摩诃婆罗多 · 章 13.159
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.159.1
एको लोकस्तु कृतिनां स्वर्गे लोके पितामह ।
उत तत्रापि नानात्वं सर्वं ब्रूहि पितामह ॥ १३.१५९.१ ॥
祖父啊,有德之人的天界只有一个吗?还是那里也有差别?祖父啊,请把一切都告诉我。
13.159.2
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः ।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो नराः ॥ १३.१५९.२ ॥
般度之子啊,人们因业行而前往不同的世界:有功德者去往功德之界,作恶者去往罪恶之界。
13.159.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गौतमस्य मुनेस्तात संवादं वासवस्य च ॥ १३.१५९.३ ॥
孩子啊,关于此事,人们还讲述这个古老的故事——圣人乔达摩与帝释天(因陀罗)的对话。
13.159.4
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः ।
महावने हस्तिशिशुं परिद्यूनममातृकम् ॥ १३.१५९.४ ॥
有一位名叫乔达摩的婆罗门,温和、自制,已降服诸根。在一片大森林中,他看见一头疲惫而失去母亲的象崽。
13.159.5
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः ।
स तु दीर्घेण कालेनि बभूवातिबलो महान् ॥ १३.१५९.५ ॥
他看见后,心怀慈悲,持守誓戒,便使它复活。过了很久,那头象崽变得极其强壮,十分高大。
13.159.6
तं प्रपन्नं महादीर्घं प्रभूतं सर्वतोमदम् ।
धृतराष्ट्रस्वरूपेण शक्रो जग्राह हस्तिनम् ॥ १३.१५९.६ ॥
那头极其高大、强壮、四面狂躁的象走近了。于是因陀罗化作持国的模样,抓住了那头象。
13.159.7
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः ।
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ १३.१५९.७ ॥
高塔摩见他被牵走,这位坚守誓愿、苦行深重的仙人对国王持国说道。
13.159.8
मामाहार्षीर्हस्तिनं पुत्रमेनं ।
दुःखात्पुष्टं धृतराष्ट्रात्कृतज्ञ।
मैत्रं सतां सप्तपदं वदन्ति ।
मित्रद्रोहो नेह राजन्स्पृसेत्त्वाम् ॥ १३.१५९.८ ॥
你从我这里夺走了这头象,它是我的儿子,持国艰难地将它养大。忘恩负义者啊!善人的友谊被称为“七步”。王啊,背叛朋友之罪在此不会触及你。
13.159.9
इध्मोदकप्रदातारं शून्यपालं ममाश्रमे ।
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥ १३.१५९.९ ॥
为我的修行处取来柴薪和水,看守空寂的修行处,在师门中谦逊,善于履行师长的职责。
13.159.10
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम ।
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥ १३.१५९.१० ॥
他温顺、受制、知恩,且始终为我所珍爱。王啊,即便我哭喊,你也不应带走这头象。
13.159.11
गवां सहस्रं भवते ददानि ।
शतानि निष्कस्य ददानि पञ्च।
अन्यच्च वित्तं विविधं महर्षे ।
किं ब्राह्मणस्येह गजेन कृत्यम् ॥ १३.१५९.११ ॥
我将给你一千头牛和五百尼什卡金子,伟大的仙人啊,还有各种其他财富。在这里,一个婆罗门要大象有什么用?
13.159.12
तवैव गावो हि भवन्तु राज-
न्दास्यः सनिष्का विविधं च रत्नम्।
अन्यच्च वित्तं विविधं नरेन्द्र ।
किं ब्राह्मणस्येह धनेन कृत्यम् ॥ १३.१५९.१२ ॥
国王啊,愿这些牛归你所有,还有女奴、金币和各式珍宝。人主啊,其他各种财物也归你所有。在此,婆罗门何须财富?
