摩诃婆罗多 · 章 13.253
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.253.1
कृपया परया प्रोक्तः सर्वेषां पापकर्मणाम् ।
ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह ॥ १३.२५३.१ ॥
祖父啊,请告诉我那出于至上慈悲为一切作恶者,以及为此处至高智慧所宣说的教法。
13.253.2
उपायोऽयं परप्राप्तौ परमः परिकीर्तितः ।
नारायणास्यानुध्यानमर्चनं यजनं स्तुतिः ॥ १३.२५३.२ ॥
这被宣说为获得至上者的最高方法:常念想那罗延之面,礼拜、祭祀与赞颂。
13.253.3
श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा ।
विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम्।
स ध्यानेन जपेननाशु मुच्यते प्राकृतोपि वा ॥ १३.२५३.३ ॥
聆听他的故事,守护智者,乐于侍奉智者并遵循其教导;通过禅思与持诵,他很快便得解脱,即使只是平凡之人。
13.253.4
जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोपि च ।
पौराणिकोथ विद्वद्भिः कथितः स्मार्त एव च ॥ १३.२५३.४ ॥
持诵被宣说有四种:吠陀的、怛特罗的、往世书的,以及智者所说的圣传(smārta)持诵。
13.253.5
विद्वच्छुश्रूषया ज्ञानं विद्वत्संरक्षणेन च ।
नासाध्यं ज्ञानिनां किञ्चित्तस्माद्रक्ष्यास्त्वया द्विजाः ॥ १३.२५३.५ ॥
通过侍奉智者可得知识,通过守护智者亦可得之;对于有智之人,没有任何事是不可成就的。因此你应当守护再生者(婆罗门)。
13.253.6
सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु ।
आसीदाश्वासिता विद्वत्संरक्षणफलात्किल ॥ १३.२५३.६ ॥
往昔在林中,一位持守善愿、无亲无故的孤独女子,据说因守护智者之果报,而得阎摩安慰。
13.253.7
विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा ।
वैश्या त्वमतिलाभोऽयं विप्रकन्येति साम्प्रतम्। ॥ १३.२५३.७ ॥
婆罗门死亡的原因是他的妻子,她使父亲悲伤。你原是吠舍女子,如今得到了巨大的福报:你成为婆罗门的少女。
13.253.8
इत्युक्ताऽऽश्वासिताऽपृच्छत्केनैवं पापसंयुता ।
जाता विप्रकुले सम्यक् श्रेयश्चापि ब्रवीहि मे ॥ १३.२५३.८ ॥
听了这番话并得到安慰后,她问道:“我这个带着罪孽的人,因何缘故这样生在婆罗门家族?我的至善是什么?请告诉我。”
13.253.9
अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम् ।
चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका ॥ १३.२५३.९ ॥
“在前世,你曾使一位被打得痛苦的学者摆脱窃贼的嫌疑而获救;因此,啊,出身良好的人!”
13.253.10
इत्युक्ताऽष्टाक्षरध्यानजपादिश्रेयसंयुता ।
यमेनानुगृहीताऽभूत्पुण्यलोकनिवासिनी ॥ १३.२५३.१० ॥
听了这番话后,她通过禅修和诵持八字真言等修行而获得至善;蒙受阎摩的恩典,她得以居住在福德之界。
13.253.11
तन्नित्यं विदुषां रक्षा तत्परोऽभूर्महीपते ।
तेषां संरक्षणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १३.२५३.११ ॥
“因此,啊,地上之主,你应当始终致力于保护学者;保护他们,人便立即从一切罪恶中解脱。”