摩诃婆罗多 · 章 13.224
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.224.1
भगवन्देवदेवेश लोकपालनमस्कृत ।
प्रसादात्ते महादेव श्रुता मे कर्मणां गतिः ॥ १३.२२४.१ ॥
尊贵者啊,诸神之神,受世界守护者礼敬!大天神啊,蒙您恩典,我已听闻业行之道。
13.224.2
सङ्गृहीतं च तत्सर्वं तत्वतोऽमृतसंनिभम् ।
कर्मणा ग्रथितं सर्वमिति वेद शुभाशुभम् ॥ १३.२२४.२ ॥
我已如实领会这一切,它犹如甘露。一切皆由业所织就;善与恶,我皆知晓。
13.224.3
गोवत्सवच्च जननीं निम्नं सलिलवत्तथा ।
कर्तारं स्वकृतं कर्म नित्यं तदनुधावति ॥ १३.२२४.३ ॥
如小牛追随其母牛,如水向低处流,自己所作之业常常追随其作者。
13.224.4
कृतस्य कर्मणश्चेह नाशो नास्तीति निश्चयः ।
अशुभस्य शुभस्यापि तदप्युपगतं मया ॥ १३.२२४.४ ॥
我坚信此间所作之业永不消灭;此事我也已承认,无论善业还是恶业。
13.224.5
भूय एव महादेव वरद प्रीतिवर्धन ।
कर्मणां गतिमाश्रित्य संशयान्मोक्तुमर्हसि ॥ १३.२२४.५ ॥
大天神啊,赐福者,增益喜乐者!请再以业行之道为依据,将我从疑惑中解脱。
13.224.6
यत्ते विवक्षितं देवि गुह्यमप्यसितेक्षणे ।
तत्सर्वं निर्विशंका त्वं पृच्छ मां शुभलक्षणे ॥ १३.२२४.६ ॥
凡你想说的,哪怕是秘密,黑眼睛的女神啊,请毫无顾虑地问我,吉相者啊!
13.224.7
एवं व्यवस्थिते लोके कर्ममां वृषभध्वज ।
कृत्वा तत्पुरुषः कर्म शुभं वा यदि वेतरत् ॥ १३.२२४.७ ॥
啊,持牛旗者!世界既如此安排,人若行善或相反之事之后……
13.224.8
कर्मणः सुकृतस्येह कदा भुङ्क्ते फलं पुनः ।
इह वा प्रेत्य वा देव तन्मे शंसितुमर्हसि ॥ १३.२२४.८ ॥
啊,天神!善业之果何时再次在此或死后享受?你应当告诉我。
13.224.9
स्थाने संशयितं देवि तद्धि गुह्यतमं नृषु ।
त्वत्प्रियार्थं प्रवक्ष्यामि देवि गुह्यं शुभानने ॥ १३.२२४.९ ॥
啊,女神!此疑问确有道理,因为这在人类中是最秘密的。为了你所爱的缘故,啊,美面的女神,我将宣说这秘密。
13.224.10
पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः ।
इहैव यत्कृतं पुंसां तत्परत्र फलिष्यतै।
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥ १३.२२४.१० ॥
众生在此享受前身所作之业;人在此所作,将在来世结果。女神啊,此规则唯见于人类。
13.224.11
देवानामसुराणां च अमरत्वात्तपोबलात् ।
एकेनैव शरीरेण भुज्यते कर्मणां फलम्।
मानुषैर्न तथा देवि अन्तरं त्वेतदिष्यते ॥ १३.२२४.११ ॥
诸天与阿修罗因不死及苦行之力,业果在同一身体中受用。人则不然,女神啊,这被视为其区别。