摩诃婆罗多 · 章 13.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.25.1
तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः ।
अमृताहरणे वाचं ततः पितरमब्रवीत् ॥ १३.२५.१ ॥
这只光芒强盛的鸟说了一声“就这样吧”,并应承下来,随后便对父亲说了关于取来甘露的话。
13.25.2
कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः ।
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते ॥ १३.२५.२ ॥
尽管他一再说出悦耳而真实的话语,却未获得许可,因为他的母亲并不认可。
13.25.3
सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै ।
भगवन्विनता दासी मम माता महाद्युते ॥ १३.२५.३ ॥
那位母亲说出了许多如雷霆般严厉的话语——啊,尊贵者,啊,光辉者——我的母亲毗那达是一个奴婢。
13.25.4
कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत् ।
आहरामृतमित्येव मोक्ष्यते विनता ततः ॥ १३.२५.४ ॥
迦德卢派遣她,并说:“这是奴婢。”只要说一句“取来甘露”,毗那达便会获得自由。
13.25.5
सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन् ।
अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै ॥ १३.२५.५ ॥
他说:“我将取来甘露,以救出我的母亲。”当人们急切地请求他取来甘露时,他欣然应允。
13.25.6
अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया ।
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे ॥ १३.२५.६ ॥
亲爱的儿子,甘露即使诸神也难以获得,你又怎能得到?孩子,它被守卫者严密看守——请听我说。
13.25.7
गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम् ।
अनन्तरमथो गुप्तं ज्वलता जातवेदसा ॥ १३.२५.७ ॥
它被水好好地守护,四面环绕,随后又被熊熊燃烧的火神耶陀婆陀斯守护。
13.25.8
ततः शतसहस्राणि अयुतान्यर्बुदानि च ।
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः ॥ १३.२५.८ ॥
随后,数十万、数万乃至数百万名名为“侍者”(Kiṅkara)的罗刹,极其谨慎地守护着那甘露。
13.25.9
तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा ।
आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा ॥ १३.२५.९ ॥
他们的武器有长矛、投枪、三叉戟、百杀器和利剑;卫士的武器,孩子,如同金刚杵,石块也是如此。
13.25.10
ततो जालेन महता अवनद्धं समन्ततः ।
अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् ॥ १३.२५.१० ॥
随后,它被一张巨大的铁网从四面捆绑着,孩子,这是遵从杀死弗栗多的因陀罗的命令。
13.25.11
तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम् ।
सुरक्षितं वज्रभृतां वैनतेय विहङ्गम।
इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः ॥ १३.२५.११ ॥
孩子,你怎么会想要这样的甘露?它被执金刚者、诸神、龙蛇、刀剑以及山中所生之物所妥善守护。维纳塔之子啊,禽鸟啊。
13.25.12
पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम् ।
बलवानुपायवानस्मि भूयः किं करवाणि ते ॥ १३.२५.१२ ॥
出于对儿子的渴望,我这样说;父亲,请听我的决心。我强大而有谋略;我还能为你做什么呢?
13.25.13
तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः ।
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ ॥ १३.२५.१३ ॥
父亲欣喜地笑着,一再对他说:"孩子,如果你能吞食那两个凶残的东西——龟与象。"
13.25.14
तथा बलममेयं ते भविता तन्न संशयः ।
अमृतस्यैव चाहर्ता भविष्यसि न संशयः ॥ १३.२५.१४ ॥
这样你将获得无量的力量,此事无疑。你自己也将成为夺取甘露之人,此事无疑。
13.25.15
क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ ।
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति ॥ १३.२५.१५ ॥
大福之人啊,那两个凶残的——象与龟,在哪里呢?父亲,为了滋养我的力量,我一定会吞食它们。