摩诃婆罗多 · 章 13.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.43.1
मां न देवा न गन्धर्वा नासुरा न व राक्षसाः ।
विदुस्तत्वेन सत्वस्थं सूक्ष्मात्मानमवस्थितम् ॥ १३.४३.१ ॥
诸神、乾闼婆、阿修罗与罗刹都不能真正认识我——我是安住于萨埵之中的微妙自我。
13.43.2
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया ।
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः ॥ १३.४३.२ ॥
为了众世界的福祉,我将自身分为四重;我是过去、现在、未来诸有之始,无始,宇宙的创造者,至高者。
13.43.3
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
मनो बुद्धिश्च चेतश्च तमः सत्वं रजस्तथा ॥ १३.४३.३ ॥
地、风、空、水、第五的火,意、觉、心识,暗性、善性与激性——皆如是。
13.43.4
प्रकृतिर्विकृतिश्चैव विद्याविद्ये शुभाशुभे ।
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन ॥ १३.४३.४ ॥
自性与变异、明与无明、善与恶,这些都从我而生;我绝不从它们中生出。
13.43.5
यत्किंचिच्छ्रेयसा युक्तं श्रेयस्करमनुत्तमम् ।
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः ॥ १३.४३.५ ॥
凡与吉祥相连、能带来福祉、无上、合于法且具功德者,那便是我,无有过患。
13.43.6
यत्स्वभावात्मतत्वज्ञैः कारणैरुपलक्ष्यते ।
अनादिमध्यनिधनः सोन्तरात्माऽस्मि शाश्वतः ॥ १३.४३.६ ॥
知性、我与真理者借诸因所认识的,无始、无中、无终——那内在的自我即是我,恒常不变。
13.43.7
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः ।
गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योस्मि शाश्वतः ॥ १३.४३.७ ॥
我那至高的隐秘形相,为能见微妙义、知微妙态者所领会;那不可显现的,便是我,永恒者。
13.43.8
तत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत् ।
सोहङ्गतः सर्वसत्वः सर्वस्य प्रभवोऽव्ययः ॥ १३.४३.८ ॥
这便是我至高的隐秘形相,此世界由之遍布;我已进入一切众生,我是一切不灭的本源。
13.43.9
मत्तो जायन्ति भूतानि मया धार्यन्त्यहर्निशम् ।
मय्येव विलयं यान्ति प्रलये पन्नगाशन ॥ १३.४३.९ ॥
众生从我而生,昼夜由我所持;在劫末时,它们皆归入于我,哦,食蛇者。
13.43.10
यो मां यथा वेदयति तथा तस्यास्मि काश्यप ।
मनोबुद्धिगतः श्रेयो विदधामि विहङ्गम ॥ १३.४३.१० ॥
谁如何认识我,我便对他如何,迦叶啊;我住在心与智之中,为他赐予善福,鸟啊。
13.43.11
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम ।
शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः ॥ १३.४३.११ ॥
你已决心要认识我,鸟中之最;听着:我是谁,从何而来,为何目的而行动。
13.43.12
ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः ।
अग्निकार्यपरा नित्यं जपहोमपरायणाः ॥ १३.४३.१२ ॥
那些自制其心、以三火至尊供奉、恒常从事火祭、专注于诵念与献祭的人。
13.43.13
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः ।
अनन्यमनसस्ते मां सर्वे वै समुपासते ॥ १३.४३.१३ ॥
在自身之中安置诸火,克制自己,控制诸根,心无旁骛,他们都崇拜我。
13.43.14
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः ।
अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंश्रिताः ॥ १३.४३.१४ ॥
以念诵之祭与心念之祭祀奉我,他们克制良好,常常趋近诸火,并且唯依于诸火。
13.43.15
अनन्यकार्याः शुचयो नित्यमग्निपरायणाः ।
य एवंबुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः ॥ १३.४३.१५ ॥
无他务、清净、常以火为依归、坚定如此觉悟的智者,他们来到我这里。
13.43.16
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः ।
आत्मन्यग्निं समाधाय निराहारा निराशिषः ॥ १३.४३.१६ ॥
其志愿不为欲望所扰,常安住于智慧,在自身之中安置火,断食而无所求。
13.43.17
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः ।
अनन्यमनसो धीराः स्वभावनियमान्विताः ॥ १३.४३.१७ ॥
不沉溺于诸境,以智慧之眼获得解脱,心无旁骛、坚定不移,具足依自性而有的制约。
13.43.18
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम् ।
तत्राग्नयः सन्निहिता दीप्यन्ते स्म निरिन्धनाः ॥ १३.४३.१८ ॥
那片在空中所见的湖,充满莲花与青莲;那里,无柴的诸火安住其中,熠熠发光。
13.43.19
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः ।
उपासीना गृणन्तोऽग्निमस्पष्टाक्षरभाषिणः।