13.159.13
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं ।
राजन्यानां नागकुलानि विप्र।
स्वं वाहनं नयतो नास्त्यधर्मो ।
नागश्रेष्ठं गौतमास्मान्निवर्त ॥ १३.१५९.१३ ॥
婆罗门与象无关。婆罗门啊,象群属于刹帝利。牵走自己的坐骑并无不义。乔达摩啊,请把最好的象还给我们。
13.159.14
यत्र प्रेतो नन्दति पुण्यकर्मा ।
यत्र प्रेतः शोचते पापकर्मा।
वैवस्वतस्य सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.१४ ॥
在善业之亡者欢喜、恶业之亡者悲伤之处,即伟大的毗婆娑特之居所,我将带你与那象一同前往那里。
13.159.15
ये निष्क्रिया नास्तिकाः श्रद्धधानाः ।
पापात्मान इन्द्रियार्थे निसृष्टाः।
यमस्य ते यातनां प्राप्नुवन्ति ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.१५ ॥
那些废弃祭祀、不信者,虽似有信却心怀恶念、沉溺于感官之境者,会遭受阎摩的折磨。但持国不会去那里。
13.159.16
वैवस्वती संयमनी जनानां ।
यत्रानृतं नोच्यते यत्र सत्यम्।
यत्रांबलान्बलिनो घातयन्ति ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.१६ ॥
那里是毗婆娑多(阎摩)的城市,名为三摩尼,属于众人;那里不说谎言,只说真实;那里强者使弱者被杀。就在那里,哈斯丁啊,我要让你受折磨。
13.159.17
ज्येष्ठां स्वसारं पितरं मातरं च ।
गुरून्यथाऽमानयन्तश्चरन्ति।
तथाविधानामेष लोको महर्षे ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.१७ ॥
那些不尊敬长姊、父亲、母亲和师长而行事的人,其世界就是这样,大仙啊;那里,持国不会到达至高之处。
13.159.18
मन्दाकिनी वैश्रवणस् राज्ञो ।
महाभागा भोगिजनप्रवेश्या।
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.१८ ॥
毗沙门(俱毗罗)王的曼陀吉尼河,大吉祥,享乐之人所入之处,为乾闼婆、夜叉与天女所眷顾。就在那里,哈斯丁啊,我要让你受折磨。
13.159.19
अतिथिव्रताः सुव्रता ये जना वै ।
प्रतिश्रयं ददति ब्राह्मणेभ्यः।
शिष्टाशिनः संविभज्याश्रितेभ्यो ।
मन्दाकिनीं तेऽपि हि भूषयन्ति ॥ १३.१५९.१९ ॥
那些奉行待客之道、持守善誓、为婆罗门提供住所、在供养贤者后与依赖者分享剩余之食的人,他们也确实装点着曼陀吉尼河。
13.159.20
मेरोरग्रे यद्वनं भाति रम्यं ।
सुपुष्पितं किन्नरीगीतजुष्टम्।
सुदर्शना यत्र जम्बूर्विशाला ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.२० ॥
在须弥山之巅,有一片可爱的森林光彩照人,繁花盛开,为紧那罗的歌声所环绕;那里有广大的善见闫浮树。就在那里,哈斯丁啊,我要让你受折磨。
13.159.21
ये ब्राह्मणा मृदवः सत्यशीला ।
बहुश्रुताः सर्वभूताभिरामाः।
येऽधीयते सेतिहासं पुराणं ।
मध्वाहुत्या जुह्वति वै द्विजेभ्यः ॥ १३.१५९.२१ ॥
那些温和、遵守真实之德、博学、令一切众生欢喜的婆罗门,那些同伊提诃娑一起研习往世书的人,以及向再生者奉献蜂蜜供养的人。
13.159.22
तथाविधानामेष लोको महर्षे ।
परं गन्ता धृतराष्ट्रो न तत्र।
यदन्यत्ते विदितं स्थानमस्ति ।
तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥ १३.१५९.२२ ॥
大仙啊,这是这类人的世界;持国王不会到那里去达到至上之境。如果您知道别的地方,请告诉我;请快告诉我,我就要走了。
13.159.23
सुपुष्पितं किंनरराजजुष्टं ।
