Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.15.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मद्रराजस्य संवादं व्यासस्य च महात्मनः ॥ १३.१५.१ ॥

此处人们也引用这古老的传说——摩陀罗王与大灵魂毗耶娑的对话。

13.15.2

वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा ।
उक्तः स भगवान्यज्ञे तथा तत्राशृणोद्भवान् ॥ १३.१५.२ ॥

贡蒂之子啊,正如往昔世尊在盛大的吠陀火祭仪式中所说,你也在那里听闻了。

13.15.3

कानि तीर्थानि भगवन्फलार्थाश्चेह केऽऽश्रमाः ।
क इज्यते कश्च यज्ञः को यूपः क्रमते च कः ॥ १३.१५.३ ॥

尊者啊,何为圣渡口?此处哪些修行处为求果报?所崇拜者为谁?何为祭祀、何为祭柱,谁能超越它?

13.15.4

कश्चाध्वरे शस्यते गीतिशब्दैः ।
कश्चाध्वरे गीयते वल्गुभाषैः।
को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च ।
कस्येह वै हविरध्वर्यवः कल्पयन्ति ॥ १३.१५.४ ॥

祭祀中以歌声赞美者为谁?祭祀中以甜美之言歌颂者为谁?以梵语诵词与赞歌颂扬者为谁?此处祭司们为谁备办供物?

13.15.5

वर्णाश्रमे गोफले कश्च सोमे ।
कश्चोंकारः कश्च वेदार्थमार्गः।
पृष्टस्तन्मे ब्रूहि सर्वं महर्षे ।
लोकज्येष्ठं कस्य विज्ञानमाहुः ॥ १३.१५.५ ॥

在种姓与生命阶段中,牛之果为何?苏摩中有何?唵是什么?吠陀义理之道为何?大仙啊,请把我所问的一切都告诉我——世间最长者的智慧,据说属于谁?

13.15.6

लोकज्येष्ठं यस्य विज्ञानमाहु ।
र्योनिज्येष्ठं यस्य वदन्ति जन्म।
पूतात्मानो ब्राह्मणा वेदमुख्या ।
अस्मिन्प्रश्नो दीयतां केशवाय ॥ १३.१५.६ ॥

其知识被称为诸界之长,其出生被称为胎生之先——清净心灵、精通吠陀的婆罗门如此说。请将此问题交与克舍婆。

13.15.7

बालो जात्या क्षत्रधर्मार्थशीलो ।
जातो देवक्यां शूरपुत्रेण वीर।
वेत्तुं वेदानर्हते क्षत्रियो वै ।
दाशार्हाणामुत्तमः पुष्कराक्षः ॥ १३.१५.७ ॥

此少年生而恪守刹帝利之法与其志;此英雄由舒罗之子与提婆吉所生,不宜知晓吠陀,因其为刹帝利——达沙尔诃中的最上者,莲花眼者。

13.15.8

पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः ।
प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः।
पृष्टो यज्ञार्थं पाण्डवस्यातितेजा ।
एतच्छ्रेयस्तस्य लोकस्य चैव ॥ १३.१५.८ ॥

波罗奢罗之子啊,请将应当向婆罗门陈述之事说出。心怀喜悦,如梵天一般,智慧高明的你,为般度之子的祭祀而被询问——这是他与世间的福祉。

13.15.9

उक्तं वाक्यं यद्भवान्मामवोच-
त्प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य।
छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै ।
लोकज्येष्ठे विश्वरूपे सुनाभे ॥ १३.१५.९ ॥

你向我所说的那句话是一个奇妙的问题,今日我不敢解答它。对于像你这样的人,它是清楚的。诸界之长啊,宇宙之相啊,妙脐者啊!

13.15.10

तत्त्वं वाक्यं ब्रूहि यत्त्वं महर्षे ।
यस्मिन्कृष्णः प्रोच्यते वै यथावत्।
प्रीतस्तेऽहं ज्ञानशक्त्या यथाव-
त्तस्मान्निर्देशे कर्मणां ब्रूहि सिद्धिम् ॥ १३.१५.१० ॥

大仙啊,请说出那真实之言,其中克里希那被如实宣说。我因你的智慧之力而欢喜;因此,请在关于祭仪的教导中说出成就。

13.15.11

उक्तवाक्ये सत्तमे यादवानां ।
कृष्णो व्यासः प्राञ्जलिर्वासुदेवम्।
विप्रैः सार्धं पूजयन्देवदेवं ।
कृष्णं विष्णुं वासुदेवं बभाषे ॥ १३.१५.११ ॥

诸耶达瓦中的至上者啊,当那番话说完后,克里希那-毗耶娑合掌,与婆罗门们一同礼拜神中之神婆苏提婆,对克里希那、毗湿奴、婆苏提婆说道。

13.15.12

आनन्त्यं ते विश्वकर्मंस्तवैवं ।
रूपं पौराणं शाश्वतं च ध्रुवं च।
कस्ते बुद्ध्येद्वेदवादेषु चैत-
ल्लोके ह्यस्मिञ्शासकस्त्वं पितेव ॥ १३.१५.१२ ॥

宇宙的创造者啊,你的形相如此无限、古老、永恒而坚固。谁能在吠陀教义中领悟你?在这世间你如父亲般统治。