आकाङ्क्षमाणाः शुचयस्तेष्वग्रिषु विहङ्गम ॥ १३.४३.१९ ॥
那些以智慧使心灵纯净、如月光般清澈的人,坐在那里赞颂火神,吐出不甚清晰的音节,渴望那些至高的火,保持纯洁,啊,鸟儿。
13.43.20
ये मया भावितात्मानो मय्येवाभिरताः सदा ।
उपासते च मामेव ज्योतिर्भूता निरामयाः ॥ १३.४३.२० ॥
那些被我净化了灵魂、时常在我之中欢喜、并且只崇拜我的人,会变成光明,并免于疾病。
13.43.21
तैर्हि तत्रैव वस्तव्यं नीरागादिभिरच्युतैः ।
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः ॥ १३.४३.२१ ॥
那些摆脱了贪欲等的、不坠的人,应当居住在那里;他们不食,不动,光辉如月光。
13.43.22
निर्मला निरहङ्कारा निरालम्बा निराशिषः ।
मद्भक्ताः सततं तेवै भक्तांस्तानपि चाप्यहम् ॥ १३.४३.२२ ॥
那些清净、无我慢、无所依、无欲求、时常是我的信徒的人,他们确实是;我也接纳那些信徒。
13.43.23
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः ।
लोकानां धारणार्थाय विधानं विदधामि च ॥ १३.४३.२३ ॥
我分成四份,为世界的利益而行走;为了维持诸世界,我也制定了秩序。
13.43.24
यथावत्तदशेषेण श्रोतुमर्हति मे भवान् ॥ १३.४३.२४ ॥
您值得将那一切如实、完整地讲给我听。
13.43.25
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता ।
द्वितीया सृजते तात भूतग्रामं चराचरम् ॥ १३.४३.२५ ॥
一个形相名为无属性者,安住于至上瑜伽;第二个,爱子啊,创造动与不动的众生。
13.43.26
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम् ।
ज्ञातात्मनिष्ठा क्षपयन्मोहयन्तीव मायया।
क्षपयन्ती मोहयति आत्मनिष्ठा स्वमायया ॥ १३.४३.२६ ॥
一者收回所造的动与不动之世界;安住于自性,以幻力似乎迷惑而毁灭;以自身之幻力毁灭而迷惑。
13.43.27
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा ।
रक्षते चापि नियता सोहमस्मि नभश्वरः ॥ १३.४३.२७ ॥
我的第四大形相赋予世界增长,并且恒常地守护它;那便是我,在天空中飞行者。
13.43.28
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम् ।
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः ॥ १३.४३.२८ ॥
此一切为我所遍满,一切皆安立于我。我是一切世界的种子,行于一切处,不灭。
13.43.29
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः ।
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम ॥ १३.४३.२९ ॥
凡有火祭,以及那些如月光聚集、恒常诵读吠陀的人,啊飞鸟,我便居于那些火中。
13.43.30
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः ।
तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम्।
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः ॥ १३.४३.३० ॥
具足智慧的有福之人依次来到我这里。对他们而言,我是光明的苦行,是正确凝聚的光辉;他们恒常住于我中,而我不倦地住于他们之中。
13.43.31
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना ।
शक्यः समासादयितुमहं वै ज्ञानचक्षुषा ॥ १३.४३.३१ ॥
若人四面无所执著,于我专一入定,则以智慧之眼确能证得我。
13.43.32
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् ।
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान् ॥ १३.४३.३२ ॥
当知我以粗相可见,乃世界之果与因;并当知诸世界及其诸神,确实皆由我而生。
13.43.33
मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्यिथः ।
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः ॥ १३.४३.३३ ॥
我的自我也分为四重,安住于众生之中:内在自我的婆薮提婆,以及安住于意中的阿尼卢陀。
13.43.34
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः ।
अन्यथा च चतुर्दा यत्सम्यक्त्वं श्रोतुमर्हसि ॥ १३.४३.३४ ॥
僧伽尔沙那安住于我慢之中,普拉延摩安住于意之中。而此四重之相的真实,你应当正确地听闻。
13.43.35
यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत ।
ब्राह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम् ॥ १३.४३.३५ ॥
往昔那朵莲花生出之时,梵天便在其中诞生;并且从婆罗门(梵天)又生出了湿婆。应当如此理解。
13.43.36
शिवात्स्कन्दः संवभूव एतत्सृष्टिचतुष्टयम् ।
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः ॥ १३.४३.३६ ॥
从湿婆生出斯建陀;此即四重创造。应当如此常时认识我:我是摧毁提迭与檀那伐之骄慢者。
13.43.37
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते ।
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशुग ॥ १३.४३.३७ ॥