प्रियं वनं नन्दनं नारदस्य।
गन्धर्वाणामप्सरसां च सद्म ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.२३ ॥
那繁花盛开、为紧那罗王所眷顾、为那罗陀所喜爱的难陀园,是乾闼婆与阿普萨拉斯的居所。哦,象啊,我要把你带到那里去。
13.159.24
ये नृत्यगीते कुशला जनाः सदा ।
देवात्मानः प्रियकामाश्चरन्ति।
तथाविधानामेष लोको महर्षे ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.२४ ॥
那些永远擅长舞蹈与歌唱、具神性、追求欢愉而游行的人。大仙啊,这是这类人的世界;持国王不会到那里去达到至上之境。
13.159.25
यत्रोत्तराः कुरवो भान्ति रम्या ।
देवैः सार्धं मोदमाना नरेन्द्रः।
यत्राग्नियौनाश्च वसन्ति विप्रा ।
अब्योनयः पर्वतयोनयश्च ॥ १३.१५९.२५ ॥
北俱卢在那里光辉灿烂、可爱,众王与诸天同乐;那里居住着生于火中的婆罗门,以及生于水中和生于山中的人。
13.159.26
यत्र शक्रो वर्षति सर्वकामा-
न्यत्र स्त्रियः कामचारा भवन्ति।
यत्र चेर्ष्या नास्ति नारीनराणां ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.२६ ॥
因陀罗降下一切欲望之处,女子随意往来之处,男女之间没有嫉妒之处,我将把那头象送到那里。
13.159.27
ये सर्वभूतेषु निवृत्तकामा ।
अमांसादा न्यस्तदण्डाश्चरन्ति।
न हिंसन्ति स्थावरं जङ्गमानि ।
भूतानां ये सर्वभूतात्मभूताः ॥ १३.१५९.२७ ॥
那些对一切众生无欲、不食肉、放下刑杖而行、不伤害静止与行动之物、且为一切众生之自我的人。
13.159.28
निराशिषो निर्ममा वीतरागा ।
लाभालाभे तुल्यनिन्दाप्रशंसाः।
तथाविधानामेष लोको महर्षे ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.२८ ॥
对于那些无所期望、无所占有、离欲、得失与毁誉皆平等的人,这个世界属于他们,大仙啊。持国王将不会到达那至高之境。
13.159.29
ततोऽपरे भान्ति लोकाः सनातनाः ।
सुपुण्यगन्धा विरजा वीतशोकाः।
सोमस्य राज्ञः सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.२९ ॥
此后,在伟大的苏摩王的居所中,另有永恒的世界闪耀,它们充满芬芳的功德,纯净而无忧。我将把那头象送到那里。
13.159.30
ये दानशीला न प्रतिगृह्णते सदा ।
न चाप्यर्थांश्चाददते परेभ्यः।
येषामदेयमर्हते नास्ति किञ्चि-
त्सर्वातिथ्याः सुप्रजना जनाश्च ॥ १३.१५९.३० ॥
那些常行布施、不受赠予、甚至不取他人财物、对于值得之人无物可吝的人,那些对一切人都款待周到、子嗣良善的人。
13.159.31
ये क्षन्तारो नाभिजल्पन्ति चान्या-
ञ्शक्ता भूत्वा सततं पुण्यशीलाः।
तथाविधानामेष लोको महर्षे ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.३१ ॥
此乃那些忍耐、能力强却从不诽谤他人、常怀德行之人的世界,大仙啊。持国王在那里不能到达最高之境。
13.159.32
ततोऽपरे भान्ति लोकाः सनातना ।
विराजसा वितमस्का विशोकाः।
आदित्यदेवस्य पदं महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.३२ ॥
随后,另外的永恒世界闪耀,无激情,无黑暗,无忧愁——那是伟大的太阳神的居所。我将在那里把你送回象城。
13.159.33
स्वाध्यायशीला गुरुशुश्रूषकाश्च ।
तपस्विनः सुव्रताः सत्यसन्धाः।
आचार्याणामप्रतिकूलभाषिणो ।
नित्योत्थिता गुरुकर्मस्वचोद्याः ॥ १३.१५९.३३ ॥
