Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 13.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

13.16.1

द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः ।
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु ॥ १३.१६.१ ॥

かつてドヴァーラカーで、この最上の聖者が語ったように、ヴェーダとブラーフマナからなるヴァースデーヴァの本性を聞け。

13.16.2

यूपं विष्णुं वासुदेवं विजान-
न्सर्वान्विप्रान्बोधते तत्वदर्शि।
विष्णुं क्रान्तं वासुदेवं विजान-
न्विप्रो विप्रत्वं गच्छते तत्वदर्शी ॥ १३.१६.२ ॥

祭柱をヴィシュヌ、ヴァースデーヴァと知る真理を見る者は、すべてのブラーフマナを目覚めさせる。歩み進むヴィシュヌをヴァースデーヴァと知る真理を見るブラーフマナは、ブラーフマナの境地に至る。

13.16.3

विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः ।
कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च।
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण ।
एवं जानन्ब्राह्मणो ब्रह्म एति ॥ १३.१६.३ ॥

ヴィシュヌこそが供犠であり、供養されるのもヴィシュヌである。クリシュナはヴィシュヌであり、あまねき主もヴィシュヌである。クリシュナはヴェーダの支分であり、ヴェーダの言葉もクリシュナである。このように知るブラーフマナはブラフマンに至る。

13.16.4

स्थानं सर्वं वैष्णवं यज्ञमार्गे ।
चातुर्होत्रं वैष्णवं तत्र कृष्णः।
सर्वैर्भावैरिज्यते सर्वकामैः ।
पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति ॥ १३.१६.४ ॥

供犠の道におけるあらゆる場所はヴィシュヌに属する。そこでは四祭官もヴィシュヌに属し、そこにクリシュナがいる。あらゆる心の状態とあらゆる願いをもって、クリシュナは供養される。ブラーフマナは功徳の世界を得る。

13.16.5

सोमं सद्भावाद्ये च जातं पिबन्ति ।
दीप्तिं कर्म ये विदानाश्चरन्ति।
एकान्तमिष्टं चिन्तयन्तो दिविस्था-
स्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः ॥ १३.१६.५ ॥

真心をもって調えられたソーマを飲み、祭儀の輝きを知って行い、一心に愛しき者を念じ、天に住する、誓戒を知る人々こそが、その住処に至るのである。

13.16.6

ओमित्येतद्ध्यायमानो न गच्छे-
द्दुर्गं पन्थानं पापकर्मापि विप्रः।
सर्वं कृष्णं वासुदेवं हि विग्राः ।
कृत्वा ध्यानं दुर्गतिं न प्रयान्ति ॥ १३.१६.६ ॥

「オーム」と瞑想するバラモンは、罪深い行いをした者であっても困難な道へは行かない。すべてをクリシュナ・ヴァースデーヴァと観じた賢者たちは、悪しき運命に陥らない。

13.16.7

आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता ।
इच्छा पत्नी पत्निशाला हवींषि।
इध्याः पुरोडाशं सर्वदा होतृकर्ता ।
कृत्स्नं विष्णुं संविजानंस्तमेति ॥ १३.१६.७ ॥

清浄バターが供犠であり、スルクとスルヴァが供犠主である。願望が妻であり、妻の館が供物である。点火の薪と供犠の餅は常にホトリの務めである。全体のヴィシュヌを完全に知る者は、彼へと至る。

13.16.8

योगेयोगे कर्मणां चाभिहारे ।
युक्ते वैताने कर्मणि ब्राह्मणस्य।
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं ।
शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्ट ॥ १३.१६.८ ॥

諸祭儀を結び合わせるごとに、また供物を捧げるときに、バラモンの定められた吠陀祭(ヴァイターナ)において、繁栄のための祭儀によって祭儀の成就を得、鎮静のための祭儀によって完全な平安を得るべきである。