Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.248

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.248.1

एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः ।
अनुकूलां प्रियां भार्यां पार्श्वस्तामभ्यभाषत ॥ १३.२४८.१ ॥

如此说罢,愿意倾听的主神摩诃提婆对站在身旁的、顺从而可爱的妻子说道。

13.248.2

परावरज्ञे धर्माणां तपोवननिवासिनाम् ।
दीक्षाविधिदमोपेते सततं व्रतचारिणि।
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥ १३.२४८.२ ॥

你啊,知晓诸法之上下,居于苦行林中,具备入门仪轨与克己之德,恒常持守誓戒,美腰之人啊,我问你;既被问,就告诉我所愿知之事。

13.248.3

सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा ।
लक्ष्मीर्विष्णोः प्रिया भार्या धृतिर्भार्या यमस्य तु ॥ १३.२४८.३ ॥

萨维德丽是梵天之妻;吉祥的舍基是憍尸迦(因陀罗)之妻;吉祥天是毗湿奴的爱妻,持国是阎摩之妻。

13.248.4

मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु ।
वरुणस्य प्रिया गौरी सवितुश्च सुवर्चला ॥ १३.२४८.४ ॥

达摩尔纳是摩根德耶之妻;悉迭是毗舍罗婆那(俱毗罗)之妻;高丽是伐楼那所爱之妻,苏婆尔遮罗是萨维特利之妻。

13.248.5

रोहिणी शशिनो भार्या स्वाहा चाग्नेरनिन्दिता ।
काश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती ॥ १३.२४८.५ ॥

罗希尼是月神之妻,无可指摘的娑诃是火神之妻;迦叶波之妻是阿底提,婆私吒之妻也是阿伦达蒂。

13.248.6

एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः ।
श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः ॥ १३.२४८.६ ॥

这些与其他女神,都以丈夫为神祇,闻名于世,并且也曾与你一同居住。

13.248.7

ताभिश्च पूजिताऽपि त्वमनुवृत्त्यनुभाषणैः ।
तस्मात्तु परिपृच्छामि धर्मज्ञे लोकसम्मते ॥ १३.२४८.७ ॥

她们尊敬你,你也以顺从的举止和悦耳的言语尊敬她们。因此,知法的、为世人所尊敬的你,我要问你。

13.248.8

स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम् ।
सध्रमचारिणी मे त्वं लोकसन्धारिणी तथा ॥ १३.२४८.८ ॥

我想听你刚才所讲的女人之法。你是我的法侣,也是承载世界的人。

13.248.9

अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति ।
त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणम् ॥ १३.२४८.९ ॥

这群女子跟随你,不肯离去。承蒙你的恩惠,聆听具有吉祥相的女子德行,是有益的。

13.248.10

त्वया चोक्तं विशेषेण गुणभूतं हि तिष्ठति ।
स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये ॥ १३.२४८.१० ॥

你所说的,特别地作为一种德行而存在。亲爱的,在世间,唯有女子始终是女子众的归宿。

13.248.11

शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते नरः ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥ १३.२४८.११ ॥

母牛总是走向母牛,人不会在别处寻欢。女神啊,这就是世间之道,自古以来如此延续。

13.248.12

प्रमदोक्तं तु यत्किञ्चित्तत्स्त्रीषु बहुमन्यते ।
न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते ॥ १३.२४८.१२ ॥

女子所说的任何话,在女子之中都被高度看重;而男子所说的,在女子之中并不那样看重。无可指责者啊。

13.248.13

त्वयैष विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः ।
तस्मात्त्वां प्रति पृच्छामि पृष्टा वद ममेप्सितम् ॥ १३.२४८.१३ ॥

你已深知女人这永恒的法则。因此我问你;被问者啊,请说出我所希望的。

13.248.14

एवमुक्ता तदा देवी महादेवेन शोभना ।
सोद्वेगा च सलज्जा च नावदत्तत्र किञ्चन।
पुनः पुनस्तदा देवी देवः किमिति चाब्रवीत् ॥ १३.२४८.१४ ॥

大天如此被问,那位光彩的女神心中不安又羞怯,什么也没有说。天神一次又一次地问女神:“是什么?”

13.248.15

भगवन्देवदेवेश सुरासुरनमस्कृत ।
त्वदन्तिके मया वक्तुं स्त्रीणां धर्मः कथं भवेत् ॥ १३.२४८.१५ ॥

尊贵者啊,诸神之主,为天神与阿修罗所礼敬!在您面前,我如何能讲述女人的法则?