勤习吠陀、侍奉师长的人,苦行者,持守坚定誓愿、信守诺言的人;从不对师长说逆耳之言,常常早起,不待吩咐便去做师长的事务。
13.159.34
तथाविधानामेष लोको महर्षे ।
विशुद्धानां भावितो वाग्यतानाम्।
सत्ये स्थितानां वेदविदां महात्मनां ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.३४ ॥
此乃那些清净、节制言语、安住于真实、通晓吠陀的大德之人的世界,大仙啊。持国王在那里不能到达最高之境。
13.159.35
ततोऽपरे भान्ति लोकाः सनातनाः ।
सुपुण्यगन्धा विरजा विशोकाः।
वरुणस्य राज्ञः सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.३५ ॥
随后,另外的永恒世界闪耀,充满大功德的芬芳,无激情,无忧愁——在大德之王伐楼那的府邸中。我将在那里把你送回象城。
13.159.36
चातुर्मास्यैर्ये यजन्ते जनाः सदा ।
तथेष्टीनां दशशतं प्राप्नुवन्ति।
ये चाग्निहोत्रं जुह्वति श्रद्दधाना ।
यथान्यायं त्रीणि वर्षाणि विप्राः ॥ १३.१५९.३६ ॥
那些始终以四月祭祀供养者,同样通过祭供获得一万(福果);以及那些怀着信心、依规则三年在阿格尼霍特拉火中献供者,诸婆罗门啊:
13.159.37
स्वदारगाणां धर्मकृतां महात्मनां ।
यथोदिते वर्त्मनि सुस्थितानाम्।
धर्मान्मनामुद्वहतां गतिं तां ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.३७ ॥
对于那些只守自己妻子、行法、稳居所说之道、心意专注于法、承受那一归趣的大德者——至高之境,持国王不会去到那里。
13.159.38
इन्द्रस्य लोका विरजा विशोका ।
दुरन्वयाः काङ्क्षिता मानवानाम्।
तस्याहं ते भवने भूरितेजसो ।
राजन्निमं हस्तिनं यातयिष्ये ॥ १३.१५९.३८ ॥
因陀罗之界——清净、无忧、凡人难至而令人向往——在那里,国王啊,在你光耀万丈的居所中,我将把这头象送去。
13.159.39
शतवर्षजीवी यश्च शूरो मनुष्यो ।
वेदाध्यायी यश्च यज्वाऽप्रमत्तः।
एते सर्वे शक्रलोकं व्रजन्ति ।
परं गन्ता धृतराष्ट्रो न तत्र ॥ १३.१५९.३९ ॥
寿至百岁的人、英勇者、诵习吠陀者、行祭者、不放逸者——这些人都往因陀罗界而去;但至高之境,持国王不会去到那里。
13.159.40
प्राजापत्याः सन्ति लोका महान्तो ।
नाकस्य पृष्ठे पुष्कला वीतशोकाः।
मनीषिणां सर्वलोकाभयानां ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.४० ॥
有生主的伟大世界,天界脊背上有许多无忧的世界。在那里,为了那些无惧于任何世界的智者,我将带你与大象一同前往。
13.159.41
ये राजानो राजसूयाभिषिक्ता ।
धर्मात्मानो रक्षितारः प्रजानाम्।
ये चाश्वमेधावभृथे प्लुताङ्गा-
स्तेषां लोका धृतराष्ट्रो न तत्र ॥ १३.१५९.४१ ॥
那些在王者祭(Rājasūya)中受灌顶、作为正法之人守护臣民的国王,以及在马祭(Aśvamedha)末后沐浴的人——他们有自己的世界;持国不在那里。
13.159.42
ततःपरं भान्ति लोकाः सनातनाः ।
सुपुण्यगन्धा विरजा वीतशोकाः।
तस्मिन्नहं दुर्लभे चाप्यधृष्ये ।
गवां लोके हस्तिनं यातयिष्ये ॥ १३.१५९.४२ ॥
其外照耀着永恒的世界,充满最圣洁的芬芳,无垢且无忧。在那稀有而不可侵犯的牛之世界,我将带你与大象一同前往。
13.159.43
यो गोसहस्री शतदो महात्मा ।
यो गोशती दश दद्याच्च शक्त्या।
तथा दशभ्यो यश्च दद्यादिहैकां ।
पञ्चभ्यो वा दानशीलस्तथैकाम् ॥ १३.१५९.४३ ॥
拥有千头牛却施舍百头的大德之人;拥有百头牛而依自己能力施舍十头的人;以及在此每十头施舍一头、或每五头施舍一头的人——这些人都是乐于布施之人。
