ ॥
凡夫所謂的苦行,即是禁食,這便是苦行嗎?除此之外,還有別的苦行嗎?
13.140.4
मासार्धमासोपवासाद्यत्तपो मन्यते जनः ।
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥ १३.१४०.४ ॥
世人以為持續一月或半月的禁食便是苦行;然而損害自身身體機能的人,既非苦行者,也非通曉法者。
13.140.5
त्यागस्य चापि सम्पत्तिः शिष्यते तप उत्तमम् ।
सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥ १३.१४०.५ ॥
舍離的圓滿仍是至上的苦行;應當常持禁食,同樣也應常守梵行。
13.140.6
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् ।
कुटुम्बिको धर्मकामः सदाऽस्वप्नश्च मानवः ॥ १३.१४०.६ ॥
婆羅門應常為牟尼,常祭祀諸天;居家者、欲行法之人,應常不眠。
13.140.7
अमृताशी सदा च स्यात्पवित्रं च सदा पठेत् ।
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥ १३.१४०.७ ॥
应当始终食用甘露般的(清净的)食物,始终诵读神圣之语,始终说真话,始终保持自制。
13.140.8
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ।
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् ॥ १३.१४०.८ ॥
如何成为食残祭者(吃祭祀残余的人),又如何始终好客?始终食用甘露般清净食物的人,应当始终保持清净。
13.140.9
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव ।
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥ १३.१४०.९ ॥
陛下,人应当如何始终持斋并守梵行?如何成为食残祭者,又如何喜爱客人?
13.140.10
अन्तरा सायमाशं च प्रातराशं च यो नरः ।
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥ १३.१४०.१० ॥
人若在晚餐与早餐之间不再进食,他便是始终持斋的人。
13.140.11
भार्या गच्छन्ब्रह्मचारी ऋतौ भवति चैव ह ।
ऋतवादी सदा च स्याद्दानशीलस्तु मानवः ॥ १३.१४०.११ ॥
与妻子同寝却只在经期之外(适合生育的时节)方才行房,此人便是梵行者。人应当始终说真话,并且心怀布施。
13.140.12
अभक्षयन्वृथा मांसममांसाशी भवत्युत ।
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन् ॥ १३.१४०.१२ ॥
若无故不食肉,便成为不食肉者。施舍之人变得清净;白天不眠之人,便是不眠者。
13.140.13
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा ।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ १३.१४०.१३ ॥
般遮,你应知道:总是等仆人和客人吃完之后才吃饭的人,只享用甘露。
13.140.14
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः ।
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ १३.१४०.१४ ॥
在婆罗门未食之前自己也不吃的人,凭借不食而为自己赢得天界。
13.140.15
देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च ।
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ १३.१४०.१५ ॥
在供养诸神、祖先和依附者之后吃剩余之物的人,被称为“残食者”(vighasāśin)。
13.140.16
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः ।
उपस्थिता ह्यप्सरसो गन्धर्वैश्च जनाधिप ॥ १३.१४०.१६ ॥
他们的世界无穷无尽,在梵天的居所中被传颂。人主啊,那里有天女与乾闼婆同在。
13.140.17
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते ।
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ १३.१४०.१७ ॥
与诸神、客人和祖先共同进食,并与子孙同乐的人,其去处最为殊胜。