摩诃婆罗多 · 章 13.258
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.258.1
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥ १३.२५८.१ ॥
愚人啊,听我说说你所赞美的那些大德婆罗门的一些品德。国王啊,婆罗门是他们中最优秀的。
13.258.2
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह ।
नाशं जगाम तां विप्रो व्यस्तम्ययत कश्यपः ॥ १३.२५८.२ ॥
因与迦叶竞争,大地舍弃了她的统治而走向毁灭。于是婆罗门迦叶将已散乱的她重新约束。
13.258.3
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा ।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥ १३.२५८.३ ॥
国王啊,婆罗门无论在天上还是在此世,永远都是不朽的。往昔,安吉罗娑凭借自己的光辉亲自饮尽了众水。
13.258.4
स ताः पिबञ्शीरमिव नातृप्यत महातपाः ।
अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥ १३.२५८.४ ॥
那位大苦行者像饮牛奶一样饮水,却仍不满足;国王啊,他以巨大的洪流充满了整个大地。
13.258.5
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात् ।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥ १३.२५८.५ ॥
当他对他愤怒时,我因恐惧而舍弃了世界,因畏惧安吉罗娑而长久地留在火祭之中。
13.258.6
अथ शप्तश्च भगवान्गौतमेन पुरंदरः ।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥ १३.२५८.६ ॥
于是,因渴慕阿诃厘耶,尊贵的富兰陀罗(因陀罗)被乔达摩诅咒;然而为了法的缘故,他并未受到伤害。
13.258.7
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा ।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः ॥ १३.२५८.७ ॥
国王啊,同样,大海被看见充满了水,并且被婆罗门诅咒,变成了咸水。
13.258.8
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः ।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ १३.२५८.८ ॥
那团金色、无烟、火焰向上升腾的智慧之火,被愤怒的安吉罗诅咒,失去了这些品质。
13.258.9
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम् ।
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना ॥ १३.२५८.९ ॥
看那大海被碾碎的残余,它们始终被佩戴黄金的再生者所诅咒。
13.258.10
सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप ।
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः ॥ १३.२५८.१० ॥
人主啊,你要知道,再生者的尊荣是最崇高的;主宰即使对尚在胎中的婆罗门也始终致敬。
13.258.11
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् ।
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम् ॥ १३.२५८.११ ॥
丹达卡的伟大王国被一位婆罗门毁灭;塔拉讪伽的伟大刹帝利族被唯一的奥尔瓦毁灭。
13.258.12
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा ।
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम् ॥ १३.२५८.१२ ॥
借着达塔特雷亚的恩典,你获得了广大的王国、力量、法,以及学问,这些都极难获得。
13.258.13
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जन ।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् ॥ १३.२५८.१३ ॥
阿周那啊,你日日祭祀火神,为何不敬奉婆罗门?他不正是为一切世界承载祭品的吗?你难道不知道他吗?
13.258.14
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम् ।
कर्तारं जवलोकस्य कस्माज्जानन्विमुह्यसे ॥ १३.२५८.१४ ॥
或者,你既知道他是婆罗门中的至尊,是万物的守护者、世界的创造者,为何还会迷惑?
13.258.15
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः ।
येनेदं विपुलं विश्वं जनितं स्थावरं चरम् ॥ १३.२५८.१५ ॥
同样,生主梵天,其源出于未显,是不灭者,由他产生了这广大的宇宙,不动与能动之物。
13.258.16
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः ।
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम् ॥ १३.२५८.१६ ॥
有些无知之人认为梵天是从卵中所生;卵破之后,山岳、方位、水、大地与天空便出现了。
13.258.17
दृष्टवानेतदेवं हि कथं जायेदजो हि सः ।
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः ॥ १३.२५८.१७ ॥
既然如此看来,那无生之者如何能够出生?他的居所是虚空之界;那么祖父是怎样出生的呢?
13.258.18
तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत् ।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥ १३.२५८.१८ ॥
有人可能会说:'他如何能够安立?'那时便什么也不会存在。他被称为我执之原理,是遍入一切光明的主宰。
13.258.19
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः ।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ १३.२५८.१९ ॥
“梵没有尽头,然而他是维持诸世界的君王。”如此说后,他便沉默了;风神对他说道。