摩诃婆罗多 · 章 13.195
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.195.1
ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः ।
उवाच वचनं देवान्वासवं च शचीपतिम् ॥ १३.१९५.१ ॥
于是,如莲花般光辉、生于莲花的祖父,对诸神和舍遮之夫婆娑婆说了这些话。
13.195.2
अयं महाबलो नागो रसातलचरो बली ।
तेजस्वी रेणुको नाम महासत्वपराक्रमः ॥ १३.१९५.२ ॥
这位大力的蛇族,行走于下界罗萨塔拉,强健而光辉,名为雷努卡,具有巨大的勇气与威力。
13.195.3
अतितेजस्विनः सर्वे महावीर्या महागजाः ।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् ॥ १३.१९५.३ ॥
这些极其光辉、威力巨大的大象,承载着整个大地,连同其山岳、森林与林园。
13.195.4
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान् ।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै ॥ १३.१९५.४ ॥
既蒙你们允许,愿雷努卡前往那些大象之处,在那里询问一切法的秘义。
13.195.5
पितामहवचःक श्रुत्वा ते देवा रेणुकं तदा ।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः ॥ १३.१९५.५ ॥
诸神听了祖父的话,便从容地派遣雷努卡前往那些承载大地的大象所在之处。
13.195.6
अनुज्ञातोऽस्मि देवैश्च पितृभिस्चक महाबलाः ।
धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः।
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् ॥ १३.१९५.६ ॥
诸神与祖先已经允许我前来。噢,大力者们,我愿如实聆听你们所讲的法的秘义。噢,大福德者们,请说出你们所愿说的真实义理。
13.195.7
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा ।
तेन नक्षत्रयोगेन यो ददाति गुडौदनम्।
इमं मन्त्रं जपच्छ्राद्धे यताहारो ह्यकोपनः ॥ १३.१९५.७ ॥
在迦尔提伽月,黑半月吉祥的第八日,在毕宿(Āśleṣā)星宿相合之时,供奉糖饭者应在祭祖仪式中念诵此咒,饮食节制,不生嗔怒。
13.195.8
बलदेवप्रभृतयो ये नागा बलवत्तराः ।
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः ॥ १३.१९५.८ ॥
以大力罗摩(Baladeva)为首的诸蛇,力量极大:无尽者、不坏者,常有多头,具有大力。
13.195.9
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः ।
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये ॥ १३.१९५.९ ॥
愿那些出自其族的大神蛇,为我供奉祭品,以增长我的力量与光辉。
13.195.10
यदा नारायणः श्रीमानुज्जहार वसुन्धराम् ।
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा ॥ १३.१९५.१० ॥
当吉祥的那罗延(Nārāyaṇa)举起大地时,那位神的那份力量,以及托举大地时的同样力量,显现出来。
13.195.11
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् ॥ १३.१९५.११ ॥
说完这些话后,应在那里的蚁丘上供奉祭品。
13.195.12
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् ।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे ॥ १३.१९५.१२ ॥
此供品以象王之花铺满,配以深色布帛与香油,应在日落之后供奉于蚁丘之上。
13.195.13
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः ।
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम् ॥ १३.१९५.१३ ॥
如此满足之时,我们众人在下方被重负所压,却未觉察到托持大地时的那份疲惫。
13.195.14
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः ॥ १३.१९५.१४ ॥
如此,我们众人虽为重负所苦,仍自认为超然,若婆罗门、刹帝利、吠舍或首陀罗持斋。
13.195.15
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् ।
वल्मीके बलिमादाय तन्नो बहुफलं मतम् ॥ १३.१९५.१५ ॥
如此布施一年,便能获得极大的福报;我们认为在蚁垤上献上供品,也能结出大果。
13.195.16
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः ।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः ॥ १३.१९५.१६ ॥
那些在三界中完全受到款待的大力诸龙,愿他们真正如此安住一百年。
13.195.17
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा ।
ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् ॥ १३.१९५.१७ ॥
诸方象王闻此言后,天神、祖灵以及大福的仙人们便敬奉了雷努卡。