摩诃婆罗多 · 章 13.154
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.154.1
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥ १३.१५४.१ ॥
婆罗多族的雄牛啊,请讲述居家者的全部法。国王啊,人在此世通过做什么而获得兴盛?
13.154.2
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ १३.१५४.२ ॥
人主啊,关于此事,我将为你讲述一桩古老的往事:婆薮提婆与大地的对话,婆罗多啊。
13.154.3
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान् ।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै ॥ १३.१५४.३ ॥
威武的婆薮提婆赞颂女神大地后问道——婆罗多中的最优者啊,正是你今日问我的那件事。
13.154.4
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत् ॥ १३.१५४.४ ॥
遵循居家者之法,像我这样的人,或其他人,在大地啊,承载者,必须做什么?或者做什么便能得到安乐?
13.154.5
ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे ॥ १३.१५४.५ ॥
摩陀婆啊,仙人、祖先、天神与人类,都应受到尊敬与供奉;请听我说其中的道理。
13.154.6
सदा यज्ञेन देवांश्च सदाऽऽतिथ्येन मानुषान् ।
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः ॥ १३.१५४.६ ॥
人们始终以祭祀娱悦天神,始终以款待娱悦世人,并随意以奠水供养祖先,日复一日。
13.154.7
तेन ह्यृषिगणाः प्रीता ब्रह्मचयेणि चानघ ।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ॥ १३.१५४.७ ॥
凭此,无罪者啊,以及梵行,诸仙人群便欢喜。应当常常侍奉火,未进食前行供献(bali)之礼。
13.154.8
कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन ।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च ॥ १३.१५४.८ ॥
同样,也应当为诸天神如此行之;此事于我甚为可爱,摩图苏陀那啊。应每日以食物等及水行祭祀(śrāddha)。
13.154.9
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत् ।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ॥ १३.१५४.९ ॥
即使以牛奶、根茎和果实,也应使祖先(pitṛ)欢喜。应依规则,以煮熟的食物在火中行诸神祭(Vaiśvadeva)。
13.154.10
आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ।
प्रजानां पतये चैव पृथग्घोमो विधीयते ॥ १३.१५४.१० ॥
先行阿耆尼-苏摩(Āgnīṣoma)之供,次为诸天神祭(Vaiśvadeva),再后为医神(Dhanvantari)之供;又为众生之主另行献供,亦有规定。
13.154.11
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च ॥ १३.१५४.११ ॥
同样,依次行供献之礼:于南方说“献予阎摩(Yama)”,于西方献予伐楼那(Varuṇa)。
13.154.12
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः ।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ॥ १३.१५४.१२ ॥
北方献予苏摩(Soma);住宅正中献予生主(Prajāpati);东北献予医神(Dhanvantari);东方献予帝释(Śakra,因陀罗),摩陀婆啊。
13.154.13
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै ।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत् ॥ १३.१५४.१३ ॥
人们说,为人类的供物应置于家门口;为马鲁特与诸神的供物应在屋内供奉。
13.154.14
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत् ॥ १३.१५४.१४ ॥
同样,供养毗奢提婆应面向天空;夜间则应按规矩向夜行者与诸灵供奉。
13.154.15
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै ।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत् ॥ १३.१५४.१५ ॥
如此妥善供奉后,应施舍给再生者。若无婆罗门,则取出第一份投入火中。
13.154.16
यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः ।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥ १३.१५४.१६ ॥
人若想向祖先供奉祭礼,应在施行的祭礼完毕之后再另行举行。
13.154.17
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः ।
वेश्वदैवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम् ॥ १३.१५४.१७ ॥
先使祖先满足,依规矩供奉;然后行毗奢提婆之祭,之后再供养婆罗门。
13.154.18
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि ।
अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान्।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ १३.१५४.१८ ॥
其后以剩余的食物款待客人,先行奉上阿尔迦(迎宾水),大王啊;如此便能使人欢喜。因其无定时而来,故称为客人(阿提提)。
13.154.19
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ १३.१५४.१९ ॥
对于师长、父亲、朋友、可信的亲属和客人,应当时常说明:“我家中有此物。”
13.154.20
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥ १३.१५४.२० ॥
他们所说的,应当照办,这便是所规定的法。克里希那啊,居家之人应当常常食用贤者用餐之后的剩余之食。
13.154.21
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ १३.१५४.२१ ॥
应以蜜糖供物(madhuparka)敬奉国王、祭司(ṛtvij)、学成的婆罗门(snātaka)、师长、岳父,以及居住满一年的客人。
13.154.22
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ १३.१५४.२२ ॥
应当把食物撒在地上,供给狗、贱民和鸟类。
13.154.23
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥ १३.१५४.२३ ॥
此名为“毗湿伐提婆”(Vaiśvadeva),早晚皆应行之。
13.154.24
एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः ।
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते ॥ १३.१५४.२४ ॥
若有人无嫉妒地奉行这些居家之法,便能在此获得至上的兴盛,死后在世界中受人尊崇。
13.154.25
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं सदाऽऽचर ॥ १३.१५४.२५ ॥
大力的婆苏提婆听了大地的这些话,便持续如此行事;你也应当始终如此行事。
13.154.26
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप ।
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ १३.१५४.२६ ॥
人主啊,你若奉行这家居者的法,便能在此世获得名声,死后得升天界。