Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.192

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.192.1

परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम् ।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै ॥ १३.१९२.१ ॥

那些迷恋他人之妻、不娶妻室的人,其祖先在祭祀(śrāddha)之时便会失望。

13.192.2

परदाररतिर्यश्च यश्च वन्ध्यामुपासते ।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते ॥ १३.१९२.२ ॥

耽于他人之妻者、侍奉不育女子者、夺取婆罗门财物者——这些人同样有过失。

13.192.3

असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः ।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः ॥ १३.१९२.३ ॥

这些人连祖先也不愿与之交谈——此事毫无疑问。诸神与祖先都不会欣然接受他们的供品。

13.192.4

तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम् ।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता ॥ १३.१९२.४ ॥

因此,应当远离他人之妻与不育之女;求自身利益者,不应夺取婆罗门的财物。

13.192.5

श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् ।
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा ॥ १३.१९२.५ ॥

再听另一个秘密,蕴含法的奥义:有信心者应当始终遵从师长的教诲。

13.192.6

द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम् ।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत ॥ १३.१९२.६ ॥

在十二日与满月日,每月以酥油和完整的谷粒施予婆罗门者,其功德请听。

13.192.7

सोमश्च वर्धते तेन समुद्रश्च महोदधिः ।
अश्वमेधचतुर्भागं फलं सृजति वासवः ॥ १३.१९२.७ ॥

凭此布施,月神苏摩与大海皆得增长;因陀罗(婆娑婆)赐予马祠祭四分之一的果报。

13.192.8

दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः ।
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति ॥ १३.१९२.८ ॥

凭此布施,人得光明与力量;世尊苏摩欢喜,便赐予所愿的诸般欲求。

13.192.9

श्रूयतां चापरो धर्मः सरहस्यो महाफलः ।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः ॥ १३.१९२.९ ॥

请听另一法,连同其秘义,功德甚大;此法到了迦利时代,能为世人带来安乐。

13.192.10

कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा ।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः ॥ १३.१९२.१० ॥

若人清晨起身,沐浴后身着白衣,心意专一,以盛满芝麻的器皿布施婆罗门。

13.192.11

तिलोदकं च यो दद्यात्पितॄणां मधुना सह ।
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम् ॥ १३.१९२.११ ॥

请听那向祖先供奉混有蜂蜜的芝麻水、并布施灯火与 kṛsaṃra 者的果报(此处原文有缺)。

13.192.12

तिलपात्रे फलं प्राह भगवान्पाकशांसनः ।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम् ॥ १३.१९२.१२ ॥

关于布施芝麻器皿的果报,世尊帕卡夏萨那(因陀罗)已宣说;布施牛与土地者,得永恒之果。

13.192.13

अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् ।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः ॥ १३.१९२.१३ ॥

凡行阿格尼输图玛祭或布施丰厚酬金之祭者,诸神视其功德与此赠芝麻器之施舍相等。

13.192.14

तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम् ।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः ॥ १३.१९२.१४ ॥

在施食祭中,祖先们始终视掺有芝麻的水为不尽之物;以灯与粥饭,他的祖父辈便得满足。

13.192.15

स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् ।
एवमेतन्मयोद्दिष्टपिदृष्टं पुरातनम् ॥ १३.१९२.१५ ॥

此事在天界与祖界为众祖与诸神所尊奉——正如我所宣说,此乃自古所见的旧法。