Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.42.1

एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः ।
नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा ॥ १३.४२.१ ॥

他这样赐予我无畏,诸位最优秀的仙人啊,我的疲倦、痛苦与恐惧刹那间消散,那时我便恢复了。

13.42.2

स शनैर्याति भगवान्गत्या लघुपराक्रमः ।
अहं तु सुमहावेगमास्तायानुव्रजामि तम् ॥ १३.४२.२ ॥

那位世尊缓缓前行,步伐轻盈,威力自如;而我则以极快的速度跟随在他身后。

13.42.3

स गत्वा दीर्घमध्वानमाकाशममितह्युतिः ।
मनसाऽप्यगमं देवमाससादात्मतत्ववित् ॥ १३.४२.३ ॥

他光辉无量,通晓自我的真实本性,穿越天空走了一段长路;我即使以心意也追随而去,终于到达了那位神。

13.42.4

अथ देवः समासाद्य मनसः सदृशं जवम् ।
मोहयित्वा च मां तत्र क्षणेनान्तरधीयत ॥ १३.४२.४ ॥

那时,神以与心意相等的速度来到近前,在那里迷惑了我,转眼之间便隐没了。

13.42.5

तत्राम्बुधरधीरेण भोशब्देनानुनादिना ।
अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः ॥ १३.४२.५ ॥

那时,以如雷云般深沉、回荡着「薄」声的声音,那位善于言辞的神说道:「喂,这就是我。」

13.42.6

शब्दानुसारी तु ततस्तं देशमहमाव्रजम् ।
तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः ॥ १३.४२.६ ॥

我循着那声音走向那个地方,在那里看见了一个满是天鹅的壮丽湖泊。

13.42.7

स तत्सरः समासाद्य भगवानात्मवित्तमः ।
भोशब्दप्रतिसृष्टेन स्वरेण प्रतिवादिना ॥ १३.४२.७ ॥

那位薄伽梵,智者中最通晓自我者,到达那湖边,以回响着“博”声的声音回应。

13.42.8

विवेश देवः स्वां योनिं मामिदं चाभ्यभाषत ।
विशस्व सलिलं सौम्य सुखमत्र वसामहे ॥ १३.४२.८ ॥

神进入了他自己的居所,并对我说:“温和者啊,进入水中;我们将在此安居。”

13.42.9

ततश्च प्राविशं तत्र सह तेन महात्मना ।
दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम् ॥ १३.४२.९ ॥

然后我与那位大德一同进入那里,在那湖中看见了光明者最为奇妙的景象。

13.42.10

अग्नीनामप्रणीतानामिद्धानामिन्धनैर्विना ।
दीप्तानामाज्यसिक्तानां स्यानेष्वर्चिष्मतां सदा ॥ १३.४२.१० ॥

未被移来的火,无需燃料而燃着,炽热并以酥油洒浇,总是在各自的位置上焰焰燃烧。

13.42.11

दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत् ।
अनिद्धानामिव सतामिद्धानामिव भास्वताम् ॥ १३.४२.११ ॥

它们的光辉仿佛未曾浇酥油者得到了酥油,未曾点燃者被点燃了,如同光明的众生。

13.42.12

अथाहं वरदं देवं नापश्यं तत्र सङ्गतम् ।
ततः सम्मोहमापन्नो विषादभगमं परम् ॥ १३.४२.१२ ॥

那时我没有看见赐予恩惠的神与我相聚;于是我陷入迷惑,堕入极大的忧伤。

13.42.13

अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः ।
विधिना सम्प्रणीतानि धिष्ण्येष्वाज्यवतां तदा ॥ १३.४२.१३ ॥

那时我看见成百上千的火祭,依照仪轨在火坛上以酥油完成。

13.42.14

असंभृष्टतलाश्चैव वेदीः कुसुमसंस्तृताः ।
कुशपद्मोत्पलासङ्गाः कलशांश्च हिरण्मयान् ॥ १३.४२.१४ ॥

