マハーバーラタ · 章 13.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.27.1
हत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती ।
उपोपविश्य शैलाग्रे भक्षयामास तावुभौ।
वारणं कच्छर्प चैव संहृष्टः स पतत्रिराट् ॥ १३.२७.१ ॥
クヴィンダの民の一人を殺し、誓いを守る鳥の虎は山の頂に座って、象と亀の二つを貪り食った。その鳥の王は喜んだ。
13.27.2
तयोः स रुधिरं पीत्वा मेदसी च परन्तप ।
संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम्।
जंगाम देवराजस्य भवनं पन्नगाशनः ॥ १३.२७.२ ॥
その二つの血と脂を飲み干し、敵を焼く者よ、彼は喜んだ。努力する者の中で最も優れた彼は、比類なき力を得て、蛇を食らう者となり、神々の王の住まいへ去った。
13.27.3
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् ।
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह ॥ १३.२७.३ ॥
火花を散らし、昼夜燃え続けるその大いなる魂の火に礼拝し、まさに甘露を守るために。
13.27.4
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत् ।
नतु तोयान्न रक्षिभ्यो भयमस्योपपद्यते ॥ १३.२७.४ ॥
それを見て鳥の王は激しい恐怖に襲われ、座り込んだ。しかしその者には水から恐れは生じず、守護者からも恐れは生じない。
13.27.5
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् ।
पितामहमथो गत्वा ददर्श भुजगाशनः ॥ १३.२७.५ ॥
自らの鳥の身と燃え盛る火を見て、それから祖父のもとへ行き、その蛇を食らう者は彼を見た。
13.27.6
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः ।
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः ॥ १३.२७.६ ॥
その大いなる魂に礼拝し、掌を合わせた蛇の王ガルダは、その疑いなき言葉を述べた。
13.27.7
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम् ।
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम् ॥ १३.२७.७ ॥
尊き方よ、私は重大な務めに臨み、法に堅く立っています。咎なき母を隷属から解放するために。
13.27.8
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर ।
तदा मे जननी देव दासभावात्प्रमोक्ष्यते ॥ १३.२७.८ ॥
主よ、私はカドルーのもとから甘露を持ち帰らねばなりません。そうすれば神よ、母は隷属から解かれるでしょう。
13.27.9
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति ।
हिरण्यरेता भगवान्पाकशासनशासनात् ॥ १३.२७.९ ॥
そこでは、燃え盛る金種の尊きアグニが、インドラの命により、常に甘露を守っています、主よ。
13.27.10
तत्र मे देवदेवेश भयं तीव्रमथाविशत् ।
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो ॥ १३.२७.१० ॥
神々の主よ、そこで私は激しい恐れに襲われました。燃える火と自分の翼を見て、主よ。
13.27.11
समतिक्रमितुं शक्यः कथं स्यात्पावको मया ।
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो ॥ १३.२७.११ ॥
この火をどうすれば越えられるでしょうか。恩恵を与える方よ、主よ、その方法を私に告げることがおできになるはずです。
13.27.12
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम् ।
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः ॥ १३.२७.१२ ॥
大いなる幸運の方よ、苦しむその鳥に、ウトサヤンタは火を鎮める方法を何度も告げました。
13.27.13
पयसा शाम्यते वत्स सर्पिषा च हुताशनः ।
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि ॥ १३.२७.१३ ॥
わが子よ、供犠の火は乳と酥油によって鎮まる。生きものの身体のうちにある火が地上で燃え盛るならば、どうして鎮まらないことがあろうか。
13.27.14
नवनीतं पयो वाऽपि पावके त्वं समादधेः ।
ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः ॥ १३.२७.१४ ॥
新鮮な酥か乳を火に供えよ。そうすれば望むところへ行け。火はお前を焼かないであろう。