摩诃婆罗多 · 章 13.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.26.1
कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ ।
युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि ॥ १३.२६.१ ॥
尊者啊,我如何能同时抓住那象与龟?您应当告诉我一个方法。
13.26.2
योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः ।
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः ॥ १३.२६.२ ॥
当那头象想要争斗时,那水中之物便迅速从水中升起片刻,一次又一次,渴望战斗。
13.26.3
जलजं निर्गतं तात प्रमत्तं चैव वारणम् ।
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते ॥ १३.२६.३ ॥
我的孩子,你将抓住那从水中出来、疏忽大意的象。鸟王啊,此处没有别的办法。
13.26.4
इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम् ।
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् ॥ १३.२६.४ ॥
那鸟被如此告知后,便前往那片殊胜的森林,看见那象王,光彩如云山一般。
13.26.5
तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः ।
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः ॥ १३.२६.५ ॥
那象仿佛已到达山路,婆罗多啊。那位大福之鸟见到它,全身毛发竖起,极为欢喜。
13.26.6
बिभक्षयिषतो राजन्दारुणस्य महात्मनः ।
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत् ॥ १३.२६.६ ॥
大王啊,那位想要吞食象与龟的凶猛大德者,心中生起了极大的欢喜。
13.26.7
अथ वेगेन महता खेचरः स महाबलः ।
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत ॥ १३.२६.७ ॥
于是,这只大力的飞禽以极大的速度收拢全身,艰难地降落下来。
13.26.8
तथा गत्वा तमध्वानं वारणप्रवरो बली ।
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च ॥ १३.२६.८ ॥
那头强壮的象中之王走过那段路,因疲劳而深深叹息,以便休息。
13.26.9
तस्य निश्वासवातेन मदगन्धेन चैव ह ।
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः ॥ १३.२६.९ ॥
被它的呼吸之风和发情的气味所吸引,那只阻挡大象的大龟浮了上来。
13.26.10
तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः ।
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव ॥ १३.२६.१० ॥
飞禽之王看见他们二者的激烈搏斗——龟王与大象之战,如同因陀罗与钵罗诃罗陀之战。
13.26.11
स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् ।
दन्तैर्नस्तैश्च जलजो वारयामास भारत ॥ १३.२६.११ ॥
婆罗多之子啊,水中生的龟用獠牙和长鼻阻挡了那以鼻端触水的象群之首。
13.26.12
जलजं वारणोऽप्येवं चरणैः पुष्करेण च ।
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च ॥ १३.२६.१२ ॥
同样,象也用脚和长鼻阻挡那水生的龟——无论它下沉还是浮起。
13.26.13
मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् ।
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः ॥ १३.२६.१३ ॥
两者之间进行了片刻的战斗,展示了可怕的威力。然后,国王啊,那只乌龟从水中爬上了陆地。
13.26.14
स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत ।
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः ॥ १३.२६.१४ ॥
那头大象虽已受挫,却因口渴而不肯回头;贪求水源,因渴而慢慢向后退去。
13.26.15
तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात् ।
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम् ॥ १३.२६.१५ ॥
看见他从战场退却,那水生的乌龟迅速地疾速冲去,如手持金刚杵的因陀罗扑向阿修罗。
13.26.16
तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम् ।
उभावेव समस्तौ तु जग्राह विनतासुतः ॥ १३.२६.१६ ॥
毗娜塔之子(迦鲁达)愤怒地将两者一并抓住——那头已登上陆地却尚未完全抵达的大象之王。
13.26.17
चरणेन तु सव्येन जग्राह स गजोत्तमम् ।
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् ॥ १३.२६.१७ ॥
他以左足抓住那头大象之王,以右足抓住挣扎扭动的乌龟。
13.26.18
उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः ।
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः ॥ १३.२६.१८ ॥
于是,那毁灭蛇王的、不可战胜者迅速升起;以双翼飞向天空与天界。
13.26.19
तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम् ।
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः ॥ १३.२६.१९ ॥
他一边飞起,一边迅速而牢牢地用爪子抓住了那两者;他们以那极其锋利、内蕴雷电的爪子,很快便舍弃了性命。
