摩诃婆罗多 · 章 13.147
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.147.1
क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः ।
शूद्रा परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः ॥ १३.१४७.१ ॥
刹帝利的祭祀是发动之祭,吠舍的祭祀是勇力之祭,首陀罗的祭祀是侍奉之祭,婆罗门的祭祀是念诵之祭。
13.147.2
शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः ।
अनिष्टनिग्रहः क्षत्रा विप्राः स्वाध्यायजीविनः ॥ १३.१४७.२ ॥
以侍奉为生者为首陀罗,以贸易为生者为吠舍;制止祸害者为刹帝利;以自修诵习为生者为婆罗门。
13.147.3
तपसा शोभते विप्रो राजन्यः पालनादिभिः ।
आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते ॥ १३.१४७.३ ॥
婆罗门以苦行而增辉,刹帝利以护卫等事而增辉;同样,吠舍以待客而增辉,首陀罗以奴仆之事而增辉。
13.147.4
यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च ।
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु ॥ १३.१४७.४ ॥
自制的首陀罗应当常常侍奉三个种姓,大多是那些居住在修行林中的人。
13.147.5
अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः ।
यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् ॥ १३.१४७.५ ॥
无力者应当侍奉三种姓中居住在修行林的人——尽其所能,依其智慧,依法,依所闻。
13.147.6
विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे ॥ १३.१४७.६ ॥
应当特别在乞食修行者的修行林中侍奉。
13.147.7
आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् ।
प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये ॥ १३.१४७.७ ॥
在四个人生阶段中,比丘(乞食者)之住位被智者在经典的定论中视为最为殊胜。
13.147.8
यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः ।
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः ॥ १३.१४७.८ ॥
智者依据天启与传承之教所开示者,即使无力者也应照此奉行;这被确定为法。
13.147.9
अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः ।
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा ॥ १३.१४७.९ ॥
因此,违此而行的人不能获得福报;所以首陀罗对于比丘应当常行于自身有益之事。
13.147.10
इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते ।
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते ॥ १३.१४७.१० ॥
人在此世所行的善事,死后便得其果;凡自以为应当之事,应无嫉妒地去做。
13.147.11
असूयता तु तस्येह फलं दुःखादवाप्यते ।
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः ॥ १३.१४७.११ ॥
然而,妒忌者在此世所得的果报是由苦难而来。言语和善、克服愤怒、远离懈怠、不生嫉妒者,方是如此。
13.147.12
क्षमावाञ्शीलसम्पन्नः सत्यधर्मपरायणः ।
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे ॥ १३.१४७.१२ ॥
忍耐、具足戒行、专心于真实与法者,即便在困厄之时,也应在比丘住位中行侍奉。
13.147.13
अयं मे परमो धर्मस्त्वनेनेदं सुदुष्करम् ।
संसारसागरं घोरं तरिष्यामि न संशयः ॥ १३.१४७.१३ ॥
这是我最高的责任;借此,虽极其艰难,我必能渡过这可怕的轮回苦海,此无疑问。
13.147.14
विभयो देहमुत्सृज्य यास्यामि परमां गतिम् ।
नातः परं ममाप्यन्य एष धर्मः सनातनः ॥ १३.१४७.१४ ॥
无畏地舍弃此身,我将抵达至上之境;对我而言,没有比此更高的,此乃永恒之法。
13.147.15
एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना ।
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम् ॥ १३.१४७.१५ ॥
如此在心中思虑之后,以专注的智慧,首陀罗应当常以不散乱之心,履行至上的侍奉之法。
13.147.16
शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा ।
शमान्वितेन दान्तेन कार्याकार्यविदा सदा ॥ १३.१४७.१६ ॥
此处应当遵守侍奉的戒律,常食善人的余食,心境平和,克制自身,常知何者应为、何者不应为。
13.147.17
सर्वकार्येषु कृत्यानि कृतान्येव तु दुर्शयेत् ।
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत् ॥ १३.१४७.१७ ॥
凡诸事务,只应呈现已完成的职分;应当如此办事,使比丘欢喜。
13.147.18
यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत् ।
यथाऽऽश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् ॥ १३.१४७.१८ ॥
凡比丘不应为的事,便不应去做;应当只行与修行处不相违背、纯依法则的事。
13.147.19
तत्कार्यमविचारेण नित्यमेव शुभार्थिना ।
मनसा कर्ममा वाचा नित्यमेव प्रसादयेत् ॥ १३.१४७.१९ ॥
求善之人应毫不犹豫地常行此事,并常以心、行、言使(师长)欢喜。
13.147.20
स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत् ।
आसीनेष्वासितव्यं च नित्यमेवानुवर्तता ॥ १३.१४७.२० ॥
他们站立时自己也应站立,跟随离去之人;他们坐下时自己也应坐下,始终顺从他们的心意而行。
13.147.21
धर्मलब्धेन स्नेहेन पादौ सम्पीडयेत्सदा ।
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः ॥ १३.१४७.२१ ॥
应以依法所得的油脂常为(师长)按摩双足,同样,不待吩咐便应做擦洗身体等事。
13.147.22
नैजकार्याणि कृत्वा तु नित्यं चैवानुचोदितः ।
यथाविधिरुपस्पृश्य संन्यस्य जलभाजनम् ॥ १३.१४७.२२ ॥
完成自己的事务后,常按师长的吩咐,依规矩以水净口,放下水器,然后投身于侍奉。
13.147.23
भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् ।
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्यि नियतेन्द्रियः ॥ १३.१४७.२३ ॥
前往比丘的住处,依法致敬,并在那里向以梵为首的师长致敬,且应克制诸根。
13.147.24
तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम् ।
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च ॥ १३.१४७.२४ ॥
同样,应向走在师长前面的人行礼;对于奉行自身法度的人,也应先问候其平安,再恭敬致意。
13.147.25
यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा ।
तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन ॥ १३.१४७.२५ ॥
唯有先前已成就、行事始终如一者,才应向他致敬,绝不可向其他人致敬。
13.147.26
अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः ।
सम्मार्जनमथो गत्वा कृत्वा चाप्युपलेपनम् ॥ १३.१४७.२६ ॥
不向他们说话,常常起身,坚守誓戒,应前去扫地,也要涂抹地面。
13.147.27
ततः पुष्पबलिं दद्यापुष्पाण्यादाय धर्मतः ।
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत् ॥ १३.१४७.२७ ॥
随后依法取花供献花供;并迅速离开居所,去做其他的事务。
13.147.28
यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा ।
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते।
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः ॥ १३.१४७.२८ ॥
为使苦行者的诵习不受妨碍,应当如此行事;造成妨碍者便与罪过相连。因此应当自我约束,使他们获得喜悦。
13.147.29
परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः ।
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम् ॥ १३.१४७.२९ ॥
依法,我被视为三种种姓的仆役;何况那些依所得而生活的、年长的修行者呢!
13.147.30
भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनम् ।
विशेषेण मया कार्या शुश्रूषा नियतात्मना ॥ १३.१४७.३० ॥
对于远离贪爱、唯见智慧的比丘,我应以调伏之心特别予以侍奉。
13.147.31
तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम् ।
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान्।
विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् ॥ १३.१४७.३१ ॥
凭着他们的恩典与苦行,我将获得所愿的吉祥归宿。既然如此决定,若有人依照自己所教的规则侍奉乞食的苦行者,便能得到至高的归宿。