Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.202

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.202.1

अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः ।
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः ॥ १३.२०२.१ ॥

大智者以吉祥之言教导后,对毗湿摩说道。尤迪什提腊满怀爱意,渴望聆听,再次听取了他的话语。

13.202.2

पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् ।
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम् ॥ १३.२०२.२ ॥

婆罗门中的仙人啊,那时国王就众人的福祉,向正走向时间之手的我的祖父毗湿摩问了什么?

13.202.3

उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम् ।
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे ॥ १३.२०२.३ ॥

请告诉我那适合两个世界的至上人生目标,大智者啊,我很想听闻。

13.202.4

भूय एव महाराज शृणु धर्मसमुच्चयम् ।
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १३.२०२.४ ॥

大王,请再听那关于法的汇集,那是贡蒂之子尤迪什提腊当时所问的。

13.202.5

शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ ।
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत ॥ १३.२०२.५ ॥

在所有国王面前,对躺在箭床上的毗湿摩,阿遮多设睦(尤迪什提腊)心怀喜悦,再次开口。

13.202.6

पितामह महाप्राज्ञ सर्वशास्त्रविशारदः ।
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम् ॥ १३.२०२.६ ॥

祖父啊,大智者,通晓一切经典,请听我的言语;因我恳请,故我才开口。

13.202.7

परावरज्ञो भूतानां दयावान्सर्वजन्तुषु ।
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले ॥ १३.२०२.७ ॥

您通晓众生的过去与未来,对一切生灵怀有慈悲,因诸多传承教义而欢喜,您是我们家族中最尊贵的人。

13.202.8

त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः ।
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो ॥ १३.२०२.८ ॥

当今世上像您这样兼具智慧的人十分稀少;主上,我们有您这样的老师,也是有福的。

13.202.9

अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः ।
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ ॥ १३.२०२.९ ॥

此时已经到来,人中之牛啊:在我们这些难得的亲族之中,除了您,我们没有其他的导师。

13.202.10

तस्माद्धर्मार्थसहितमायत्यां च हितोदयम् ।
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत ॥ १३.२०२.१० ॥

因此,婆罗多啊,我愿听闻那殊胜而奇妙的言教,它兼具法与利,将来能带来福利。

13.202.11

अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ ।
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते ॥ १३.२०२.११ ॥

这位尊贵的那罗延,在诸王面前,以极大的敬重与爱意侍奉您。

13.202.12

अस्यैव तु समक्षं नः पार्तिवानां तथैव च ।
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम् ॥ १३.२०२.१२ ॥

在他面前,在我们与诸王之前,历史与古传故事对听闻者来说是最大的福利。

13.202.13

यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि ॥ १३.२०२.१३ ॥

无罪者啊,若你值得我的恩宠,便与诸兄弟一道,为了我的欢喜,婆罗多之后啊,你应当出于慈爱而说。

13.202.14

तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः ।
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत् ॥ १३.२०२.१४ ॥

闻其言已,因慈爱而情动难抑,望着他仿佛被缚住一般,毗湿摩说了这些话。

13.202.15

शृणु राजन्पुरावृत्तिमितिहासं पुरातनम् ।
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम्।
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत् ॥ १३.२०२.१५ ॥

“大王,请听古老的传说,往昔的历史。”说完这些,恒河之子以头向哈利致敬,望着法王,又开始重新说道。