地面平整的祭坛,铺满花朵,配有吉祥草、莲花与青莲,还有金色的净瓶。

13.42.15

अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः ।
अग्निहोत्राय योग्यानि यानि द्रव्याणि कानिचित्।
तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः ॥ १३.४२.१५ ॥

成百上千的奇妙火祭,以及一切适用于火祭的物品,我在此多次见到,极为丰盛。

13.42.16

मनोहृद्यतमश्चाग्निः सुरभिः पुण्यलक्षणः ।
आज्यगन्धो मनोग्राही घ्राणचक्षुस्सुखावहः ॥ १३.४२.१६ ॥

最能悦意心意的火,芬芳,具有功德之相,带着酥油的香气,夺人心神,令鼻与眼感到欢喜。

13.42.17

तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः ।
समीपे त्वद्भुततममपश्यमहमव्ययम् ॥ १३.४२.१७ ॥

在那里,靠近那成千上万受赞颂的火祭,我看见一件极为奇妙、不朽的东西。

13.42.18

चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् ।
विमलादित्यभासानां स्थण्डिलानि सहस्रशः।
दृष्टान्यग्निसमीपे तु ध्युतिमन्ति महान्ति च ॥ १३.४२.१८ ॥

near 火旁可见成千上万的高坛,洁白如月光与白布,明亮如霜晨初升,闪耀如澄净的太阳——光辉而宏大。

13.42.19

एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः ।
प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम्।
ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः ॥ १३.४२.१९ ॥

在这些火旁,我听到了音节清晰优美的话语,那些被自身光辉遮掩的人,以清晰的音节诵读,吟唱着《梨俱》《夜柔》与《娑摩》,声音甜美悦耳。

13.42.20

सुसंमृष्टतलैस्तैस्तु बृहद्बिर्दीप्ततेजसैः ।
पावकैः पावितात्माहमभवं लघुविक्रमः ॥ १३.४२.२० ॥

借着那些祭坛地面洒扫洁净、光辉炽盛的伟大火焰,我的灵魂得以净化,步伐也变得敏捷。

13.42.21

ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् ।
तं देशं प्रणमित्वाऽथ अन्वेष्टुमुपचक्रमे ॥ १३.४२.२१ ॥

于是我看见那些祭祀者燃烧的火坛,向那地方致敬,便开始寻找他。

13.42.22

तान्यनेकसहस्राणि पर्यटंस्तु महाजवात् ।
अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम् ॥ १३.४२.२२ ॥

我以极速在那数千处地方游走,却看不见那位天神,于是我心中痛苦。

13.42.23

ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु ।
भानुमत्सु न पश्यामि देवदेवं सनातनम् ॥ १३.४२.२३ ॥

于是在那些燃烧着纯净火焰、光辉灿烂的祭火之中,我看不见永恒的神中之神。

13.42.24

ततोऽहं तानि दीप्तानि परीय व्यस्थितेन्द्रियः ।
नान्तं तेषां प्रपश्यामि खेदश्च सहसाभवत् ॥ १३.४२.२४ ॥

于是我绕行那些燃烧的火坛,感官已然昏乱;我看不到它们的尽头,忽然心中生出了疲倦。

13.42.25

विसृत्य सर्वतो दृष्टिं भयमोहसमन्वितः ।
श्रमं परंममापन्नश्चिन्तयानस्त्वचेतनः ॥ १३.४२.२५ ॥

环顾四方,充满恐惧与迷惑,陷入极度疲惫,沉思之中我失去了知觉。

13.42.26

तस्मिन्न खलु वर्तेऽहं लोके यत्रैतदीदृशम् ।
ऋग्यजुस्सामनिर्घोषः श्रूयते न च दृश्यते ॥ १३.४२.२६ ॥

