摩诃婆罗多 · 章 13.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.21.1
विनता पुत्रशोकार्ता शापाद्भीता च भारत ।
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत् ॥ १३.२१.१ ॥
婆罗多啊,毗娜塔因爱子之痛和诅咒而恐惧,她等待着她的儿子所说的那个时刻。
13.21.2
ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे ।
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली ॥ १३.२१.२ ॥
此后五百年过去,在时间的交会之际,大勇的金翅鸟诞生了,他是食蛇者,强大有力。
13.21.3
बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् ।
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः ॥ १३.२१.३ ॥
面容俊美,有冠羽,羽毛为鞘,爪如龟甲,身形巨大,目赤,颈粗,足短,头大。
13.21.4
यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ ।
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि ॥ १३.२१.४ ॥
而那从蛋中破壳而出的,婆罗多族的雄牛啊,是毗娜塔的长子阿伦那;他可在天空中见到。
13.21.5
पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति ।
अरुणोऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः ॥ १३.२१.५ ॥
他朝向东方,走向太阳升起之处。阿伦那如同红色的晨光,因此以“阿伦那”之名被人铭记。
13.21.6
जातमात्रस्तु विहगो गरुडः पन्नगाशनः ।
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः ॥ १३.२१.६ ॥
金翅鸟刚一出生,这只食蛇之鸟便离开了母亲,迅速飞向四面八方。
13.21.7
स तदा ववृधेऽतीव सर्वकामैः कदाऽर्चितः ।
पितामहविसृष्टेन भोजनेन विशांपते ॥ १३.२१.७ ॥
于是他因一切所愿之物而受尊敬,又因祖父所送的食物而极度成长,人主啊。
13.21.8
तस्मिंश्च विहगे तत्र यथाकामं विवर्धति ।
कद्रूश्च विनता चैवागच्छतां सागरं प्रति ॥ १३.२१.८ ॥
那鸟在那里随意成长,而迦都卢与毗娜塔正走向大海。
13.21.9
ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात् ।
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् ॥ १३.२१.९ ॥
二人看见乌恰依什罗婆斯马从近处经过,它已沐浴,急速回旋,并且饮过水。
13.21.10
ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत् ।
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे ॥ १३.२१.१० ॥
于是迦都卢笑着对毗娜塔说:“这匹马是什么颜色?美人啊,请说说你认为它是什么颜色。”
13.21.11
एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम ।
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि ॥ १३.२१.११ ॥
王后啊,这匹马是单一颜色;依我看它全白。聪慧的人啊,你认为它是什么颜色?
13.21.12
सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः ।
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि ॥ १३.२१.१२ ॥
你认为这匹最好的马是全白的。吉祥的人啊,请说;女士,我们就颜色的不同打个赌吧。
13.21.13
यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति ।
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया ॥ १३.२१.१३ ॥
高贵的女子啊,若你与我博弈,我们的赌注是什么?她知道后便下注;知道后,你在赌注中……
13.21.14
जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे ।
नैकवर्णैकवर्णत्वे विनते रोचते च ते ॥ १३.२१.१४ ॥
若你输了,你将成为我的奴婢;我也一样,黑眼睛的人啊。以一色为一色,维娜达,你喜欢吗?
13.21.15
रोचते मे पणे राज्ञि दासीत्वेन न संशयः ।
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम् ॥ १३.२१.१५ ॥
王后啊,以赌注而为奴婢,我甚喜欢,此无疑问。坚守真理,愿你安好;我也将坚守真理。