13.26.20
तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ ।
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह ॥ १३.२६.२० ॥
他抓住那两者,这强大的天行者迅速飞入天空,他们的四肢与脖颈松垂着,他就像在空中嬉戏般摇摆而去。
13.26.21
अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते ।
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् ॥ १३.२६.२१ ॥
于是,地上之主啊,那想要进食的勇士环顾大地,却没有看见足以让他栖坐的一棵大树。
13.26.22
नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः ।
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम् ॥ १३.२६.२२ ॥
随后,他来到奈弥舍林与天林,这位大光明者看见一棵被枝干覆盖的树。
13.26.23
हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् ।
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः ॥ १३.२६.२३ ॥
那树如喜马拉雅的山峰,高两由旬,王中之王啊,其四周的周长为一“那尔瓦”之量。
13.26.24
तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम् ।
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता ॥ १३.२६.२४ ॥
其一根枝条延伸五由旬;这树根基稳固,树干坚实,满布如雷电般坚硬的叶子。
13.26.25
तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ ।
अत्तुकामस्ततः शाखा तस्य वेगादवापतत् ॥ १३.२६.२५ ॥
坐在那里的毗那多之子(迦楼罗)突然抓住了那两者;然后,他想要吞食,便迅速地扑向那根树枝。
13.26.26
तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः ।
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते ॥ १३.२६.२६ ॥
看到那根树枝坠落,并俯视下方与婆薮神一同坐在祭祀会上的仙人群,哦,大地之主。
13.26.27
वैखानसान्नाम यतीन्वालखिल्यगणानपि ।
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत ॥ १३.२६.२७ ॥
还有名为毗伽那萨的苦行者和婆罗棘利耶群;在那里,哦,婆罗多,鸟王的恐惧进入了他们之中。
13.26.28
तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह ।
तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः।
तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत् ॥ १३.२६.२८ ॥
看到那些与诸神一同坐在那里的苦行者,这位鸟王用喙衔住那根树枝,向上腾飞;那只食蛇的鸟在天空中,仿佛在嬉戏般飞去。
13.26.29
तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम् ।
ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह।
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः ॥ १३.२६.२९ ॥
看到那只鸟携带着沉重的负担向上飞起,那些仙人都说:“这是迦楼罗;因为没有别的鸟像这只强大的鸟一样能够承受它。”
13.26.30
असौ यच्छति धर्मात्मा गुरुभारसमन्वितः ।
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः ॥ १३.२६.३० ॥
那位正直者负着沉重的重担,将它奉献;这一位在天空中仿佛嬉戏般飞行;因此他确实就是迦楼罗。
13.26.31
एवं ते समयं सर्वे वसवश्च दिवौकसः ।
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह ॥ १३.२६.३१ ॥
于是诸婆薮与天界居民一致约定,将鸟王命名为迦卢荼。
13.26.32
स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः ।
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत ॥ १३.२६.३२ ॥
那鸟在整个大地上四处奔跑,想要放下树枝,却找不到一个可以放下的地方。
13.26.33
स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः ।
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च ॥ १३.२६.३३ ॥
他听到从上方传来神圣的声音,是天神的使者清楚地称他为迦卢荼。
13.26.34
वैनतेय कुविन्देषु समुद्रान्ते महाबल ।
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः ॥ १३.२६.३४ ॥
毗那达之子啊,大力者!让树枝落在海边的俱文陀人之间吧,因为他们并不坚守法。
13.26.35
तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः ।
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः ॥ १३.२६.३५ ॥
迦卢荼听后,迅速前往咸海,到那些愚昧作恶的俱文陀人居住之处。
13.26.36
ततो गत्वा ततः शाखां मुमोच पततांवरः ।
तया हता दास्तदा षड्विंशतो नृप ॥ १३.२६.३६ ॥
于是,那最优秀的鸟飞到那里,放下了树枝;就在那一刻,二十六个仆役被它击倒,大王啊。
13.26.37
स देशो राजशार्दूल ख्यातः परमदारुणः ।
शाखापतग इत्येव कुविन्दानां महात्मनाम् ॥ १३.२६.३७ ॥
虎中之王啊,那片土地以极其可怕而闻名;在高尚的库文达人之中,它正被称为“枝鸟”(Śākhāpataga)。