摩诃婆罗多 · 章 13.153
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.153.1
केषां देवा महाभागाः सन्नमन्ते महात्मनाम् ।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम ॥ १३.१५३.१ ॥
善人中的至尊啊,在此世间,那些具大福德的诸神向哪些大灵魂俯首致敬?我愿听闻所有那些仙人的事迹。
13.153.2
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः ।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर ॥ १३.१५३.२ ॥
युधिष्ठिर啊,通晓古事的博学婆罗门,大智者们,就此事讲述这段古史。你要领会它。
13.153.3
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम् ।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः ॥ १३.१५३.३ ॥
斩杀弗栗多后归来,被众天神推举在前,受众大仙赞颂的摩罕陀罗(因陀罗),一位来到了他的近前。
13.153.4
श्रिया परमया युक्तं रथस्थं हरिवाहनम् ।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह ॥ १३.१५३.४ ॥
摩呾厘合掌而立,对具有至上光荣、立于由枣红骏马所驾战车上的天帝因陀罗说道。
13.153.5
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः ।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम ॥ १३.१५३.५ ॥
世尊啊,在所有受礼敬者之中,您居于首位。请告诉我,在此世间诸神向谁行礼。
13.153.6
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः ।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः ॥ १३.१५३.६ ॥
听了他的话,天王、舍遮之夫因陀罗便回答那位正在询问的御者。
13.153.7
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः ।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले ॥ १३.१५३.७ ॥
我向那些思考法、利与欲、心志从不趋向非法的人致敬,摩多利啊。
13.153.8
ये रूपगुणसम्पन्नाः प्रमदाहृदयंगमाः ।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले ॥ १३.१५३.८ ॥
我向那些容貌与德行兼备、为女子所倾心,却远离欲乐的人致敬,摩多利啊。
13.153.9
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः ।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले ॥ १३.१५३.९ ॥
我向那些满足于自身享受、言语温和、能忍受言语、不求荣誉却值得尊崇的人致敬,摩多利啊。
13.153.10
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् ।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम् ॥ १३.१५३.१० ॥
我常常尊敬那些心不为财富、学识与权势所动,并能克制已动摇之心的人。
13.153.11
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् ।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम् ॥ १३.१५३.११ ॥
我向那些有可爱妻子相伴、心地清净、奉行阿耆尼火祭、家中有四足牲畜的人致敬,摩多利啊。
13.153.12
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च ।
कत्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते ॥ १३.१५३.१२ ॥
以大苦行所得的巨大财富不应舍弃;但不知自我的人应当舍弃它。
13.153.13
येषामर्थस्तथा कामो धर्ममूलविवर्धितः ।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले ॥ १३.१५३.१३ ॥
凡其财富与欲望以法为根而增长者,其法与利必定稳固;我向他们致敬,啊,摩多梨。
13.153.14
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि ।
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम् ॥ १३.१५३.१४ ॥
我也向以法为根的婆罗门、牛,以及忠于丈夫的妇女致敬。
13.153.15
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले ।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम् ॥ १३.१५३.१५ ॥
那些在早年享受人间欢乐,后以苦行升天的人,我永远敬奉他们,啊,摩多梨。
13.153.16
असंभोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान् ।
संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान् ॥ १३.१५३.१६ ॥
那些远离享乐、无所执着、恒守法道、克制诸根、出家离世、如山般不动者,我以心敬奉他们。
13.153.17
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम् ।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम् ॥ १३.१५३.१७ ॥
学识因智慧而澄明、坚定安立于法、且其清净为他人所称颂者,啊,摩多梨,我向他们致敬。