13.248.16

मन्नियोगादवश्यं तु वक्तव्यं तु मम प्रिये ॥ १३.२४८.१६ ॥

亲爱的,依我的命令,我必须说。

13.248.17

इमा नद्यो महादेव सर्वतीर्थोदकान्विताः ।
उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः ॥ १३.२४८.१७ ॥

大神啊,这些河流充满一切圣渡之水,为了沐浴的缘故,它们不曾从近处离开您。

13.248.18

एताभिः सह सम्मन्त्र्य प्रवक्ष्यामि तवेप्सितम् ।
अयुक्तं सत्सु तन्त्रेषु तानतिक्रम्य भाषितुम् ॥ १३.२४८.१८ ॥

我与她们商议之后,将说出您的所愿;在善人的集会中越过她们而说话,是不合适的。

13.248.19

मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः ॥ १३.२४८.१९ ॥

受我尊崇,这些河中之最必将受人敬仰。

13.248.20

इति मत्वा महादेवी नदीर्देवीः समाह्वयत् ।
विपाशां च वितस्त्यां च चन्द्रभागां सरस्वतीम् ॥ १३.२४८.२० ॥

如此思量后,大女神召唤了诸河神女:毗波沙、毗陀斯塔、月河、萨拉斯瓦蒂。

13.248.21

शतद्रुं देविक्तां सिन्धुं गौतमीं कौशिकीं तथा ।
यमुनां नर्मदां चैव कावेरीमथ निम्नगाम् ॥ १३.२४८.२१ ॥

沙陀卢、提毗迦、信度、乔达米、憍尸迦,以及耶牟那、那尔玛达,还有向下流的迦韦利。

13.248.22

तथा देवनदीं गङ्गां श्रेष्ठां त्रिपथगां शुभाम् ।
सर्वतीर्थोदकवहां सर्वपापविनाशिनीम्।
एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत् ॥ १३.२४८.२२ ॥

还有天河恒河——殊胜吉祥、三路流淌、承载诸圣渡口之水、消除一切罪业的她。唤来这些河流,环顾之后,她这样说道。

13.248.23

हे पुण्याः सरितः श्रेष्ठाः सर्वपापविनाशिकाः ।
ज्ञानविज्ञानसम्पन्नाः शृणुध्वं वचनं मम ॥ १३.२४८.२३ ॥

啊,圣洁而殊胜的河流,消除一切罪业,具足智慧与明辨,请听我的话。

13.248.24

अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः ।
न चैकया मया साद्यं तस्माद्वस्त्वानयाम्यहम् ॥ १३.२४८.२४ ॥

世尊就妇女之法提出了此问;但我一人无法完成,因此我将此事带到这里。

13.248.25

युष्माभिस्तद्विचार्यैवं वक्तुमिच्छामि शोभनाः ।
तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः ॥ १३.२४८.२५ ॥

你们思考之后请说吧,诸位吉祥者。那么,应当如何向神中之神宣说女性的最高之法?

13.248.26

इति पृष्टास्तथा देव्या महानद्यश्चकम्पिरे ।
तासां श्रेष्ठतमा गङ्गा वचनं त्ववेमब्रवीत् ॥ १३.२४८.२६ ॥

女神如此询问,诸大河都颤抖起来。其中最为殊胜的恒河说出了这些话。

13.248.27

धन्याश्चानुगृहीताः स्म अनेन वचनेन ते ।
या त्वं सुरासुरैर्मान्या नदीराद्रियसेऽनघे ॥ १३.२४८.२७ ॥

因你这番话,我们得以蒙福,受到恩宠。无垢者,河流之王,你受到诸天与阿修罗的尊敬。

13.248.28

तवैवार्हति कल्याणि एवं सान्त्वप्रसादनम् ।
अशक्यमपि ये मूर्खाः स्वात्मसम्भावनायुताः।
वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः ॥ १३.२४८.२८ ॥

吉祥者啊,这样安慰而令人欢喜的话,只配你来说。那些愚昧、充满自负的人,在集会中随心所欲地说出不可能之事。

13.248.29

शक्तो यश्चानहंवादी सुदुर्लभतमो मतः ॥ १३.२४८.२९ ॥

既有能力又不自夸的人,被认为极为罕见。

13.248.30

त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः ।
व्याहर्तुं नेच्छसि स्त्रीत्वात्संपूजयति नस्तथा ॥ १३.२४८.३० ॥

你啊,贤德的女神,有能力完整地回答这个问题。只因身为女子,你不愿开口,如此便尊重了我们。

13.248.31

त्वं हि देवि महादेवी ऊहापोहविशारदा ।
दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनैधिता ॥ १३.२४८.३१ ॥

女神啊,你是大女神,精通推理与论辩,具足神圣的智慧,女神啊,被神圣智慧之薪所点燃。

13.248.32

त्वमेवार्हसि तद्वक्तुं स्त्रीणां वृत्तं शुभाशुभम् ।
याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम्।
कुरु देवप्रियं देवि वद स्त्रीधर्ममुत्तमम् ॥ १३.२४८.३२ ॥

唯有你配讲述女子的善恶行为。我们愿听从你口中流出的甘露。女神啊,请做诸神所喜的事,宣说女子至上的法。

13.248.33

एवं प्रसादिता देवी गङ्गया लोकपूज्यया ।
प्राह धर्ममशेषेण स्त्रीधर्मं सुरसुन्दरी ॥ १३.२४८.३३ ॥

如此为受世人敬仰的恒河所感动,女神苏罗孙达利完整宣说了法,即女子之法。

13.248.34

भगवन्देवदेवेश सुरेश्वर महेश्वर ।
त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया।
तमहं कीर्तयिष्यामि यथावच्छ्रोतुमिच्छसि ॥ १३.२४८.३४ ॥

尊者啊,诸神之神,苏罗之主,大自在天!诸神中最殊胜者,承蒙您的恩典,唯愿令您欢喜,我将如实叙说您想听的内容。