摩诃婆罗多 · 章 13.200
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.200.1
दानेन वर्ततेत्याह तपसा चैव भारत ।
तदेतन्मे मनोदुःशं व्यपोह त्वं पितामह।
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति ॥ १३.२००.१ ॥
坚战说:婆罗多的后裔啊,人们说这是通过布施,也通过苦行而成就的。祖父啊,请消除我心中的这个疑惑。在大地上,这究竟是什么?唯有您才有资格为我宣说。
13.200.2
शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः ।
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः ॥ १३.२००.२ ॥
毗湿摩说:你听着。那些奉行达摩、以苦行净化自我、喜好布施与功德的国王,无疑都已到达了至上的世界。
13.200.3
सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य तदा राजन्गतो लोकाननुत्तमान् ॥ १३.२००.३ ॥
毗湿摩说:阿特蕾耶受到尊敬,向弟子们讲授了无属性的梵,然后,国王啊,便前往至上的世界。
13.200.4
शिबिरोशीनरः प्राणान्प्रियस्य तनयस्य च ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ १३.२००.४ ॥
毗湿摩说:乌希那罗之子尸毗,为了一位婆罗门,献出了自己的生命和心爱儿子的生命,然后从此处前往天界之背。
13.200.5
प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥ १३.२००.५ ॥
毗湿摩说:迦尸之主补罗达那,将自己的儿子布施给婆罗门,在此世和彼世都获得了无比的声名。
13.200.6
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ।
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् ॥ १३.२००.६ ॥
毗湿摩说:桑克里提之子然提提婆,依礼向大德婆悉瑟吒献上阿尔希耶,因而获得了至上的世界。
13.200.7
दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् ।
छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् ॥ १३.२००.७ ॥
德瓦夫利陀将一把用于祭祀的、有百根伞骨的神圣金伞布施给婆罗门后,升往天界。
13.200.8
भगवानम्बरीषश्च ब्राह्मणायामितौजसे ।
प्रदाय सकलं राष्ट्रं सुरोलकमवाप्तवान् ॥ १३.२००.८ ॥
尊贵的安巴利沙将整个王国布施给力量无量的婆罗门,从而得到了天神的世界。
13.200.9
सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः ।
ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान् ॥ १३.२००.९ ॥
萨维特拉布施了一只神圣的耳环,遮那梅阁耶布施了神圣的车辆和牛给婆罗门,于是前往无上的世界。
13.200.10
वृषादर्भिश्च राजर्षी रत्नानि विविधानि च ।
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः ॥ १३.२००.१० ॥
王仙伐沙达尔毗将各种宝物和美丽的住所布施给再生者,于是升到天界。
13.200.11
निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने ।
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः ॥ १३.२००.११ ॥
尼弥将王国、维达巴国王将女儿布施给大德阿伽斯蒂亚,二人连同子嗣、牲畜与亲属升往天界。
13.200.12
जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः ।
रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान् ॥ १३.२००.१२ ॥
大名的耶摩达格尼之子罗摩将土地布施给婆罗门,前往超越意念的不灭世界。
13.200.13
अवर्षति च पर्जन्ये सर्वभूतानि देवराट् ।
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् ॥ १३.२००.१३ ॥
天不降雨,云不致雨,众生受苦;婆悉吒使他们复活,因此他得到了不灭之境。
13.200.14
रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु ।
सगतो ह्यक्षयाँल्लोकान्यस्य लोके महद्यशः ॥ १३.२००.१४ ॥
十车王之子罗摩在祭祀中献上财物,因此得到不灭之世界;他的伟大名声在世间流传。
13.200.15
कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने ।
न्यासं यथावत्संन्यस्य जगामि सुमहायशः ॥ १३.२००.१५ ॥
王仙迦叉赛那将所托之物如数交付给大德婆悉吒后离去;他的声名极为显赫。
13.200.16
करंधमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः ।
कन्यामाङ्गिरसे दत्त्वा दिवामाशु जगाम सः ॥ १३.२००.१६ ॥
Karaṃdhama之孙、Avikṣit之子Marutta将女儿嫁给Āṅgirasa后,迅速升往天界。
13.200.17
ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतांवरः ।
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् ॥ १३.२००.१७ ॥
般遮罗国王梵授,乃持法者中最优者,向宝藏尼提与法螺商迦告别后,抵达至高之境。
13.200.18
राजा मित्रसहश्चैव वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः ॥ १३.२००.१८ ॥
Mitrasaha王将所爱之妻Madayantī施予大德婆悉吒后,升往三界天界。
13.200.19
मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने ।
दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान् ॥ १३.२००.१९ ॥
摩奴之子苏提尤摩为大德利吉陀承受刑杖,依法升往无上的世界。
13.200.20
सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ १३.२००.२० ॥
大名的王仙萨哈斯拉奇提亚为婆罗门舍弃了他所爱的生命之气,升往无上的世界。
13.200.21
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ १३.२००.२१ ॥
国王舍塔迪俞摩将充满一切欲望的金宫赠予毛德伽利耶后,升往天界。
13.200.22
भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान् ।
शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः ॥ १३.२००.२२ ॥
苏曼尤昔日将如山般堆积的饮食供奉给占底利耶,遂升入天界。
13.200.23
नाम्ना च द्युतिमान्नाम साल्वराजो महाद्युतिः ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ १३.२००.२३ ॥
名为迪尤蒂玛特的萨尔瓦王,光辉伟大,将王国交予列奇迦后,升往无上的世界。
13.200.24
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् ॥ १३.२००.२४ ॥
王仙摩提拉诗瓦将一位细腰少女赠予希兰雅哈斯塔,遂升往诸神所主的世界。
13.200.25
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत ॥ १३.२००.२५ ॥
王仙洛摩怕陀(Lomapāda)作为威严的君主,把女儿善他(Śāntā)嫁给了鹿角仙(Ṛśyaśṛṅga),并使他享有各种丰厚的欢乐。
13.200.26
कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् ।
गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः ॥ १३.२००.२६ ॥
王仙婆吉罗陀(Bhagīratha)把名为海姆西(Haṃsī)的著名少女嫁给考特萨(Kautsa),随后前往不灭的世界。
13.200.27
दत्त्वा शतसहस्रं तु गवां राजा भगीरथः ।
स वत्सानां कोहलाय गतो लोकाननुत्तमान् ॥ १३.२००.२७ ॥
国王婆吉罗陀把十万头牛连同牛犊施给考诃罗(Kohala),然后前往至高的世界。
13.200.28
एते चान्ये च बहवो दानेन तपसा च ह ।
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनःपुनः ॥ १३.२००.२८ ॥
युधिष्ठिर啊,他们以及其他许多人凭布施与苦行升入天界,但他们一次又一次地返回。
13.200.29
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः ॥ १३.२००.२९ ॥
那些以布施与苦行征服诸世界的居家者,其名声将永远确立,只要大地存在。
13.200.30
शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर ।
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः ॥ १३.२००.३० ॥
युधिष्ठिर啊,这便是我向你讲述的贤者行为;他们凭布施、祭祀与生育子嗣而升入天界。
13.200.31
दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर ।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी ॥ १३.२००.३१ ॥
库鲁族的栋梁啊,愿你的智慧常常专注于布施与祭祀的仪式,并增进法。
13.200.32
यत्र ते नृपशार्दूल सन्देहो वै भविष्यति ।
श्वः प्रभाते हि वक्ष्यामि सन्ध्या हि समुपस्थिता ॥ १३.२००.३२ ॥
王中之虎啊,凡你心中有疑惑之事,我明晨黎明时再为你讲说,因为黄昏已经来临。