我确实不住在这样的世界里:在那里能听见《梨俱》、《夜柔》、《娑摩》诵咏的声响,却看不见其踪影。

13.42.27

न च पश्यामि तं देवं येनाहमिह चोदितः ।
एवं चिन्तासभापन्नः प्रध्यातुमुपचक्रमे ॥ १३.४२.२७ ॥

我也看不见那位推动我来到此地的神。如此陷入焦虑,我开始深入思索。

13.42.28

ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः ।
महाशब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः ॥ १३.४२.२८ ॥

当我心被迷惑所攫取、沉思之时,一个巨大的声响突然响起,使我极度痛苦。

13.42.29

अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् ।
अपश्यं च सुपर्णानां सहस्राण्ययुतानि च ॥ १३.४२.२९ ॥

于是我突然在那里听见一阵巨响,又看见成千上万、数以万计的金翅鸟。

13.42.30

अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः ।
तेषामहं प्रभावेण सर्वथैवावरोऽभवम् ॥ १३.४२.३० ॥

那些光芒巨大、速度惊人者直冲向我,我因他们的威力而完全处于下风。

13.42.31

सोऽहं समन्ततः सर्वैः सुपर्णैरतितेजसैः ।
दृष्ट्वाऽऽत्मानं परिगतं सम्भ्रमं परमं गतः ॥ १३.४२.३१ ॥

我看见自己被四面八方极其光辉的诸苏波尔那所围绕,便陷入了极大的惊惶。

13.42.32

विनयावनतो भूत्वा नमश्चक्रे महात्मने ।
अनादिनिधनायैभिर्नामभिः परमात्मने ॥ १३.४२.३२ ॥

我谦卑地俯身,以这些名号礼敬那无始无终的伟大灵魂、至上我。

13.42.33

नारायणाय शुद्धाय शाश्वताय ध्रुवाय च ।
भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥ १३.४२.३३ ॥

礼敬那罗延:清净者、永恒者、坚固者,过去、未来、现在之主,吉祥者,其形吉祥。

13.42.34

शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च ।
घोररूपाय महते युगान्तकरणाय च ॥ १३.४२.३४ ॥

礼敬吉祥之源,吉祥者中的首位,为吉祥者最值得崇拜者,具可怖之相的伟大者,以及造成劫末者。

13.42.35

विश्वाय विश्वदेवाय विश्वेशाय महात्मने ।
सहस्रोदरपादाय सहस्रनयनाय च ॥ १३.४२.३५ ॥

礼敬遍在者、一切之神、宇宙之主、具千腹千足的伟大灵魂,以及具千目者。

13.42.36

सहस्रबाहवे चैव सहस्रवदनाय च ।
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥ १३.४२.३६ ॥

礼敬千臂者、千面者,清净耳闻的伟大者,以及为季节与岁年者。

13.42.37

ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः ।
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥ १३.४२.३७ ॥

敬礼那以梨俱、夜柔、娑摩为面、以阿闼婆为首的神。敬礼希瑟凯莎、黑天、德鲁希诺鲁克拉玛。

13.42.38

बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे ।
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥ १३.४२.३८ ॥

敬礼疾速的塔尔克什亚、野猪、独角者、希毗毗湿陀、真实者、黑利,以及有冠者。

13.42.39

हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे ।
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥ १३.४२.३९ ॥

敬礼祭火、面向上的、有凶猛军队的、善者、海洋、摧毁河流暴雨者,以及诸神之海。

13.42.40

गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते ।
सम्म्राडुग्रे संकृतये विरजे सम्भवे भवे ॥ १३.४२.४० ॥

敬礼有翼者、三目者、善法者、牛形者、君王、猛者、桑克里提、无垢者、生源,以及婆伐。

13.42.41

वृषाय वृषरूपाय विभवे भूर्भुवाय व ।
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥ १३.४२.४१ ॥

敬礼公牛、牛形者、遍在者、地与天、光耀创造的祭祀、坚定者,以及古老者。

13.42.42

अच्युताय तुषाराय वीराय च समाय च ।
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥ १३.४२.४२ ॥