13.159.44
ये जीर्यन्ते ब्रह्मचर्येणि विप्रा ।
ब्राह्मीं वाचं परिरक्षन्ति चैव।
मनस्विनस्तीर्थयात्रापरा ये ।
ते तत्र मोदन्ति ततो विमानैः ॥ १३.१५९.४४ ॥
那些在梵行中衰老的婆罗门,守护神圣言语的人,以及专心朝拜圣渡口的坚定者,在那里乘坐天车而欢喜。
13.159.45
प्रभासं मानसं तीर्थ पुष्कराणि महत्सरः ।
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥ १३.१५९.४५ ॥
普拉巴萨、曼纳萨圣渡口、普什卡拉诸湖、大湖、神圣的那弥舍渡口、巴呼达河与卡拉托伊尼河。
13.159.46
गां हयशिरश्चैव विपाशां स्थूलवालुकाम् ।
तूष्णीं गङ्गां शनैर्गङ्गां महाह्रदमथापि च ॥ १३.१५९.४६ ॥
伽河、马首河、毗帕莎河、粗沙河、寂静的恒河、缓缓流淌的恒河,以及大水潭。
13.159.47
गोमतीं कौशिकीं पंपां महात्मानो धृतव्रताः ।
सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च ॥ १३.१५९.४७ ॥
哥玛提河、考希基河、潘帕河;坚守誓愿的大德者;萨罗室伐底河与德里沙陀伐蒂河、阎牟那河——以及前往这些圣河的人。
13.159.48
तत ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः ।
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥ १३.१५९.४८ ॥
于是他们容貌神圣,佩戴天界花环,吉祥,充满圣洁芳香而前行;持国啊,他们在那里并不存在。
13.159.49
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि ।
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥ १३.१५९.४९ ॥
那里没有寒冷的恐惧,也没有丝毫炎热的恐惧;没有饥渴,没有疲倦,没有苦,同样也没有乐。
13.159.50
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा ।
न जरामरणे तत्र न पुण्यं न च पातकम्। ॥ १३.१५९.५० ॥
那里没有可憎之人,也没有可爱之人;没有亲属,也没有仇敌。那里没有衰老,没有死亡,没有功德,也没有罪过。
13.159.51
तस्मिन्विरजसि स्फीते प्रज्ञासत्वव्यवस्थिते ।
स्वयम्भुभवने पुण्ये हस्तिनं यातयिष्यति ॥ १३.१५९.५१ ॥
在那清净、广大、安住于智慧与善性的自生者之圣殿中,他将使象(哈斯廷)被引导前往。
13.159.52
निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः ।
अध्यात्मयोगसंस्तानैर्युक्ताः स्वर्गगतिं गताः ॥ १३.१५९.५२ ॥
那些摆脱一切执着、自我约束、坚守誓愿、以内在瑜伽修习相应、已达天界之道的人——
13.159.53
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्विकाः ।
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥ १३.१५९.५३ ॥
这些善性之人从此得到神圣的梵天之居;大仙啊,在那里,你的持国是不可能被见到的。
13.159.54
रथन्तरं यत्र बृहच्च गीयते ।
यत्र वेदिः पुण्यजनैर्वृता च।
यत्रोपयाति हरिभिः सोमपीथी ।
तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ १३.१५९.५४ ॥
在那里唱诵《罗陀坦罗》与《布利哈特》,祭坛被圣者环绕,饮苏摩的因陀罗驾驭黄色骏马而来——我将使你与哈斯廷一同前往那里。
13.159.55
बुध्यामि त्वां वृत्रहणं शतक्रतुं ।
व्यतिक्रमन्तं भुवनानि विश्वा।
कच्चिन्न वाचा वृजिनं कदाचि-
दकार्षं ते मनसोऽभिषङ्कात् ॥ १३.१५९.५५ ॥
我知道你是因陀罗,斩杀弗栗多者、行百次祭祀者,超越一切世界。我是否曾以言语或心中的执着,对你有过冒犯?
