摩诃婆罗多 · 章 13.240
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.240.1
भगवन्सर्वभूतेश पुरमर्दन शङ्कर ।
श्रुतं पापकृतां दुःखं यमलोके वरप्रद ॥ १३.२४०.१ ॥
尊贵的主,众生之主,毁灭城池者,湿婆啊,我听说作恶之人在阎摩界受苦,赐予恩惠者啊。
13.240.2
श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम् ।
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर ॥ १३.२४०.२ ॥
神啊,我想听听行善之人在天界如何享受快乐,伟大的主啊。
13.240.3
कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् ।
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे ॥ १३.२४०.३ ॥
行善之人所居的世界据说是怎样的?天神之主啊,请告诉我,我非常渴望听闻。
13.240.4
शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने ।
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः ॥ १३.२४०.४ ॥
听着,吉祥的女神啊,你所愿的,我都会告诉你,光辉的女神啊。功德之界有多种,它们已成为可以行动的境界。
13.240.5
मेरुं हि कनकात्मानं परितः सर्वतोदिशम् ।
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा ॥ १३.२४०.५ ॥
在金色的须弥山四周,各个方向,有跋陀罗溯、鸡头摩罗,以及北俱卢洲。
13.240.6
जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः ।
तेषु भूत्वा स्वयंभूताः प्रदृश्यते यतस्ततः ॥ १३.२४०.६ ॥
阎浮林等诸天,据说已离于业;在那里,自生的众生处处可见。
13.240.7
योजनानां सहस्रं च एकैकं मानमात्रया ।
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः ॥ १३.२४०.७ ॥
那里每处绵延千由旬,四面八方总有开花结果的树木。
13.240.8
आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः ।
द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः।
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान् ॥ १३.२४०.८ ॥
衣饰悬挂,皆如黄金般闪耀;那里的蜜蜂与飞鸟,色如珊瑚宝石,奇异而可爱,以鸣声点缀着它们。
13.240.9
कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः ।
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः ॥ १३.२४०.९ ॥
被莲花丛覆盖的美丽莲池;那里常有微风吹拂,带来神圣的芬芳与喜悦。
13.240.10
सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः ।
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः ॥ १३.२४०.१० ॥
众人皆戴不凋的花环,身披洁净的衣裳;女神啊,如此多样的神圣享乐,都带来快乐。
13.240.11
स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः ।
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः ॥ १३.२४०.११ ॥
男女凡行善者,皆在那里怀着爱欲与情意,彼此欢娱。
13.240.12
मनोहरा महाभागाः सर्वे ललितकुण्डलाः ।
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः ॥ १३.२४०.१२ ॥
皆俊美而大有福分,耳戴精巧的耳环;如此居住在那里的凡间女子,容貌可爱,令人喜悦。
13.240.13
नानाभावसमायुक्ता यौवनस्थाः सदैव तु ।
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा ॥ १३.२४०.१३ ॥
具备种种情态、常住青春的年轻女子在那里被创造出来,生于欲望,也都温婉可爱。
13.240.14
मनोनुकूला मधुरा भोगिनामुपकल्पिताः ।
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा ॥ १३.२४०.१४ ॥
合乎心意、甜美,为享乐者而备的美女,也同样在天界中生起。
13.240.15
एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम् ।
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः ॥ १३.२४०.१५ ॥
这样的女子与男子在此彼此欢娱,以健全的诸根和为享乐而修饰的身体。
13.240.16
कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये ।
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने ॥ १३.२४०.१६ ॥
熟习欲望与喜悦之德,爱人啊;此处没有愤怒等其他德性,也没有饥渴,美丽的人啊,也没有身体的苦恼。
13.240.17
सर्वतो रमणीयं च सर्वत्र कुसुमान्विम् ।
यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः।
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः ॥ १३.२४०.१७ ॥
四面皆可爱,处处饰以繁花;只要福报尚存,便可见众多伴侣相随。享有不断欢愉的天界居民在此欢娱。
13.240.18
तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः ।
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये ॥ १३.२४०.१८ ॥
在那里依其所宜享受诸般欢乐之后,因福报耗尽,爱人啊,他们在再次投生时便连同身体一起骤然消亡。
13.240.19
स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः ।
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते ॥ १३.२४०.१९ ॥
从天界坠落的人,会再次投生于人间;由于前世功德的余留,他们以殊胜之身降生。
13.240.20
एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि ।
अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये।
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् ॥ १३.२४०.२० ॥
夫人,这便是你所问的天界之道。现在听我说此上的八处,爱人——以善业而得的功德之所,具足享乐,层层相叠而高起。
13.240.21
विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः ।
अप्सरोदानवा देवा यथाक्रममुदाहृताः ॥ १३.२४०.२१ ॥
毗陀罗、紧那罗、夜叉、乾闼婆、紧那罗女、阿修罗女、檀那婆与诸天——依次如此说。
13.240.22
तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः ।
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः ॥ १३.२४०.२२ ॥
在那些处所,行善业的有情得以降生;而他们的世界也被称为与天界相似。
13.240.23
स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च ।
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा ॥ १३.२४०.२३ ॥
在那里,他们如在天界一般享受欢乐并喜悦其中;他们皆具足容貌、精力与力量,且都长寿。
13.240.24
तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते ।
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम् ॥ १३.२४०.२४ ॥
他们一切作为的开端,看来如同人间一般;此处超越人间的权势,乃由幻化之力所造。
13.240.25
जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते ।
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा ॥ १३.२४०.२५ ॥
在那些处所也能看到衰老、出生与死亡;这里有德与过,也有飞行于天空。
13.240.26
अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम् ।
तपोविशेषज्जायन्ते यथा कर्म्णि भामिनि ॥ १३.२४०.२६ ॥
隐形、力量、精气、寿命与长寿,皆由特殊的苦行而生,如同由业而生,美丽的女子啊。
13.240.27
देवलोके प्रवृत्तिस्तु तेषामेव विधीयते ।
न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः ॥ १३.२४०.२७ ॥
在天界,只为他们规定了行止;天界并非如此,因为被这些特质所区别的诸神才被记述。
13.240.28
तत्र भोगमनिर्देश्यममृतत्वं च विद्यते ।
विमानगमनं नित्यमप्सरोगणसेवितम् ॥ १३.२४०.२८ ॥
那里有难以言说的享乐与不死;常乘天车往来,有众多天女侍奉。
13.240.29
एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते ।
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम् ॥ १३.२४०.२९ ॥
如此,那另一种业又胜过诸神;天界中的一切行止,你都已明见。
13.240.30
तस्मान्न वर्णये देवि विदितं च त्वया शुभे ।
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम् ॥ १३.२४०.३० ॥
因此,女神啊,我不再细说;吉祥的你已经知道了。这一切,以及至高之位,唯有以善业才能获得。