敬礼不朽者、霜降者、英雄、等同者、胜利者、补卢呼多(因陀罗)、最胜者,以及至善者。

13.42.43

सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने ।
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥ १३.४२.४३ ॥

敬礼真理之主、诸神之主、哈里、尸金丁、巴尔希莎、至尊的伐连耶、婆苏,以及万物的创造者。

13.42.44

किरीटिने सुकेशाय वासुदेवाय शुष्मिणे ।
बृहदुक्थ्यसुषेणाय युग्ये दुन्दुभये तथा ॥ १३.४२.४४ ॥

敬礼戴冠者、美发者、婆苏提婆、有力者、伯里诃杜克底耶、苏舍那、轭者,以及鼓。

13.42.45

भयेसखाय विभवे भरद्वाजेऽभयाय च ।
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥ १३.४२.४५ ॥

敬礼怖畏、朋友、遍在者、婆罗堕阇、无畏者、太阳、月亮、莲花脐者,以及丰饶者。

13.42.46

पुनर्वसुभृतत्वाय जीवप्रभविषाय च ।
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥ १३.४२.४६ ॥

敬礼承载富有者的主、众生之源、婆沙特之声、娑婆诃、娑陀、以及万物的终结。

13.42.47

ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः ।
श्रीपद्मायात्मसदृशे धरणीधारिणे परे ॥ १३.४२.४७ ॥

敬礼梨俱、夜柔、娑摩,三界之主。敬礼吉祥莲花、与自我相似者、承载大地的至上者。

13.42.48

सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः ।
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥ १३.४२.४८ ॥

敬礼具有温和与可怖之相者、温和者、善心者。敬礼遍在者、普遍遍在者、持宇宙形相者。

13.42.49

केशवाय सुकेशाय रश्मिकेशाय भूरिणे ।
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥ १३.४२.४९ ॥

敬礼羯舍婆,美发者,光发者,广大者,金胎者;敬礼慈善者,具牛形者。

13.42.50

नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे ।
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे।
मुनये ज्वरमुक्तायि ज्वराधिपतये नमः ॥ १३.४२.५० ॥

敬礼那罗延至上身者,敬礼补卢呼多,敬礼持金刚者,敬礼披甲者,敬礼牛军者,敬礼法军者,敬礼障碍者,敬礼牟尼,敬礼离热者,敬礼热之主。

13.42.51

अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे ।
तपोब्रह्मनिधानाय युगपर्यायिणे नमः ॥ १३.४२.५१ ॥

敬礼无眼者,敬礼三眼者,敬礼赤褐者,敬礼具大波者,敬礼苦行与梵的宝藏者,敬礼历经诸时代者。

13.42.52

शरणाय शरण्याय भक्तेष्टशरणाय च ।
नमः सर्वभवेशाय भूतभव्यभवाय च ॥ १३.४२.५२ ॥

敬礼皈依处,敬礼可皈依者,敬礼信徒所愿的皈依处;敬礼一切有之主,也敬礼过去与未来有之源。

13.42.53

पाहि मां देवदेवेश कोप्यजोसि सनातनः ।
एवं गतोस्मि शरणं शरण्यं ब्रह्मयोनिनम् ॥ १३.४२.५३ ॥

天神之天神啊,请护佑我;你是不生且永恒的。因此我来到可皈依的梵之胎藏前寻求庇护。

13.42.54

स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत ।
भयं च मे व्यपगतं पक्षिणोऽन्तर्हिताऽभवन् ॥ १३.४२.५४ ॥

愿我赞颂可赞颂者之时,我的那暗昧消灭;我的恐惧已去,鸟的恐惧也已隐去。

13.42.55

शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम् ।
मा भैर्गरुत्मन्दान्तोसि पुनः सेन्द्रान्दिवौकसः।
स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् ॥ १३.४२.५५ ॥