13.159.56
शतक्रतुरुवाच ।
मघवाऽहं लोकपथं प्रजाना-
मन्वागमं परिवादे गजस्य ।
तस्माद्भवान्प्रणतं माऽनुशास्तु
ब्रवीषि यत्तत्करवाणि सर्वम् ॥ १३.१५९.५६ ॥
舍脱迦图说:我摩ghavan遵循众生的世间之道,在责备象的事情上我走的正是这条路。因此,对于向我低首谦恭的你,我不该发号施令;你所说的一切,我都会去做。
13.159.57
श्वेतं करेणुं मम पुत्रं हि नागं ।
प्रियं तु मे षष्टिवर्षं तु बालम्।
यो मे वने वसतोऽभूद्द्वितीय-
स्तमेव मे देहि सुरेन्द्र नागम् ॥ १३.१५९.५७ ॥
乔达摩说:那白色的象,我的儿子——我所珍爱的,六十岁的幼象。我住在林中时,它曾是我的第二个伴侣——正是那头象,哦诸神之主,请赐予我。
13.159.58
शतक्रतुरुवाच ।
अयं सुतस्ते द्विजमुख्यनाग
आघ्रायते त्वामभिवीक्षमाणः ।
पादौ च ते नासिकयोपजिघ्रते
श्रेयो ममाध्याहि नमश्च तेऽस्तु ॥ १३.१५९.५८ ॥
舍脱迦图说:这是你的儿子,那头象,二生者中最杰出的,它望着你并嗅着你。它还用鼻子嗅你的双脚。请赐予我福祉;向你致敬。
13.159.59
शिवं सदैवेह सुरेन्द्र तुभ्यं ।
ध्यायामि पूजां च सदा प्रयुञ्जे।
ममापि त्वं शक्र शिवं ददस्व ।
त्वया दत्तं प्रतिगृह्णामि नागम् ॥ १३.१५९.५९ ॥
乔达摩说:哦诸神之主,我在此常为你祈求福祉,并常行供奉。哦帝释,也请赐予我福祉。你所施予的这头象,我接受。
13.159.60
शतक्रतुरुवाच ।
येषां वेदा निहिता वै गुहायां
मनीषिणां सत्यवतां महात्मनाम् ।
तेषां त्वयैकेन महात्मनाऽस्मि
बुद्धस्तस्मात्प्रीतिमांस्तेऽहतद्य ॥ १३.१५९.६० ॥
舍悉羯图说:在那些智慧、诚实、伟大的人中,于其洞穴中藏有吠陀者,唯有你这大心者使我觉悟。因此今日我对你满意,使你不受伤害。
13.159.61
हन्तैहि ब्राह्मणि क्षिप्रं सह पुत्रेण हस्तिना ।
त्वं हि प्राप्तुं शुभाँल्लोकानह्नाय च चिराय च ॥ १३.१५९.६१ ॥
瞿昙说:婆罗门女,快去和你的儿子、大象一起杀吧;你将获得吉祥的世界,既是一日的,也是长久的。
13.159.62
स गौतमं पुरुस्कृत्य सह पुत्रेण हस्तिना ।
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥ १३.१५९.६२ ॥
他将瞿昙置于前,与其子及大象一同,持金刚者与善人们一起升往难以抵达的天界。
13.159.63
इदं यः शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः ।
स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा ॥ १३.१५९.६३ ॥
凡常闻此或诵读此、自制诸根者,往生梵天之界,如婆罗门瞿昙所往。