当法被提迭、檀那婆和罗刹所压迫时,为了增长法,我将很快以化身显现。
13.43.38
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः ।
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा ॥ १३.४३.३८ ॥
唯有那些专注于吠陀誓愿、坚定、智慧确定并修习瑜伽的瑜伽士才能见到我,别无他途。
13.43.39
पञ्चभिः सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः ।
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम् ॥ १३.४३.३९ ॥
我与五者相合,又与五者相离;我存在于其中,又从其中退出。
13.43.40
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः ॥ १३.४३.४० ॥
那些认识我、心生定愿的人,以他们那样的状态,见到我。
13.43.41
स्वं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम् ।
तदात्मकोऽस्मि विज्ञेयो न चान्योस्मीति निश्चितम्। ॥ १३.४३.४१ ॥
虚空、风、水、火,以及第五者地——应当知道我是其本性;我并非异于它们,此点确定无疑。
13.43.42
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम् ।
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम् ॥ १३.४३.४२ ॥
现在与过去,在五类之中不动者;在声、触、色、味、香之中,也是我。
13.43.43
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता ।
ते न पश्यन्ति मे तत्वं तपसा महता ह्यपि ॥ १३.४३.४३ ॥
心被激情与黑暗所缠、意志不定之人,即使修持大苦行,也见不到我的真实本性。
13.43.44
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि ।
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः ॥ १३.४३.४४ ॥
无论禁食、戒律,还是种种誓愿,都不能见到或了知至高之境。
13.43.45
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः ।
एकान्तिनो ध्यानपरा यतिभावाद्ब्रजन्ति माम् ॥ १३.४३.४५ ॥
对于陷入大迷惑泥沼中的人,哈里便是归宿;专一、勤于禅修者,以出家者之境界来到我这里。
13.43.46
सत्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता ।
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम् ॥ १३.४३.४६ ॥
心与纯善(萨埵)相应、唯一确定于自我之人,便能见到自己的自我,即那不灭的至上自我。
13.43.47
अहिंसा सर्वभूतेषु तेष्ववस्तितमार्जवम् ।
तेष्वेव च समाधाय सम्यगेति च मामजम् ॥ १३.४३.४७ ॥
对一切众生不加伤害,以及安住于众生之中的正直;将心专注于此,便能正确地到达我这无生者。
13.43.48
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम् ।
यत्तेन तदशेषेण यथावच्छ्रोतुमर्हसि ॥ १३.४३.४८ ॥
这至高、秘密而极为奇妙的教诲,你应当完整而如实地聆听。
13.43.49
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः ।
ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि ॥ १३.४३.४९ ॥
那些恪守火祭、专注于念诵祭的人,永远崇拜我;你所见到的正是他们。
13.43.50
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा ।
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम् ॥ १३.४३.५० ॥
知晓经典所见之规则、从不以他法执著的人,才能认识我;那便是我至高不灭之性。
13.43.51
ये तु सांख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः ।
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम् ॥ १३.४३.५१ ॥
然而,虽知数论与瑜伽,却无坚定决心的人,即便有才能,也不能达到那至高无上的归宿。
13.43.52
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः ।
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति ॥ १३.४३.५२ ॥
因此,以清净的智慧,心性安详、知晓自我而清净的人,便能证得那梵;到达之后,他不再忧愁。
13.43.53
शुद्धाभिजनसम्पन्नाः श्रद्धायुक्तेन चेतसा ।
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिं ॥ १३.४३.५३ ॥
出身清净、以信心之心并以对我的奉爱而行的人,啊,二生者中的至尊,他们将抵达至高的归宿。
13.43.54
यद्गह्यं परमं बुद्धेरलिङ्गग्रहणं च यत् ।
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः ॥ १३.४३.५४ ॥
那是智慧的至高秘密、无相而可把握的,这微妙之理由智者婆罗门与见真理的苦行者所领悟。
13.43.55
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः ।
न चापः पृथिवी चैव नाकाशं न मनोगतिः ॥ १३.४३.५५ ॥
那里没有风吹,也没有星辰的运行;没有水,没有地,没有虚空,也没有心的活动。
13.43.56
