摩诃婆罗多 · 章 13.197
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.197.1
ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः ।
नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः ॥ १३.१९७.१ ॥
此法亦为我所许可,请专心聆听:以青牛之角取泥者……
13.197.2
अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत ।
शोधयेदशुभं सर्वमाधिपत्यं परत्र च ॥ १३.१९७.२ ॥
理解他的法:应行灌顶三日,净除一切不吉,及此世与彼世的主权。
13.197.3
यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति ।
इदं चाप्यपरं गुह्यं सरहस्यं निबोधत ॥ १३.१९७.३ ॥
凡人生于世间,他便将成为勇士。也请知道这另一个秘密及其奥义。
13.197.4
प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह ।
सोमस्योत्तिष्ठमानस्यि पौर्णमास्यां बलिं हरेत् ॥ १३.१९७.४ ॥
手持无花果木制的器皿,在满月之日,月神升起时,以蜜拌熟食供奉。
13.197.5
तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत ।
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ ॥ १३.१९७.५ ॥
以信心常知此仪式的法果:萨提亚、楼陀罗、阿迭多、毗首提婆及双马童。
13.197.6
मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम् ।
सोमश्च वर्धते तेन समुद्रश्च महोदधिः ॥ १३.१९७.६ ॥
风神与婆苏接受此供品;因此月神增长,大海也增长。
13.197.7
एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः ॥ १३.१९७.७ ॥
此法由我宣说,连同其秘义,能带来安乐。
13.197.8
धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् ।
ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा ॥ १३.१९७.८ ॥
诸天与大德仙人的一切法之秘义,若人每日诵读此分,常常如此。
13.197.9
शृणुयाद्वाऽनसूयुर्यः श्रद्दधानः समाहितः ।
नास्य विघ्नः प्रभवति भयं चास्य न विद्यते ॥ १३.१९७.९ ॥
若人无嫉、有信、专心听此,则无障碍生起于彼,彼亦无恐惧。
13.197.10
ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः ।
तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः ॥ १३.१९७.१० ॥
诸善功德之法连同秘义所说,其法果归于诵读之的调伏诸根之人。
13.197.11
नास्य पापं प्रभवति न च पापेन लिप्यते ।
पठेद्वा श्रावयेद्वाऽपि श्रुत्वा वा लभते फलम् ॥ १३.१९७.११ ॥
罪不生于彼,彼亦不为罪所染。若自诵、教人诵,或闻之,皆得其果。
13.197.12
भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम् ।
श्रावयंश्चापि विप्रेन्द्रान्पर्वसु प्रयतो नरः ॥ १३.१९७.१२ ॥
祖先与诸天享用天祭与祖祭,此二者不可穷尽,当精进之人于节日令上首婆罗门闻之时。
13.197.13
ऋषीणां देवतानां च पितॄणां चैव नित्यदा ।
भवत्यभिमतः श्रीमान्धर्मेषु प्रयतः सदा ॥ १३.१९७.१३ ॥
始终谨慎地行于法事之人,必为诸仙、诸神与祖灵所爱重,并得光耀。
13.197.14
कृत्वाऽपि पापकं कर्म महापातकवर्जितम् ।
रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते ॥ १३.१९७.१४ ॥
纵使曾作恶业,若未犯大罪,闻此秘密之法,便可脱离一切罪过。
13.197.15
एतद्धर्मरहस्यं वै देवतानां नराधिप ।
व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् ॥ १३.१९७.१५ ॥
王者啊,此乃诸神之法的秘密,由毗耶娑所传,我今宣说;它受到一切诸神的礼敬。
13.197.16
पृथिवी रत्नसंपूर्णा ज्ञानं चेदमनुत्तमम् ।
इदमेव ततः श्राव्यमिति मन्येत धर्मवित् ॥ १३.१९७.१६ ॥
纵使大地充满珍宝,此智慧仍为无上;通晓法者应视此为唯一当闻之事。
13.197.17
नाश्रद्दधानाय न नास्तिकाय ।
न नष्टधर्मायि न निर्घृणाय।
न हेतुदुष्टाय गुरुद्विषे वा ।
नानात्मभूताय निवेद्यमेतत् ॥ १३.१९७.१७ ॥
此法不可传给无信者、无神论者、失法者、无慈悲者、为辩论所蔽者、仇视师长者,或心志散乱者。