摩诃婆罗多 · 章 13.262
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.262.1
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥ १३.२६२.१ ॥
阿周那沉默不语,于是风神又说道:人主啊,请听我说关于婆罗门的首要职责。
13.262.2
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा ॥ १३.२६२.२ ॥
当天界诸神与因陀罗一同获得那饮料时,车养便夺去了他们的天界与大地。
13.262.3
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन् ।
शोकार्ताश्त महात्मानं ब्रह्माणं शरणं ययुः ॥ १३.२६२.३ ॥
诸神得知两个世界都被夺走,悲伤不已,因忧愁所困,前往大梵天那位伟大灵魂者处寻求庇护。
13.262.4
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो ॥ १३.२६२.४ ॥
受世界尊崇者啊,我们这些以醉饮受灌顶的人,我们的大地被车养夺去了;主啊,天界也被猴子夺去了。
13.262.5
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम् ॥ १३.२६२.५ ॥
天界诸神与因陀罗啊,速去婆罗门那里寻求庇护;使他们欢喜之后,你们将重新获得两个世界,恢复如初。
13.262.6
ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे ।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥ १३.२६२.६ ॥
他们前往婆罗门处寻求庇护,说道:"我们想要征服。"被如此称呼后,那些再生者说:"在此征服猴子吧。"
13.262.7
भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः ।
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ॥ १३.२६२.७ ॥
双生者说:“行于大地之上的我们是胜利者。”于是婆罗门开始进行消灭猿猴的事业。
13.262.8
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ।
स च तान्ब्राह्मणानाह धनी कपवचो यथा ॥ १३.२६२.८ ॥
卡帕们听到后,派遣一名使者去见婆罗门。那位富有的使者按照卡帕们的话对婆罗门们说道。
13.262.9
भवद्भिः सदृशः सर्वे कपाः किमिह वर्तते ।
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ॥ १३.२६२.९ ॥
你们一样的卡帕们为何都在此地?他们都通晓吠陀、有智慧,并且举行祭祀。
13.262.10
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ।
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ॥ १३.२६२.१० ॥
他们都是守持真实誓愿的人,与大仙人平等。吉祥女神喜爱他们,他们护持繁荣。
13.262.11
वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते ।
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः ॥ १३.२६२.११ ॥
他们不无故接近妻子,也不无故食肉。他们向熊熊烈火献祭,并遵从长辈的教导。
13.262.12
सर्वे च नियतात्मानो बालानां संविभागिनः ।
उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्।
स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः ॥ १३.२६२.१२ ॥
他们都能自我克制,并与孩子们分享。他们缓慢靠近又离开,不接近月经中的女子。同样,行善之人也能抵达天界之路。
13.262.13
अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु ।
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते ॥ १३.२६२.१३ ॥
在尚未进食者面前,他们不进食;在孕妇、老人等面前,也不进食。上午不掷骰博弈,白天也不睡觉。
13.262.14
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् ।
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः ॥ १३.२६२.१४ ॥
你们如何能战胜具备这些及许多其他德性的猴子?回去吧;对于返回者,你们才有幸福。
13.262.15
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।
तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम् ॥ १३.२६२.१५ ॥
我们将战胜猴子——我们被视为神明。因此猴子应当被我们杀死。富有者啊,依来时的路回去吧!
13.262.16
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः ।
गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन् ॥ १३.२६२.१६ ॥
富者来到猴子那里,说:“婆罗门啊,你们不是让我们喜悦的人。”于是所有猴子拿起武器,冲向婆罗门。
13.262.17
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥ १३.२६२.१७ ॥
见猴子高举旗帜,所有再生者释放出炽燃的火焰,那是夺取猴子性命的火。
13.262.18
ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः ।
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप ॥ १३.२६२.१८ ॥
由梵天所造、享用祭品的、永恒的(火)杀死猴子之后,哦人主,它们像天空中的云一样闪耀。
13.262.19
हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे ।
ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान् ॥ १३.२६२.१९ ॥
诸天神在战场上联合起来杀死了达那婆;但那时他们并不认得被婆罗门所杀的羯波。
13.262.20
अथागम्य महातेजा नारदोऽकथयद्विभो ।
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः ॥ १३.२६२.२० ॥
于是光辉的那罗陀前来,啊,大能者,述说了大幸的婆罗门如何以其光明杀死了羯波。
13.262.21
नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः ।
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः ॥ १३.२६२.२१ ॥
诸天神闻那罗陀之言,皆欢喜,赞叹再生者与有名望的婆罗门。
13.262.22
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ १३.२६२.२२ ॥
于是他们的光辉与诸神的威力增长;受到三界的尊崇,他们获得了不死。
13.262.23
इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह ।
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥ १३.२६२.२३ ॥
阿周那回答了如此说话的风神。啊,大臂者,人主,请听他既尊敬地所说的话。
13.262.24
जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो ।
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥ १३.२६२.२४ ॥
主啊,我始终在各方面为婆罗门而活;我敬奉婆罗门,日日向他们顶礼。
13.262.25
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम् ।
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान् ॥ १३.२६२.२५ ॥
凭借达塔特莱雅的恩典,我获得了此力量;在世间,我修行了至高的名声与伟大的达摩。
13.262.26
अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः ।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च ॥ १३.२६२.२६ ॥
啊!风神啊,你如实地完整宣说了我身上的婆罗门之业,我也全部用心聆听了。
13.262.27
ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च ।
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ १३.२६२.२७ ॥
以刹帝利之法保护婆罗门,也要守护你的诸根;你将因婆罗门而遭受可怕的恐惧,那恐惧会因时间而到来。