我听见从隐没之处传来神圣而吉祥的声音:迦卢荼,不要害怕,你是克己之人;你将与因陀罗一同再见天界诸神;回到你的家中,你将见到你的子孙和亲族。

13.42.56

ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः ।
प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके ॥ १३.४२.५६ ॥

就在那一刻,他忽然在我面前、我的近旁显现,大光明而神采焕发。

13.42.57

समागम्य ततस्तेन शिवेन परमात्मना ।
अपश्यं चाहमायान्तं नरनारायणाश्रमे।
चतुर्द्विगुणविन्यासं तं च देवं सनातनम् ॥ १३.४२.५७ ॥

随后,我与那位吉祥的至上我相遇,看见那位永恒之神以四倍增益的形态,在那罗与那罗延的仙居中走来。

13.42.58

यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन् ।
युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहे ॥ १३.४२.५८ ॥

我看见祭祀中的仙人与诸神,诵读与冥想的牟尼,沉浸于瑜伽的成就者,持守誓愿的修行人,以及在家中低声持诵、举行祭祀的人。

13.42.59

पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् ।
वन्दितं सिक्तसम्मृष्टं नरनारायणाश्रमम् ॥ १३.४२.५९ ॥

那罗与那罗延的仙居,遍撒鲜花,焚香飘散,灯火明亮,供奉祭品,受人礼敬,洒水扫净。

13.42.60

तदद्भुतमहं दृष्ट्वा विस्मितोस्मि तदाऽनघाः ।
जगाम शिरसा देवं प्रयतेनान्तरात्मना ॥ १३.४२.६० ॥

诸位无罪之人啊!我见到那奇妙之景,心中惊异;于是低头、以恭敬的内心走向那位神。

13.42.61

तदत्यद्भुतसङ्कासं किमेतदिति चिन्तयन् ।
नाध्यगच्छं परं दिव्यं तस्य सर्वभवात्मनः ॥ १३.४२.६१ ॥

我见此极其奇妙之景,心中思忖:“这是什么?”却未能领悟他——万有之自我——那至高神圣的本质。

13.42.62

प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च ।
शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः।
अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम् ॥ १३.४२.६२ ॥

我一次又一次向这难以接近的他顶礼,凝视着他,双手合十置于头顶,惊讶得睁大了双眼,对这位目标不失的、至上中的至上者说道。

13.42.63

नमस्ते भगवन्देव भूतभव्यभवत्प्रभो ।
यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम् ॥ १३.४२.६३ ॥

敬礼您,尊贵的主,神啊,过去、未来与现在之主。神啊,我所见的这奇迹,依托于您。

13.42.64

अनादिमद्यपर्यन्तं किं तच्छंसितुमर्हसि ।
यदि जानासि सां भक्तं यदि वाऽनुग्रहो मयि।
शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया ॥ १३.४२.६४ ॥

无始、无中、无终之事,您应当宣说。若您知道我是虔诚的,或我蒙您恩典,若我值得聆听,请完整地宣说一切。

13.42.65

स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च ।
भवद्भूतभविष्येश सर्वथा गहनं भवान् ॥ १३.४२.६५ ॥

您的本性难以知晓,婆婆(Bhava)的显现亦然。啊,婆婆,过去与未来之主,您在一切方面都深不可测。

13.42.66

ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने ।
किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः ॥ १३.४२.६६ ॥

大仙啊,请完整讲述那奇迹。那些火焰之中,四面八方所发生的极其奇妙之事,究竟是什么?

13.42.67

कानि तान्यग्निहोत्राणि केषां शब्दः श्रुतो मया ।
शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम् ॥ १३.४२.६७ ॥

那些火祭是什么?我听到的是谁的声音?那些不可见的大德者持续聆听吠陀。

13.42.68

एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः ।
गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः ॥ १३.४२.६८ ॥

请完整告诉我这一切,尊贵的克里希那:在火旁诵读的那些梵之聚集者是谁?