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम ।
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः ॥ १३.४३.५६ ॥
啊,飞鸟!这一切皆由他而生;而他清净遍在,超越于万物,也超越于那些生出万物者。
13.43.57
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ ।
एतत्सूक्ष्मस्य तद्द्वारं कार्याणां कारणं त्वहम् ॥ १३.४३.५७ ॥
无罪者啊,你所见到的我只是粗显的形相;这是通往那微妙者的门户,而我正是一切作用的因。
13.43.58
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम ।
ब्रह्मणो यदहोरात्रसङ्ख्याभिज्ञैर्विभाव्यते ॥ १३.४३.५८ ॥
你确实在湖中见到了它,啊,勇力无量者;它是由那些知晓梵天昼夜之数的人所计算的。
13.43.59
एष कालस्त्वया तत्र सरस्यहमुपागतः ।
मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः।
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते ॥ १३.४३.५९ ॥
你在湖中见到了这段时间,我曾在那里降临。通晓祭祀者称我为祭祀,通晓吠陀者称我为吠陀,而圣者也宣称我为念诵之祭。
13.43.60
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः ।
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः ॥ १३.४३.६० ॥
我是言说者、思维者、品尝者、嗅闻者、见者与显示者;我是知者与开示者,行者与闻者,我的本性即是觉性。
13.43.61
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत् ।
ज्ञात्वा मामेव चैवान्ते निःसङ्गेनान्तरात्मना ॥ १३.४३.६१ ॥
敬拜我者升往天界,亦同样获得大果;终了时唯知我,以无执的内在自我。
13.43.62
अहं तेजो द्विजातीनां मम तेजो द्विजातयः ।
मम यस्तेजसो देहः सोग्निरित्यवगम्यताम् ॥ १३.४३.६२ ॥
我是再生者的光辉,再生者即是我的光辉。我光辉之身,应知即是火。
13.43.63
प्राणपालः शरीरेऽहं योगिनामहमीश्वरः ।
सांख्यानामिदमेवाग्रे मयि सर्वमिदं जगत् ॥ १३.४३.६३ ॥
我是身中气息的守护者,我是瑜伽行者的主宰。对数论者而言,这是起始:这整个世界都在我之中。
13.43.64
धर्ममर्तं च कामं च मोक्षं चैवार्जवं जपम् ।
तमः सत्वं रजश्चैव कर्मजं च भवाप्ययम् ॥ १३.४३.६४ ॥
法、利、欲、解脱、正直、诵持、暗性、善性与忧性,业所生者,以及生与灭——
13.43.65
स तदाऽहं तथारूपस्त्वया दृष्टः सनातनः ।
ततस्त्वहं परतरः शक्यः कालेन वेदितुम् ॥ १३.४३.६५ ॥
那时我以如是之形被你看见为永恒者;然而我更为超越,唯有假以时日方能被知晓。
13.43.66
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम् ।
तदेवं परमो गुह्यो देवो नारायणो हरिः।
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः ॥ १३.४३.६६ ॥
我之所有,至上、秘密、永恒、坚固、不坏者——此即至上秘密之神那罗延、诃利。凡有富足兴盛者,不能知晓此事,哦,蛇王。
13.43.67
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा ।
गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् ॥ १३.४३.६७ ॥
无所作为、不行礼拜、无欲望束缚的大德,皆往至那至上永恒的梵。
13.43.68
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ ।
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन ॥ १३.४३.६८ ॥
鸟啊,你已这样见到了我的巨大形体,无罪者啊;除你之外,无人知晓此事,食蛇者啊。
13.43.69
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा ।
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् ॥ १३.४३.६९ ॥
愿你的心志不致迷失;这是无上之道。永远做我的信徒,你便会知道我的居所。
13.43.70
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम् ।
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम् ॥ १३.४३.७० ॥
这一切已向你宣说——神圣与人间的秘密。这是至善;当知此乃求解脱者之道。
13.43.71
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।
पश्यतो मे महायोगी जगामात्मगतिर्गतिम् ॥ १३.४३.७१ ॥
说完这番话,世尊便就在那里隐去了。我亲眼看着,那位大瑜伽士以自己的方式抵达了至上之境。
13.43.72
एतदेवंविधं तस्य महिमानं महात्मनः ।
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा ॥ १३.४३.७२ ॥
这样的荣光,我先前已亲见——那位大德、不坏、不可量度者的荣光。
13.43.73
एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः ।
मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः ॥ १३.४३.७३ ॥
那位智者的一切行事我都已对你们讲述。我亲身经历过,也亲眼见过那位行事奇妙者的作为。