摩诃婆罗多 · 章 13.148
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.148.1
न तथा सम्प्रदानेन नोपवासादिभिस्तथा ।
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा ॥ १३.१४८.१ ॥
人不能像以侍奉之行那样,通过布施或禁食等苦行而达到所愿之归宿。
13.148.2
यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः ।
तादृग्भवति तद्धौतमुदकस्य प्रभावतः ॥ १३.१४८.२ ॥
人以何种水净化自身,被洗之物便依水的力量而变得与之相同。
13.148.3
शूद्रोप्येतेन मार्गेण यादृशं सेवते जनम् ।
तादृग्भवति संसर्गादचिरेण न संशयः ॥ १३.१४८.३ ॥
即使是首陀罗,循此途径,因交往而很快变得与所事之人相同,此无疑问。
13.148.4
तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना ।
उदकग्राहणाद्येन स्नपनोद्वर्तनैस्तथा ॥ १३.१४८.४ ॥
因此,自律之人应当精心侍奉比丘:取水等事,以及为之沐浴、擦拭,亦是如此。
13.148.5
अध्वना कर्शितानां च व्याधितानां तथैव च ।
शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः ॥ १३.१४८.५ ॥
对于因旅途而疲惫者及病人,也应同样经常侍奉;遇到困厄时,应精心侍奉他们。
13.148.6
दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च ।
यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत्।
प्रायश्चित्तं यता न स्यात्तथा सर्वं समाचरेत् ॥ १३.१४८.६ ॥
应照看吉祥草、鹿皮及乞食钵,并随意完成一切事务;应如此行事,使无需赎罪。
13.148.7
व्याधितानां तु भिक्षूणां चेलप्रक्षालनादिभिः ।
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा ॥ १३.१४८.७ ॥
对于患病的比丘,应以洗涤衣物等事以及取来药物进行救治。
13.148.8
पिंषणालेपनं चूर्णं कषायमथ साधनम् ।
नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत् ॥ १३.१४८.८ ॥
研磨涂敷之药、粉末、煎剂及其他制剂,在护理中应亲自为他人的安乐而备办,不可交给别人。
13.148.9
भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः ।
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत् ॥ १३.१४८.९ ॥
他应外出乞食,前往有学识的医师处;然后为治疗而获取所需的药材。
13.148.10
यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः ।
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः ॥ १३.१४८.१० ॥
欢喜心施予药物的人,以及接受的人——凡无信心而施予的,比丘不可受用。
13.148.11
श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम् ।
तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते ॥ १३.१४८.११ ॥
凡以信心接受、以信心供养的,享用它便生功德,疾病也会因此被遣除。
13.148.12
आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम् ।
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम् ॥ १३.१४८.१२ ॥
直至身体倒下,应依法侍奉他们;但不可这样舍弃法而去为他们治疗。
13.148.13
स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च ।
स्वभावतः सर्वभावा भवन्ति नभवन्ति च।
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः ॥ १३.१४८.१३ ॥
万物依其本性,对立之物相互生灭;依其本性,一切状态有时生起,有时不生起。应当知道它们由诸德构成,如同大海的波浪。
13.148.14
विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः ।
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥ १३.१४८.१४ ॥
若智者如此而知,知真实、见真实,他便不为恶所染,如同莲叶不被水沾湿。