摩诃婆罗多 · 章 13.181
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.181.1
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान् ।
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः ॥ १३.१८१.१ ॥
这位勇士获得了刹帝利之法并铭记于心,他,哦国王,舍弃了虫子的形态,修行了巨大的苦行。
13.181.2
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः ।
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥ १३.१८१.२ ॥
见到那位通晓法与利的人的伟大苦行,那时,二生者中最优秀的黑仙(克利须那·二岛)来了。
13.181.3
क्षात्रादेव व्रतात्कीट भूतानां परिपालय ।
क्षात्रं देवव्रतं ध्यासंस्ततो विप्रत्वमेष्यसि ॥ १३.१८१.३ ॥
哦虫子,凭借刹帝利之誓来守护众生吧。把刹帝利之法视为天神之誓来观想,然后你将获得婆罗门的境界。
13.181.4
पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान् ।
शुभैः संविभजन्कामैरशुभानां च भावनैः ॥ १३.१८१.४ ॥
知善恶,克制自身,好好地守护一切臣民,给善人分配所愿之利,给恶人施加惩罚。
13.181.5
आत्मवान्भव सुप्रीतः स्वधर्माचरणे रतः ।
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥ १३.१८१.५ ॥
克制自身,心怀喜悦,乐于践行自己的法;彻底舍弃刹帝利之身之后,你将获得婆罗门的境界。
13.181.6
सोऽप्यरण्यादभिप्रेत्य पुनरेव युधिष्ठिर ।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन् ॥ १३.१८१.६ ॥
他也,哦坚战,再次从森林出来,听了大仙的话,依法守护着他的臣民。
13.181.7
अचिरेणैव कालेन कीटः पार्थिवसत्तम ।
प्रजापालनधर्मेणि प्रेत्य विप्रत्वमागतः ॥ १३.१८१.७ ॥
最好的君王啊,不久之后,那条虫凭借护卫臣民的法,死后得到了婆罗门的身份。
13.181.8
ततस्तं ब्राह्मणं द्रष्टुं पुनरेव महायशाः ।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥ १३.१८१.८ ॥
那时,大名远播、大智慧的黑毗耶娑又来拜访那位婆罗门。
13.181.9
भोभो ब्रह्मर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ १३.१८१.९ ॥
婆罗门仙人中最优秀者,尊贵的你,切勿以任何方式忧伤。行善者生于善胎,作恶者生于恶胎。
13.181.10
उपपद्यति धर्मज्ञ यथाधर्मं यथाव्रतम् ।
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन।
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम् ॥ १३.१८१.१० ॥
精通法的人啊,这是依照法与誓言而发生的。因此,虫啊,切勿因畏惧死亡而以任何方式忧伤。获得法没有比它更高的;所以你要修行最高的法。
13.181.11
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् ।
धर्ममूलं शुभं प्राप्य पाप्मा नष्ट इहाद्य मे ॥ १३.१८१.११ ॥
世尊啊,因为您,我得到了胜过快乐的快乐。获得了法之根本的吉祥,今日我的罪在此消除了。
13.181.12
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् ।
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्।
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥ १३.१८१.१२ ॥
凭着世尊的话,那条虫获得了难得的婆罗门身份,王啊,它使大地布满了数百根祭柱的标记。随后,这位梵智者中的最优者得到了与梵天同居的境界。
13.181.13
अथ पापहरं कीटः पार्त ब्रह्म सनातनम् ।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥ १३.१८१.१३ ॥
于是,这条虫得以证入消除罪业的永恒梵,依毗耶娑之言,获得了由自身业果所成就的境界。
13.181.14
कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः ।
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक ॥ १३.१८१.१४ ॥
在神圣的俱卢之野战死的诸位刹帝利勇士已得到了殊胜的归宿,因此,孩子,你不要为他们悲伤。