Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.145

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.145.1

एवं प्रयाचति तदा भास्करे मुनिसत्तमः ।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥ १३.१४५.१ ॥

当太阳这样恳求时,大光明的贤者中最优者仙人遮摩陀磨尼采取了什么行动?

13.145.2

स तथा याचमानस्य मुनिरग्निसमप्रभः ।
जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ १३.१४५.२ ॥

面对如此恳求,光芒如火的仙人遮摩陀磨尼丝毫未能平息,俱卢之喜悦者啊。

13.145.3

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् ।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते ॥ १३.१४५.३ ॥

于是太阳化作婆罗门之形,合掌向他行礼,以甘美的言语对他说道——人主啊。

13.145.4

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः ।
कतं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ १३.१४५.४ ॥

婆罗门仙人啊,太阳总是在运行,这正是其运行的标志。你又如何射穿那永远前行的太阳呢?

13.145.5

स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा ।
अवस्यं विनयाधानं कार्यमद्य मया तव ॥ १३.१४५.५ ॥

我以智慧之眼知道,你既是静止的,也是运动的。今天我必须给你一个谦逊的教训。

13.145.6

मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर ।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ १३.१४५.६ ॥

正午时分,太阳啊,你会停留半瞬。我就在那里射穿你,太阳啊,对此我毫无疑问。

13.145.7

असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर ।
अपकारिणं मां विद्दि भगवञ्शरणागतम् ॥ १३.१४५.७ ॥

毫无疑问,婆罗门中的圣仙,弓手中的最上者,你将射穿我。尊者啊,请知道我是有过失之人,已来寻求庇护。

13.145.8

ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् ।
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ १३.१४५.८ ॥

于是尊者阇摩达格尼笑着对他说:太阳啊,你不应恐惧,因为你已俯首来到这里寻求庇护。

13.145.9

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले ।
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ १३.१४५.९ ॥

婆罗门之中的正直,大地表面的坚定,月神苏摩的温和,以及水神伐楼那的深邃。

13.145.10

दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च ।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ १३.१४५.१० ॥

凡逾越火神之光辉、须弥山之光明与财神(俱毗罗)之威严者,便杀害那前来求庇护的人。

13.145.11

भवेत्स गुरुतल्पी च ब्रह्मिहा च स वै भवेत् ।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम् ॥ १३.१४५.११ ॥

杀害前来求庇护之人者,将成为玷污师尊之床者与杀婆罗门者,并且还会饮酒。

13.145.12

एतस्य त्वपनीतस्य समाधिं तात चिन्तय ।
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ १३.१४५.१२ ॥

亲爱的,请思考如何补救这被切断之人,使被你的光线炙烤的道路变得易于通行。

13.145.13

एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः ।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै ॥ १३.१४५.१३ ॥

说完这些,婆利古族中最优秀者便沉默了。随后,太阳迅速将伞和鞋赐给了他。

13.145.14

महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम् ।
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके। ॥ १३.१४५.१४ ॥

大仙啊,请接受能为你的头挡住我光线的伞,以及保护双脚的皮鞋。

13.145.15

अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति ।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च ॥ १३.१४५.१५ ॥

从今天起,它将在这世间流行;在所有圣地,它都将是至高不朽的。

13.145.16

उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम् ।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ १३.१४५.१६ ॥

伞与鞋是由太阳所确立的。婆罗多,这一功德在三界中闻名。

13.145.17

तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम् ।
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ १३.१४५.१७ ॥

因此,请把上好的伞与鞋布施给婆罗门。你将获得极大的功德,我对此毫无疑问。

13.145.18

छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये ।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ १३.१४५.१८ ॥

婆罗多中最优秀者啊,凡将一把白色、百骨的伞布施给再生族者,死后便在安乐中增长。

13.145.19

स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ १३.१४५.१९ ॥

他居于因陀罗之界,常受再生者、天女与诸神的尊崇,婆罗多族的雄牛啊。

13.145.20

उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ ।
स्नातकाय महाबाहो संशिताय द्विजातये ॥ १३.१४५.२० ॥

若有人以柔软而充满情意的鞋履,施予已完成学业、自持的再生者,大臂者啊——

13.145.21

सोपि लोकानवाप्नोति देवतैरभिपूजितान् ।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥ १३.१४५.२१ ॥

他也得以诸神所尊崇的诸界;婆罗多啊,死后他欢喜地居于牛界(Goloka)。

13.145.22

एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् ।
छत्रोपानहदानस्य फलं भरतसत्तम ॥ १३.१४५.२२ ॥

婆罗多之最啊,我已向你完整地宣说了:施予伞盖与鞋履的果报,婆罗多之最啊。